सुश्रुतसंहिता · अध्याय 2.6
अथातः प्रमेहनिदानं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपानसेविनं पुरुषं जानीयात् प्रमेही भविष्यतीति॥
तस्य चैवंप्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति॥
तेषां तु पूर्वरूपाणि हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम्॥
तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति॥
सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः॥
तत्र, कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूष्याणां समक्रियत्वात्; पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षड् याप्याः, दोषदूष्याणां विषमक्रियत्वात्; वातात् सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात्॥
तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति, वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्, कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान्॥
तत्र, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति; इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही; आविलं सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही; स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति॥
अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः सफेनमच्छं नीलं नीलमेही मेहति; सदाहं हरिद्राभं हरिद्रामेही; अम्लरसगन्धमम्लमेही; स्रुतक्षारप्रतिमं क्षारमेही; मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही; शोणितप्रकाशं शोणितमेही मेहति॥
अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः सर्पिःप्रकाशं सर्पिर्मेही मेहति; वसाप्रकाशं वसामेही; क्षौद्ररसवर्णं क्षौद्रमेही; मत्तमातङ्गवदनुप्रबन्धं हस्तिमेही मेहति॥
मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः; वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां; हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम्। एवमेते विंशति प्रमेहाः सोपद्रवा व्याख्याताः॥
तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते। तद्यथा शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, विदारिका, विद्रधिका चेति॥
शरावमात्रा तद्रूपा निम्नमध्या शराविका। गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी॥
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः। जालिनी तीव्रदाहा तु मांसजालसमावृता॥
महती पिडका नीला पिडका विनता स्मृता। महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी॥
मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका। रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत्॥
विदारीकन्दवद्वृत्ता कठिना च विदारिका। विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः॥
गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः। सोपद्रवा दुर्बलाग्रेः पिडकाः परिवर्जयेत्॥
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः। अधः प्रक्रमते वयुस्तेनासाध्यास्तु वातजाः॥
प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते। किंचिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत्॥
कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे। प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिशेत्॥
पिडकापिडितं गाढमुपसृष्टमुपद्रवैः। मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः॥
स चापि गमनात् स्थानं स्थानदासनमिच्छति। आसनाद्वृणुते शय्यां शयनात् स्वप्नमिच्छति॥
यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति, एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति॥
भवति चात्र सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः। मधुमेहत्वमायान्ति तदासाध्या भवन्ति हि॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0