भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 2.1

2.1.1

अथातो वातव्याधिनिदानं व्याख्यास्यामहः॥

2.1.2

यथोवाच भगवान् धन्वन्तरिः॥

2.1.3

धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम्। चरणावुपसंगृह्य सुश्रुतः परिपृच्छति॥

2.1.4

वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः। स्थानं कर्म च रोगांश्च वद मे वदतां वर॥

2.1.5

तस्य तद्वचनं प्राब्रवीद्भिषजं वरः। स्वयंभूरेष भगवान् वायुरित्यभिशब्दितः॥

2.1.6

स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च। सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः॥

2.1.7

स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम्। अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः॥

2.1.8

तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च। अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट्॥

2.1.9

आशुकारी मुहुश्चारी पक्वाधानगुदालयः। देहे विचरतस्तस्य लक्षणानि निबोध मे॥

2.1.10

दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च। क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः॥ । इन्द्रियार्थोपसंप्राप्तिं दोषधात्वग्न्यवैकृतम्। क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः॥)

2.1.11

यथाग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः। भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः॥

2.1.12

प्राणोदानौ समानश्च व्यानश्चापान एव च। स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्॥

2.1.13

यो वायुर्वक्त्रसंचारी स प्राणो नाम देहधृक्। सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते॥

2.1.14

प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्॥ उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः॥

2.1.15

तेन भाषितगीतादिविशेषोऽभिप्रवर्तते। ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः॥

2.1.16

आमपक्वाशयचरः समानो वह्निसङ्गतः। सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि॥

2.1.17

गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान्। कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः॥

2.1.18

स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि। क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान्॥

2.1.19

पक्वाधानालयोऽपानः काले कर्षति चाप्यधः। समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च॥

2.1.20

कुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान्। शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः॥

2.1.21

युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम्। अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः॥

2.1.22

बहुशः कुपितो वायुर्विकारान् कुरुते हि यान्। वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान्॥

2.1.23

मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम्। पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च॥

2.1.24

कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्। श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः॥

2.1.25

वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम्। त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम्॥

2.1.26

व्रणांश्च रक्तगो ग्रन्थीन् सशूलान् मांससंश्रितः। तथा मेदःश्रितः कुर्याद्ग्रन्धीन्मन्दरुजोऽव्रणान्॥

2.1.27

कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम्। स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा॥

2.1.28

हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च। अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः॥

2.1.29

तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति। अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले॥

2.1.30

हस्तपादशिरोधातूंस्तथा संचरति क्रमात्। व्याप्नुयाद्वाखिलं देहं वायुः सर्वगतो नृणाम्॥

2.1.31

स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः। स्थानेषूक्तेषु संमिश्रः संमिश्राः कुरुते रुजः॥

2.1.32

कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान्। दाहसंतापमूर्च्छाः स्युर्वायौ पित्तसमन्विते॥

2.1.33

शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते। सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता॥

2.1.34

शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते। प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते॥

2.1.35

दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते। उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः॥

2.1.36

अस्वेदहर्षौ मन्दोऽग्निः शीतस्तम्भौ कफावृते। समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम्॥

2.1.37

कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते। अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः॥

2.1.38

अधःकायगुरुत्वं च तस्मिन्नेव कफावृते। व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः॥

2.1.39

गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम्। लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च॥

2.1.40

प्रायशः सुकुमाराणां मिथ्याआहारविहारिणाम्। रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात्॥

2.1.41

ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात्। अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति॥)

2.1.42

हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः। तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः संतापाद्यैर्भूयसा सेवितैश्च॥

2.1.43

क्षिप्रं रक्तं दुष्टिमायानि तच्च वायोर्मार्गं संरुणद्ध्याशु यातः। क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु॥

2.1.44

तत् संपृक्तं वायुना दूषितेन तत्प्रावल्यादुच्यते वातरक्तम्। तद्वत् पित्तं दूषितेनासृजाआक्तं श्लेष्मा दुष्टो दूषितेनासृजाआक्तः॥

2.1.45

स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ। पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च॥

2.1.46

कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते। सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति॥

2.1.47

प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ। वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ॥

2.1.48

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि। आस्वोर्विषमिव क्रुद्धं तद्देहमनुसर्पति॥

2.1.49

आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्। उपद्रवैश्च यज्युष्टं प्राणमांसक्षयादिभिः॥

2.1.50

शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम्। यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः॥

2.1.51

तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः। मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः॥

2.1.52

सोऽपतानकसंज्ञो यः पातयत्यन्तरान्तरा। कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति॥

2.1.53

स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः। हनुग्रहस्तदात्यर्थं कृच्छ्रान्निषेवते॥

2.1.54

धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः। अङ्गुलीगुल्फजठरह्रद्वक्षोगलसंश्रितः॥

2.1.55

स्नायुप्रतानमनिलो यदाआक्षिपति वेगवान्। विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन्॥

2.1.56

अभ्यन्तरं धनुरिव यदा नमति मानवः। तदास्याभ्यन्तरायामं कुरुते मारुतो बली॥

2.1.57

बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च। तमसाध्यं बुधाः प्राहुर्वक्षःकठ्यूरुभञ्जनम्॥

2.1.58

कफपित्तान्वितो वायुर्वायुरेव च केवलः। कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम्॥

2.1.59

गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः। अभिघातनिमित्तश्च न सिध्यत्यपतानकः॥

2.1.60

अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः। यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते॥

2.1.61

तदान्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन्। हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः॥

2.1.62

यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम्। ततः पतस्यसून् वापि त्यजत्यनिलपीडितः॥

2.1.63

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः। साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम्॥

2.1.64

वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः। शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः॥

2.1.65

निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वापि कूजति। निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः॥

2.1.66

स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति। कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः॥

2.1.67

दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः। मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाआवृतः॥

2.1.68

(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये।) उच्चैर्व्याहरतोऽत्यर्थं स्वादतः कठिनानि वा। हसतो जृम्भतो भाराद्विषमाच्छयनादपि॥

2.1.69

शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः। अर्दयित्वानिलो वक्त्रमर्दितं जनयत्यतः॥

2.1.70

वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते। शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम्॥

2.1.71

ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना। यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम्॥

2.1.72

वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः। तमर्दितमिति ग्राहुर्व्याधिं व्याधिविशारदाः॥

2.1.73

क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः। न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च॥

2.1.74

पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा यानिलार्दिताः। सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता॥

2.1.75

तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः। बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता॥

2.1.76

वातशोणितजः शोफो जानुमध्ये महारुजः। शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत्॥

2.1.77

वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा। स्वञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात्॥

2.1.78

प्रक्रामन् वेपते यस्तु स्वञ्जन्निव च गच्छति। कलायस्वञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥

2.1.79

न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः। वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः॥

2.1.80

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः। विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत्॥

2.1.81

हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत्। पादहर्षः स विज्ञेयः कफवातप्रकोपजः॥

2.1.82

अंसदेशस्थितो वायुः शोषयित्वांअसबन्धनम्। सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम्॥

2.1.83

यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति। शुद्धः श्लेष्मान्वितो वापि बाधिर्यं तेन जायते॥

2.1.84

हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः। कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते॥

2.1.85

आवृत्य सकफो वायुर्धमनीः शब्दवाहीनीः। नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान्॥

2.1.86

अधो या वेदनां याति वर्चोमूत्राशयोत्थिता। भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते॥

2.1.87

गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी। वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता॥

2.1.88

साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्। आध्मानमिति जानीयाद्घोरं वातनिरोधजम्॥

2.1.89

विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्। प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम्॥

2.1.90

अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम्। वाताष्ठीलां विजानीयाद्बहिर्मार्गवरोधिनीम्॥

2.1.91

एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्। प्रत्यष्ठीलामिति वदेज्जाठरे तिर्यगुत्थिताम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc