सुश्रुतसंहिता · अध्याय 2.5
अथातः कुष्ठनिदानं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानि वा पयसाभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहसाछर्दिं वा प्रतिहन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः सर्प्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातूनभिदूषयन्॥
तस्य पूर्वरूपाणि त्वक्पारुष्यमकस्माद्रोमहर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वाङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति॥
तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति। तत्र महाकुष्ठान्यरुणोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणक@पुण्डरीकदद्रुकुष्ठानीति। क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं(मं) पामा चकसा चेति॥
सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोषग्रहणमभिभवात्॥
तत्र वातेनारुणं, पित्तेनोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकानि, स्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति। तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति॥
तत्र, वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि। पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि, ऋष्य(क्ष)जिह्वाप्रकाशानि खराणि ऋष्य(क्ष)जिह्वानि, कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि; तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि। श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि॥
क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः --- स्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः कठिनान्यरूंषि। त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति॥
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम्। स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति॥
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम्। मूर्च्छाविदाहारतितोदपाकाम् कृत्वा विसर्पः स भवेद्विकारः॥
शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः। कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये॥
राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम्। कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव॥
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं(मं) वदन्ति। सास्रावकण्डूपरिदाहकाभिः पामाणुकाभिः पिडकाभिरूह्या॥
स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या। कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा॥
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि। वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात्॥
किलासमपि कुष्ठविकल्प एव; तत्त्रिविधं वातेन, पित्तेन, श्लेष्मणा चेति। कुष्ठकिलासयोरन्तरं त्वग्गतमेव किलासमपरिस्रावि च। तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च। तेषु संबद्धमण्डलमन्तेजातं रक्तरोम चासाध्यमग्निदग्धं च॥
कुष्ठेषु तु त्वक्संकोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा॥
तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम्॥
भवन्ति चात्र --- यथा बनस्पतिर्जातः प्राप्य कालप्रकर्षणम्। अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः॥
एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः। क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः॥
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते। वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते॥
त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम्। कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते॥
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः। तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते॥
दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा। गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते॥
नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसंभवः। भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते॥
कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम्। शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च॥
स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः। यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्॥
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम्। मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम्॥
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः। कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य संभवम्॥
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति। गातः कष्टरतो रोगो यथा कुष्ठं प्रकीर्तितम्॥
आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम्। औषधीनां विशिष्टानां तपसश्च निषेवणात्। यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात्॥
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात्। सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्॥
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च। औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0