भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 2.7

2.7.1

अथात उदराणां निदानं व्याख्यास्यामः॥

2.7.2

यथोवाच भगवान् धन्वन्तरिः॥

2.7.3

धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमोऽभवद्यः। ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः॥

2.7.4

पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव। आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि॥

2.7.5

सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा। स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः॥

2.7.6

गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः। कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः॥

2.7.7

त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति। तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः॥

2.7.8

जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः। संगृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम्॥

2.7.9

सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत्। यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः॥

2.7.10

पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि। यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य॥

2.7.11

स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि। स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः॥

2.7.12

यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा। तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम्॥

2.7.13

विशेषतः कुप्यति दह्यते च स चातुरो मूर्च्छति संप्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च॥

2.7.14

प्रकीर्तितं दूष्युदरं तु घोरं प्लीहोदरं कीर्तयतो निबोध। विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च॥

2.7.15

प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः। वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र॥

2.7.16

मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः। सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव॥

2.7.17

यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा। संचीयते तत्र मलः सदोषः क्रमेण नाड्यामिव संकरो हि॥

2.7.18

निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्। हृन्नाभिमध्ये परिवृद्धिमेति त(य)च्चोदरं विट्समगन्धिकं च॥

2.7.19

प्रच्छर्दयन् बद्धगुदी विभाव्यः ततः परिस्राव्युदरं निबोध। शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा॥

2.7.20

तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः।नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च॥

2.7.21

एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध। यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः॥

2.7.22

पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि। स्नेहोपलिप्तेष्वथवापि तेषु दकोदरं पूर्ववदभ्युपैति॥

2.7.23

स्निग्धं महत् संपरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च। यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत्॥

2.7.24

आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता। शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः। दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि॥

2.7.25

अन्ते सलिलभावं हि भजन्ते जठराणि तु। सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc