भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 2.2

2.2.1

अथातोऽर्शसां निदानं व्याख्यास्यामः॥

2.2.2

यथोवाच भगवान् धन्वन्तरिः॥

2.2.3

षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेत्॥

2.2.4

तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानव्वेगविधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवलीर्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः, तथा तृणकाष्ठोपललोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते॥

2.2.5

तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, तस्मिन् वलयस्तिस्रोऽध्याङ्गुलान्तरसंभूताः प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः; सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः॥

2.2.6

शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः संप्रकीर्तिताः। रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः॥

2.2.7

प्रथमा तु गुदौष्ठादङ्गुलमात्रे॥

2.2.8

तेषां तु भविष्यतां पूर्वरूपाणि अन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्म्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च॥

2.2.9

जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति॥

2.2.10

तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुकुलसूचीमुखाकृतीनि च भवन्ति; तैरुपद्रुतः सशूलं संहतमुपवेश्यते, कटीपृष्ठपार्श्वमेढ्रगुदमाभिप्रदेशेषु चास्य वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥

2.2.11

पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति; तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते, ज्वरदाहपिपासामूर्च्छाश्चास्योपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥

2.2.12

श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्गखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति॥

2.2.13

रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च, यदावगाढपुरीषपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ शोणिताति योगोपद्रवा भवन्ति॥

2.2.14

सन्निपातजानि सर्वदोषलक्षणयुक्तानि॥

2.2.15

सहजानि दुष्टशोणितशुक्रनिमित्तानि, तेषां दोषत एव प्रसाधनं कर्तव्यं, विशेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि दारुणान्यन्तर्मुखानि; तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निप्राणः परमलसश्च, तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी, सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते॥

2.2.16

भवति चात्र--- बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः। अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम्॥

2.2.17

पर्कुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति, ततः कण्डूयनात् क्षतं समुपजायते, तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिललरुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा, ते तु शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वं; योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति, ते तु योनिमुपघ्नन्त्यार्तवं च; नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति; त एवोर्ध्वमागताः श्रोत्राक्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति; तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च, नेत्रजेषु वर्त्मा वरोधो वेदना स्रावो दर्शननाशश्च, घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुनासिकवाक्यत्वं शिरोदुःखं च; वक्त्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति॥

2.2.18

व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिः स्थिराणि कीलवदर्शांसि निर्वर्तयति, तानि चर्मकीलान्यर्शांसीत्याचक्षते॥

2.2.19

भवन्ति चात्र--- तेषु कीलेषु निस्तोदो मारुतेनोपजायते। श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत्॥

2.2.20

पित्तशोणितजं रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा। समुदीर्णखरत्वं च चर्मकीलस्य लक्षणम्॥

2.2.21

अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु यत्। तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः॥

2.2.22

अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य तु। संसर्गं तं विजानीयात् संसर्गः स च षड्विधिः॥

2.2.23

त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत्। द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च॥

2.2.24

कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च। सन्निपातसमुत्थानि सहजानि तु वर्जयेत्॥

2.2.25

सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः। तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते॥

2.2.26

ततो व्यानेन सङ्गम्य ज्योतिर्मृद्गाति देहिनाम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc