सुश्रुतसंहिता · अध्याय 3.6
अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
सप्तोत्तरं मर्मशतम्। तानि मर्नाणि पञ्चात्मकानि भवन्ति, तद्यथा---मांसमर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि; सन्धिमर्माणि चेति; न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति, यस्मान्नोपलभ्यन्ते॥
तत्रैकादश मांसमर्माणि, एकचत्वारिंशत्सिरामर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टावस्थिमर्माणि, विंशतिः सन्धिमर्माणि चेति। तदेतत् सप्तोत्तरं मर्मशतम्॥
तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत्॥
तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्यूर्वीलोहिताक्षाणि विटपं चेति, एतेनेतरत्सक्थि व्याख्यातम्। उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूल-स्तनरोहितापलापान्यपस्तम्भौ चेति । पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति। बाहुमर्माणि तु क्षिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रबस्तिकूर्पराण्यूर्वीलोहिताक्षणि कक्षधरं चेति; एतेनेतरो बाहुर्व्याख्यातः। जत्रुण ऊर्ध्वं (मर्माणि) चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वे फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति॥
तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिरामर्माणि, आणीविटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि, जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरानर्तकृकाटिकाश्चेति सन्धिमर्माणि॥ [ऽइमे सिरामर्मणी,ऽग्रीवायां षोडश अव्यध्याःऽ इत्यत्र डल्हणेनैव विधुरयोः षोडशसंख्यायामेव परिगणनं कृतं, स्नायुमर्मसु गणनं तु प्रतिसंस्कर्तृदोषकूषितं प्रतिभातिऽ(रसयोगसागर,उपोद्धात, पृ 156)।]
तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति। तद्यथा---सद्यःप्राणहराणि, कालान्तरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणीति। तत्र सद्यःप्राणहराण्येकोनविंशतिः, कालान्तरप्राणहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति॥
भवन्ति चात्र। शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम्॥ हृदयं बस्तिनाभी च घ्नन्ति सद्यो हतानि तु॥
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः॥ कटीकतरुणे सन्धी पार्श्वजौ[ऽपार्श्वगौऽइतिअपार्श्वयोःऽइति च पा] बृहती च या॥
नितम्बाविति चैतानि कालान्तरहराणि तु॥ उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत्॥
लोहिताक्षाणि जानूर्वीकूर्चनिटपकूर्पराः॥ कुकुन्दरे कक्षधरे विधुरे सकृकाटिके॥
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा॥ वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च॥
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च॥ रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्॥ क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च॥
मर्माणि नाम मांससिरास्नाय्वस्थिसन्धिसन्निपाताः; तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मान्मर्मस्वभिहतास्तांस्तान् भावनापद्यन्ते॥
तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति; कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति; विशल्यप्राणहराणि वाय्व्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते (पाकात्पतितशल्यो वा जीवति)[अयं पाठः केषुचित्पुस्तकेषु नोपलभयते]; वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च त्राणावलम्बनं करोति; रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौ रुजाकरौ, पाञ्चभौतिकीं च रुजामाहुरेके॥
केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां च समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राणहराणि, द्विहीनानां विशल्यप्राणहराणि , त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति। नैवं, यतोऽस्थिमर्मस्वप्यभिहतेषु शोणिताअमनं भवति॥
भवन्ति चात्र। चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः॥ स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति ॥
ततः क्ष्ते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति॥विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये॥
रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा॥ अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत्॥
एतेनशेषं व्याख्यातम्॥
तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यप्राणहरं च, वैकल्यकरं कालान्तरं क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति॥[ऽविशल्यप्राणहरमन्ते विद्धं क्लेशयति कालान्तरेण च रुजां करोतिऽ इति पा]
तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयति, कालान्तरप्राणहराणि पक्षान्मासाद्वा, तेष्वपि क्षिप्राणि कदाचिदाशु मारयन्ति, विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति॥
उत ऊर्ध्वं प्रत्येकशो मर्मस्थानानि व्याख्यास्यामः---तत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणं; मध्यमाङ्गुलीमनुपूर्वण मध्ये पादतलस्य तलहृदयं नाम[अत्रअमामऽइति हस्तलिखितपुस्तके नोपलभ्यते, एवमग्रेऽपि।], तत्रापि रुजाभिर्मरणं; क्षिप्रत्योपरिष्टादुभयतः कूर्चो नाम, तत्र पादस्य भ्रमणवेपने भवतः; गुल्फसन्धेरध उभयतः कूर्चशिरो नाम, तत्र रुजाशोफौ; पादजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्धपादता खञ्जता वा; पार्ष्णिं प्रति जङ्घामध्ये इन्द्रिबस्तिर्नाम, तत्र शोणितक्षयेण मरणं; जङ्घोर्वोः[ऽमध्यमाङ्गुलीमानुपूर्व्येण जङ्घोर्वोःऽइति पा] सन्धाने जानु नाम, तत्र खञ्जता; जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमाणी नाम, तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च; ऊरुमध्ये ऊर्वी नाम, तत्र शोणितक्षयात् सक्थिशोषः; ऊर्व्या ऊर्ध्वमधो वङ्क्षणसंधेर्-ऊरुमूले लोहिताक्षं नाम, तत्र लोहितक्षयेण[ऽलोहितक्षयेण मरणं पक्षाघातो वाऽइति पा] पक्षाघातः सक्थिशोषो वा; वङ्क्षणवृषणयोरन्तरे निटपं नाम, तत्र षाण्ढ्यमल्पशुक्रता वा भवति; एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि। एतेनेतरसक्थि बाहू च व्याख्यातौ। विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि तानि बाहौ मणिबव्धकूर्परकक्षधराणि; यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धे त एवोपद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये कुणिः, कक्षधरे पक्षाघातः। एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि॥
अत ऊर्ध्वमुदरोरसोर्-मर्माण्यनुव्याख्यास्यामः[ऽमर्मस्धानान्यनुव्याख्यास्यामःऽइति पा]---तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिवद्धं गुदं नाम मर्म, तत्र सद्योमरणं; अल्पमांसशोणितोभ्यन्तरतः क्ट्यां मुत्राशयो बस्तिर्नाम, तत्रापि सद्योमरंअमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जावति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभावा नाभिर्नाम, तत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं[ऽस्तनचूचुकयोर्मध्ये स्तनरोहितौऽइति पा] सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले नाम (मर्मणी) , तत्र कफपूर्णकोष्ठतया कसश्वासाभ्यां म्रियते; स्तनचूचुकयोरूर्ध्वं द्वङ्गुलमुभयतः स्तनरोहितौ नाम, तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते; अंसकूटयोरधस्तात् पार्श्बोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणं; ए अमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि॥ [स्तनमूललक्षणेऽस्तनयोरूर्ध्वंऽइति । स्तनरोहितलक्षणे चअस्तनचूचुकयोरधस्तात्ऽइति च रसयोगसागरस्योपोद्धाते(पृ.158) च संशोधितः पाठः। विशेषविवरणं तु तत्रैव द्रष्टव्यम्।]
अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः ---तत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे नाम मर्माणी, तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते, पार्श्वजघनबहिर्भागे पृष्ठवंशमुभयतो (नातिनिम्ने) कुकुन्दरे नाम मर्माणि , तत्र स्पर्शाज्ञानमध्ःकाये चेष्टोपघातश्च; श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधःकायशोषो दौर्बल्याच्च मरणं; अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते; स्तनमूलादृजूभयतेः पृष्ठवंशस्य बृहत्यौ नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसंबद्धे अंसफलके नाम, तत्र बाह्वोः स्वापशोषौ ; बाहुमूर्धग्रीवामध्येऽसपीठसकन्धनिबन्धनावंसौ नाम, तत्र स्तब्धबाहुता; एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि॥
अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः---तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन , तत्र मूकता स्वरवैकृतमरसग्राहिता च; ग्रीवायामुभयतश्-चतस्रः सिरा मातृकाः, तत्र सद्योमरणं; शिरोग्रीवयोः सन्धाने कृकाटिके नाम, तत्र चलमूर्धता; कर्णपृष्ठतोऽधःसंश्रिते विधुरे नाम, तत्र बाधिर्यं; घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे नाम, तत्र गन्धाज्ञानं; भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम, तत्रान्ध्यं दृष्ट्युपघातो वा; भ्रुवोरुपरि निम्नयोरावर्तौ नाम, तत्राप्यान्ध्यं दृष्ट्युपघातो वा; भ्रुवोः पुच्छान्तयोरुपरि[ऽभ्रुवोरन्तोपरिऽइति पा] कर्णललाटयोर्मध्ये शङ्खौ नाम, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी नाम, तत्रोत्क्षेपवत्; पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तमाशैर्मरणं; घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि , तानि चत्वारि मर्माणि, तत्रापि सद्यो मरणं; मस्तकाभ्यन्तरत उपरिष्टात् सिरासव्धिसन्निपातो रोमावर्तोऽधिपतिः, तत्रापि सद्य एव । एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि॥
भवन्ति चात्र। ऊर्ध्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम्॥ विद्ध्यङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम्॥
हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे॥ तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धाम्॥
एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम्॥ पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम्॥
च्छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति॥ प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्निशाखतरुवन्निधनं न यान्ति॥
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति॥ एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः[ऽइवायुधनिपातनिकृत्तमूलाःऽइति पा]॥
तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे॥ मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः॥
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि॥ संभिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रवि(नि)हतैश्च शरीरदेशैः॥
छिन्नैश्च सक्थिभुजपादकरैर्-अशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः॥ सोममारुततेजांसि रजःसत्त्वतमांसि च॥ मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते॥
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः॥ इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः॥
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते॥ हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम्॥
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति॥ हते वैकल्यजनने केवलं वैद्यनैपुणात्॥
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्॥ विशल्यघ्नेषु विज्ञेयं पूर्वोक्तं यच्च कारणम्॥
रुजाकराणि मर्माणि क्षतानि विविधा रुजः॥ कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि॥
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि॥ उपघातं विजानीयान्मर्मणां तुल्यलक्षणम्॥
मर्माभिघातस्तु च कश्चिदस्ति योऽल्पात्ययो वापि निरत्ययो वा॥ प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते॥
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्॥ प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0