भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 3.7

3.7.1

अथातः सिरावर्णविभक्तिं नाम शारीरं व्याख्यास्यामः॥

3.7.2

यथोवाच भगवान् धन्वन्तरिः॥

3.7.3

सप्त सिराशतानि भवन्ति; याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः; द्रुमपत्रसेवनीनामिव च तासां प्रतानाः; तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च॥

3.7.4

भवतश्चात्र यावत्यस्तु सिराः काये संभवन्ति शरीरिणाम्॥ नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति[ऽप्रवर्तन्तेऽ इति पा] समन्ततः॥

3.7.5

नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता॥ सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः॥

3.7.6

तासां मूलसिराश्चत्वारिंशत्; तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः। तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लीह्नोः, एवमेतानि सप्त सिराशतानि॥

3.7.7

तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः, एतेनेतरसक्थि बाहू च व्याख्यातौ। विशेषतस्तु कोष्ठे चतुर्स्त्रिंशत्; तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ, द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य एव चोदरे, दश वक्षसि। एकचत्वारिंशज्जत्रुण ऊर्ध्वं, तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षट् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं वातवहानां सिराणां व्याख्यातं भवति। एष एव विभागः शेषाणामपि। विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे; एवं रक्तवाहाः कफवहाश्च। एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि॥

3.7.8

भवन्ति चात्र । क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्॥ करोत्यन्यान् गुणांश्चापि सिराः पवनश्चरन्॥

3.7.9

यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते॥ तदास्य विविधा रोगा जायन्ते वातसंभवाः॥

3.7.10

भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्॥ संसर्पत्स्वाः सिराः पित्तं कुर्याच्चान्यान्गुणूनपि॥

3.7.11

यदा प्रकुतितं पित्तं सेवते स्ववहाः सिराः॥ तदास्य विविधा रोगा जायन्ते पित्तसंभवाः॥

3.7.12

स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम्॥ करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन्॥

3.7.13

यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते॥ तदास्य विविधा रोगा जायन्ते श्लेष्मसंभवाः॥

3.7.14

धातूनां पूरणं स्पर्शज्ञानमसंशयम्॥ स्वाः सिराः संचरद्रक्तं कुर्याच्चान्यान् गुणानपि॥

3.7.15

यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः॥ तदास्य विविधा रोगा जायन्ते रक्तसंभवाः॥

3.7.16

न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा॥ श्लेष्माणां वा वहन्त्येता अतः सर्ववहाः स्मृताः॥

3.7.17

प्रदुष्टानां हि दोषाणां मूर्च्छितानां प्रधावताम्॥ ध्रुवमुन्मारगगमनमतः सर्ववहाः स्मृताः॥

3.7.18

तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः॥ पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात्॥ असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः॥

3.7.19

अत ऊर्ध्वं प्रवक्ष्यामि न विध्येदाः सिरा भिषक्॥ वैक्स्ल्यं मरणं चापि व्यधात्तासां द्ज्रिवं भवेत्॥

3.7.20

सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान्॥ षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिं च मूर्धनि॥

3.7.21

शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु॥ पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः॥

3.7.22

तत्र सिराशतमेकस्मिन् सक्थ्नि भवति; तासां जालधरा त्वेका, तिस्रश्चाभ्यन्तराः---तत्रोर्वीसंज्ञे द्वे, लोहिताक्षसंज्ञा चैका, एतास्त्वव्यध्याः; एतेनेतरसक्थि बाहू च व्याख्यातौ; एवमशस्त्रकृत्याः षोडश शाखासु। द्वात्रिंशच्छ्रोण्यां, तासामष्टावशस्त्रकृत्याः---द्वे द्वे विटपयोः, कटीकतरुणयोश्च; अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे; चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभयतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद्बृहतीसिरे; तावत्य एवोदरे, तासां मेढोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत्; चत्वारिंशद्वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः---हृदये द्वे, द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ; एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति। चतुःषष्टिसिराशतं जत्रुण ऊर्ध्वं भवति; तत्र षट्पञ्चाशच्छिरोधरायां , तासामष्टौ चतस्रश्च मर्मसंज्ञाः परिहरेत्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः; हन्वोरुभयतोऽष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्; षट्त्रिंशज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे; द्विर्द्वादश नासायां, तासामौपनासिक्यश्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे; अष्टत्रिंशदुभयोर्नेत्रयोः , तासामेकामपाङ्गयोः परिहरेत्; कर्णयोर्दश, तासां शब्दवाहिनीमेकैकां परिहरेत्; नासानेत्रगतास्तु ललाटे षष्टिः, तासां केशान्तानुगताश्चतस्रः (परिहरेत्), आवर्तयोरेकैका, स्थपन्यां चैका, परिहर्तव्या; शङ्खयोर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत्; (इत्येता नासानेत्रगता बोद्धव्याः) द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीमन्तेष्वेकैकां, एकामधिपताविति; एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति॥

3.7.23

भवति चात्र । व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः॥ प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc