भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.46

1.46.1

अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥

1.46.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.46.3

धन्वन्तरिमभिवाद्य सुश्रुत उवाच प्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयिणः द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च तथा ह्याहारवैषम्यादस्वास्थ्यं तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्रव्यरसगुणवीर्यविपाकप्रभावकर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवान् इत्युक्तः प्रोवाच भगवान् धन्वन्तरिः अथ खलु वत्स सुश्रुत यथाप्रश्नमुच्यमानमुपधारयस्व ॥

1.46.4

तत्र लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः शालयः ॥

1.46.5

मधुरा वीर्यतः शीता लघुपाका बलावहाः ।

1.46.5

पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ॥

1.46.6

तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः ।

1.46.6

चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ॥

1.46.7

व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः ।

1.46.7

तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ॥

1.46.8

षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ॥

1.46.9

रसे पाके च मधुराः शमना वातपित्तयोः ।

1.46.9

शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ॥

1.46.10

षद्ष्तिकः प्रवर्स्तेषां कषायानुरसो लघुः ।

1.46.10

मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्वलवर्धनः ॥

1.46.11

विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः ।

1.46.11

शेषास्त्वल्पान्तरगुणाः षष्टिकाः क्रमशो गुणैः ॥

1.46.12

कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटाण्डकपारावतकपाटकप्रभृतयो व्रीहयः ॥

1.46.13

कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः ।

1.46.13

अल्पाभिष्यन्दिनस्तुल्याः षष्टिकरिबद्धवर्चसः ॥

1.46.14

कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः ।

1.46.14

तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ॥

1.46.15

दग्धायामवनौ जाताः शालयो लघुपाकिनः ।

1.46.15

कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ॥

1.46.16

स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः ।

1.46.16

किंचित्सतिक्तमधुराः पवनानलवर्धनाः ॥

1.46.17

कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः ।

1.46.17

ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ॥

1.46.18

रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।

1.46.18

अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥

1.46.19

शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः ।

1.46.19

तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ॥

1.46.20

विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः ।

1.46.20

तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ॥

1.46.21

अथ कुधान्यवर्गः । कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः ॥

1.46.22

उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः ।

1.46.22

श्लेषमघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ॥

1.46.23

काषयमधुरस्तेषां शीतः पित्तापहः स्मृतः ।

1.46.23

कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ॥

1.46.24

कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः ।

1.46.24

यथोत्तरम् प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ॥

1.46.25

मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा ।

1.46.25

विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ॥

1.46.26

रूक्षा वेणुयवा ज्ञेया वीर्योष्णाः कटुपाकिनः ।

1.46.26

बद्धमूत्राः कफहराः कषाया वातकोपनाः ॥

1.46.27

मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ॥

1.46.28

कषायमधुराः शीताः कटुपाका मरुत्कराः ।

1.46.28

बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ॥

1.46.29

नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनः ।

1.46.29

प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ॥

1.46.30

विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः ।

1.46.30

मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥

1.46.31

आढकी कफपित्तघ्नी नातिवातप्रकोपणी ।

1.46.31

वातलाः शीतमधुराः सकषाया विरूक्षणाः ॥

1.46.32

कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ।

1.46.32

त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥

1.46.33

हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः ।

1.46.33

ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ॥

1.46.34

माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः ।

1.46.34

सन्तर्पणः स्त्नयकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ॥

1.46.35

कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता ।

1.46.35

स्वादुर्विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥

1.46.36

माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव ।

1.46.36

आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ॥

1.46.37

उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः ।

1.46.37

शुक्राश्मरीगुल्मनिषूदनश्च सांग्राहिकः पीनसकासहारी ॥

1.46.38

आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च ।

1.46.38

कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ॥

1.46.39

ईषत्कषायो मधुरः सतिक्तः सांग्राहिकः पित्तरकरस्तथोष्णः ।

1.46.39

तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन एव पथ्यः ॥

1.46.40

दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च ।

1.46.40

तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये ॥

1.46.41

यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी ।

1.46.41

व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ॥

1.46.42

स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च ।

1.46.42

मेदोमरुत्तृड्{ं.-}हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥

1.46.43

एभिर्गुणैर्हीनतरैस्तु किंचिद्विद्याद्यवेभ्योऽतियवानशेषैः ।

1.46.43

गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ॥

1.46.44

स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृत् श्लेष्मकरः सरश्च ।

1.46.44

रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ॥

1.46.45

कटुर्विपाके मधुरस्तु शिम्बः प्रबन्धविण्मारुतपित्तलश्च ।

1.46.45

सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ॥

1.46.46

यथोदितास्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च ।

1.46.46

सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ॥

1.46.47

ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च ।

1.46.47

विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ॥

1.46.48

रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः ।

1.46.48

कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्बः ॥

1.46.49

उष्णातसी स्वादुरसानिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके ।

1.46.49

पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ।

1.46.49

तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि ॥

1.46.50

अनार्तवं व्याधिहतमपर्यागतमेव च ।

1.46.50

अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ॥

1.46.51

नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ।

1.46.51

विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥

1.46.52

शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः ।

1.46.52

कालप्रमाणसंस्कारमात्राः संपरिकीर्तिताः ॥

1.46.53

अथोर्ध्वं मांसवर्गानुपदेक्ष्यामः ॥

1.46.53

तद्यथा जलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गाः । एतेषां वर्गाणामुत्तरोत्तरं प्रधानतमाः । ते पुनर्द्विविधाजाङ्गला आनूपाश्चेति । तत्र जाङ्गलवर्गोऽष्टविधः । तद्यथा जङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पर्णमृगा बिलेशया ग्राम्याश्चेति । तेषं जङ्घालविष्किरौ प्रधानतमौ ॥

1.46.54

तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ॥

1.46.55

कषायो मधुरो हृद्यः पित्तासृक्कफरोगहा ।

1.46.55

संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ॥

1.46.56

मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः ।

1.46.56

शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ॥

1.46.57

एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते ।

1.46.57

यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ॥

1.46.58

शीतासृक्पित्तशमनी विज्ञेया मृगमातृका ।

1.46.58

सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ॥

1.46.59

लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्याहला विष्किराः ॥

1.46.60

लघवः शीतमधुराः कषाया दोषनाशनाः ।

1.46.60

संग्राही दीपनश्चैव कषायमधुरो लघुः ।

1.46.60

लावः कटुविपाकश्च सन्निपाते च पूजितः ॥

1.46.61

ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः ।

1.46.61

तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ॥

1.46.62

रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः ।

1.46.62

कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ॥

1.46.63

हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः ।

1.46.63

वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ॥

1.46.64

लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः ।

1.46.64

कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ॥

1.46.65

मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्दिर्यदार्ढ्यकृत् ।

1.46.65

स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ॥

1.46.66

बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः ।

1.46.66

वातरोगक्षयवमीविषमज्वरनाशनः ॥

1.46.67

कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डिमाणवकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ॥

1.46.68

कषायमधुरा रूक्षाः फलाहारा मरुत्कराः ।

1.46.68

पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ॥

1.46.69

सर्वदोषकरस्तेषां भेदाशी मलदूषकः ।

1.46.69

कषायस्वादुलवणो गुरुः काणकपोतकः ॥

1.46.70

रक्तपित्तप्रशमनः कषायविशदोऽपि च ।

1.46.70

विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ॥

1.46.71

कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः ।

1.46.71

रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥

1.46.72

सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ॥

1.46.73

मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः ।

1.46.73

उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ॥

1.46.74

काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ॥

1.46.75

एते सिंहादिभिः सर्वे समाना वायसादयः ।

1.46.75

रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ॥

1.46.76

मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ॥

1.46.77

मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः ।

1.46.77

सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ॥

1.46.78

श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो विलेशयाः ॥

1.46.79

वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः ।

1.46.79

वातं हन्युः श्लेष्मपित्ते च कुर्युः स्न्गिधाः कासश्वासकार्श्यापहाश्च ॥

1.46.80

कषायमधुरस्तेषां शशः पित्तकफापहः ।

1.46.80

नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ॥

1.46.81

गोधा विपाके मधुरा कषायकटुका स्मृता ।

1.46.81

वातपित्तप्रशमनी बृंहणी बलवर्धनी ॥

1.46.82

शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः ।

1.46.82

प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः ॥

1.46.83

दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः ।

1.46.83

चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ॥

1.46.84

दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः ।

1.46.84

मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ॥

1.46.85

अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः ॥

1.46.86

ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः ।

1.46.86

मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ॥

1.46.87

नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः ।

1.46.87

छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥

1.46.88

बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु ।

1.46.88

मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥

1.46.89

श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।

1.46.89

श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥

1.46.90

औरभ्रवत्सलवणं मांसमेकशफोद्भवम् ।

1.46.90

अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ॥

1.46.91

दूरे जनान्तनिलया दूरे पानीयगोचराः ।

1.46.91

ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ॥

1.46.92

अतीवासन्ननिलयाः समीपोदकगोचराः ।

1.46.92

ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ॥

1.46.93

आनूपवर्गस्तु पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्याश्चेति ॥

1.46.94

तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखङ्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ॥

1.46.95

वातपित्तहरा वृष्या मधुरा रसपाकयोः ।

1.46.95

शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः ॥

1.46.96

विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः ।

1.46.96

स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ॥

1.46.97

गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् ।

1.46.97

विपाके मधुरं चापि वयवायस्य तु वर्धनम् ॥

1.46.98

स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः ।

1.46.98

निद्रापुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ॥

1.46.99

रुरोर्मांसं समधुरं कषायानुरसं स्मृतम् ।

1.46.99

वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ॥

1.46.100

तथा चमरमांसं तु स्निग्धं मधुरकासजित् ।

1.46.100

विपाके मधुरं चापि वातपित्तप्रणाशनम् ॥

1.46.101

सृमरस्य तु मांसं च कषायानुरसं स्मृतम् ।

1.46.101

वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ॥

1.46.102

स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु ।

1.46.102

श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् ॥

1.46.103

कफघ्नम् खङ्गिपिशितं कषायमनिलापहम् ।

1.46.103

पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥

1.46.104

गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम् ।

1.46.104

विपाके मधुरं चापि रक्तपित्तविनाशनम् ॥

1.46.105

हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः संघातचारिणः ॥

1.46.106

रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः ।

1.46.106

सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥

1.46.107

गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः ।

1.46.107

बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् ॥

1.46.108

शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः ॥

1.46.109

कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ॥

1.46.110

शङ्ककूर्मादयः स्वादुरसपाका मरुन्नुदः ।

1.46.110

शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ॥

1.46.111

कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः ।

1.46.111

शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ॥

1.46.112

मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च ॥

1.46.113

तत्र नादेयाः रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयो नादेयाः ॥

1.46.114

नादेया मधुरा मत्स्या गुरवो मारुतापहाः ।

1.46.114

रक्त्रपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ॥

1.46.115

कषायानुरसस्तेषां शष्पशैवालभोजनः ।

1.46.115

रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ॥

1.46.116

पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः ।

1.46.116

दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ ।

1.46.116

मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ॥

1.46.117

सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः ।

1.46.117

महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ॥

1.46.118

तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलरुनन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः ॥

1.46.119

सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः ।

1.46.119

उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ॥

1.46.120

बलावहा विशेषेण मांसाशित्वात् समुद्रजाः ।

1.46.120

समुद्रजेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः ॥

1.46.121

तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तराः ।

1.46.121

स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्या गुणाधिकाः ॥

1.46.122

नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः ।

1.46.122

सरस्तडागजानां तु विशेषेण शिरो लघु ॥

1.46.123

अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः ।

1.46.123

किंचिन्मुक्त्वा शिरोदेशमत्यर्थं गुरुवस्तु ते ॥

1.46.124

अधस्ताद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ।

1.46.124

उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् ॥

1.46.125

इत्यानूपो महाभिष्यन्दिमांसवर्गो व्याख्यातः ॥

1.46.126

तत्र शुष्कपूतिव्याधितविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्नापहतपरिणताल्पासंपूर्णवीर्यत्वाद्दोषकराणि भवन्ति एभ्योऽन्येषामुपादेयं मांसमिति ॥

1.46.127

अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् ।

1.46.127

विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् ॥

1.46.128

कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम् ।

1.46.128

क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ॥

1.46.129

स्त्रियश्चतुष्पात्सु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाशरीराः प्रधानतमाः एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः ॥

1.46.130

स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः । तद्यथा रक्तादिषु शुक्रान्तेषु धतुषूत्तरोत्तरा गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ॥

1.46.131

शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः ।

1.46.131

गुरुपूर्वं विजानीयाद्धातवस्तु यथोत्तरम् ॥

1.46.132

सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः ।

1.46.132

पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् ॥

1.46.133

उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् ।

1.46.133

पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् ॥

1.46.134

अतीव रूक्षं ंआंसं तु विहङ्गानां फलाशिनाम् ।

1.46.134

बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् ॥

1.46.135

मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिणाम् ।

1.46.135

जलजानूपजा ग्राम्या क्रव्यादैकशफास्तथा ॥

1.46.136

प्रसहा बिलवासाश्च ये च जङ्घालसंज्ञिताः ।

1.46.136

प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् ।

1.46.136

अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा ॥

1.46.137

प्रमाणाधिकास्तु स्वजातौ चाल्पसारा गुरवश्च । सर्वप्राणिनां सर्वशरीरेषु ये प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीत प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति ॥

1.46.138

भवति चात्र ।

1.46.138

चरः शरीरावयवाः स्वभावो धातवः क्रियाः ।

1.46.138

लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ॥

1.46.139

तद्यथा दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्गजम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतीन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि ॥

1.46.140

अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः ।

1.46.140

पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च ॥

1.46.141

कषायानुरसं तेषां दाडिमं नातिपित्तलम् ।

1.46.141

दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् ॥

1.46.142

द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च ।

1.46.142

त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् ॥

1.46.143

अम्लं समधुरं तिक्तं कषायं कटुकं सरम् ।

1.46.143

चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् ॥

1.46.144

हन्ति वातं तदम्लत्वाद्पित्तं माधुर्यशैत्यतः ।

1.46.144

कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् ॥

1.46.145

कर्कन्धुकोलबदरमामं पित्तकफावहम् ।

1.46.145

पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ॥

1.46.146

पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु ।

1.46.146

सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ॥

1.46.147

कषायं स्वादु संग्राहि शीतं शिञ्चितिकाफलम् ।

1.46.147

आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् ॥

1.46.148

कफानिलहरं पक्वं मधुराम्लरसं गुरु ।

1.46.148

श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥

1.46.149

लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम् ।

1.46.149

त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा ॥

1.46.150

स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित् ।

1.46.150

मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥

1.46.151

दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम् ।

1.46.151

शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते ॥

1.46.152

अरुचौ च विशेषेण रसस्तस्योपदिश्यते ।

1.46.152

पित्तानिलकरं बालं पित्तलं बद्धकेसरम् ॥

1.46.153

हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् ।

1.46.153

कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु ॥

1.46.154

पित्ताविरोधि संपक्वमाम्रं शुक्रविवर्धनम् ।

1.46.154

बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति ॥

1.46.155

आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम् ।

1.46.155

त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् ॥

1.46.156

अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम् ।

1.46.156

वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् ॥

1.46.157

हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् ।

1.46.157

पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ॥

1.46.158

पारावतं समधुरं रुच्यमत्यग्निवातनुत् ।

1.46.158

गरदोषहरं नीपं प्राचीनामलकं तथा ॥

1.46.159

वातापहं तिन्तिडीकमामं पित्तबलासकृत् ।

1.46.159

ग्राह्युष्णं दीपनं रुच्यं संपक्वं कफवातनुत् ॥

1.46.160

तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते ।

1.46.160

अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् ॥

1.46.161

अम्लं समधुरं हृद्यं विशदं भक्तरोचनम् ।

1.46.161

वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ॥

1.46.162

तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् ।

1.46.162

वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत् ।

1.46.162

ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥

1.46.163

क्षीरवृक्षाफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ॥

1.46.164

फलान्येतानि शीतानि कफपित्तहराणि च ।

1.46.164

संग्राहकाणि रूक्षाणि कषायमधुरानि च ॥

1.46.165

क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम् ।

1.46.165

कषायं मधुरं साम्लं नातिमारुतकोपनम् ॥

1.46.166

अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् ।

1.46.166

स्निग्धं स्वादु कषायं च राजादनफलं गुरु ॥

1.46.167

कषायं मधुरं रूक्षं तोदनं कफवातजित् ।

1.46.167

अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्धनम् ॥

1.46.168

आमं कषायं संग्राहि तिन्दुकं वातकोपनम् ।

1.46.168

विपाके गुरु संपक्वं मधुरं कफपित्तजित् ॥

1.46.169

मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम् ।

1.46.169

स्थिरीकरं च दन्तानां विशदं फलमुच्यते ॥

1.46.170

सकषायं हिमं स्वादु धान्वनं कफवातजित् ।

1.46.170

तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च ॥

1.46.171

विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु ।

1.46.171

अत्यम्लमीषन्मधुरं कषायानुरसं लघु ॥

1.46.172

वातघ्नं पित्तजननमामं विद्यात् परूषकम् ।

1.46.172

तदेव पक्वं मधुरं वातपित्तनिबर्हणम् ॥

1.46.173

विपाके मधुरं शीतं रक्तपित्तप्रसादनम् ।

1.46.173

पौष्करं स्वादु विष्टम्भि बल्यं कफकरं गुरु ॥

1.46.174

कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् ।

1.46.174

कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् ॥

1.46.175

विद्यात्तदेव संपक्वं मधुरानुरसं गुरु ।

1.46.175

विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥

1.46.176

बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् ।

1.46.176

तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ॥

1.46.177

तालनारिकेलपनसमौचप्रभृतीनि ॥

1.46.178

स्वादुपाकरसान्याहुर्वातपित्तहराणि च ।

1.46.178

बलप्रदानि स्निग्धानि बृंहणानि हिमानि च ॥

1.46.179

फलं स्वादुरसं तेषां तालजं गुरु पित्तजित् ।

1.46.179

तद्बीजं स्वादुपाकं च मूत्रलं वातपित्तजित् ॥

1.46.180

नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् ।

1.46.180

बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् ॥

1.46.181

पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु ।

1.46.181

मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् ।

1.46.181

रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ॥

1.46.182

द्राक्षाकाश्मर्यखर्जूरमधूकपुष्पप्रभृतीनि ॥

1.46.183

रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च ।

1.46.183

तेषां द्राक्षा सरा स्वर्या मधुरा स्निग्धशीतला ॥

1.46.184

रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ।

1.46.184

हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् ॥

1.46.185

केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते ।

1.46.185

क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥

1.46.186

रसे पाके च मुधुरं स्वार्जूरं रक्तपित्तजित् ।

1.46.186

बृंहणीयमहृद्यं च मधूककुसुमं गुरु ।

1.46.186

वातपित्तोपशमनं फलं तस्योपदिश्यते ॥

1.46.187

वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि ॥

1.46.188

पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च ।

1.46.188

बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च ॥

1.46.189

कषायं कफपित्तघ्नं किंचित्तिक्तं रुचिप्रदम् ।

1.46.189

हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ॥

1.46.190

वसिरं शीतपाक्यं च सारुष्करनिबन्धनम् ।

1.46.190

विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ॥

1.46.191

विपाके मधुरं चापि रक्तपित्तप्रसादनम् । (

1.46.191

ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥)

1.46.192

शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु ।

1.46.192

स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् ॥

1.46.193

शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् ।

1.46.193

गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् ॥

1.46.194

करीराक्षिकपीलूनि तृणशून्यफलानि च ।

1.46.194

स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥

1.46.195

तिक्तं पित्तकरं तेषां सरं कटुविपाकि च ।

1.46.195

तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ॥

1.46.196

आरुष्करं तौवरकं कषायं कटुपाकि तथैव च ।

1.46.196

उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम् ।

1.46.196

कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ॥ (

1.46.197

अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् ।)

1.46.197

करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् ॥

1.46.198

रूक्षोष्णं कटुकं पाके लघु वातकफापहम् ।

1.46.198

तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ॥

1.46.199

व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् ।

1.46.199

कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ॥

1.46.200

भेदनं लघु रूक्षोष्णं वैस्वर्यं क्रिमिनाशनम् ।

1.46.200

चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ॥

1.46.201

कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् ।

1.46.201

कषायमीषन्मधुरं किंचित् पूगफलं सरम् ॥

1.46.202

जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् ।

1.46.202

कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् ॥

1.46.203

लघु तृष्नापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् ।

1.46.203

सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः ॥

1.46.204

तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः ।

1.46.204

लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ॥

1.46.205

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः ।

1.46.205

बैभीतको मदकरः कफमारुतनाशनः ॥

1.46.206

कषायमधुरो मज्जा कोलानां पित्तनाशनः ।

1.46.206

तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ॥

1.46.207

बीजपूरकशम्याकमज्जा कोशाम्रसंभवः ।

1.46.207

स्वादुपाकोऽग्निबलकृत् स्निग्धः पित्तानिलापहः ॥

1.46.208

यस्य यस्य फलस्येह वीर्यं भवति यादृशम् ।

1.46.208

तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥

1.46.209

फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् ।

1.46.209

बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् ।

1.46.209

ग्राह्युष्णं दीपनं तद्धि कषायं कटु तिक्तकम् ॥

1.46.210

व्याधितं कृमिजुष्टं च पाकातीतमकालजम् ।

1.46.210

वर्जनीयं फलं सर्वमपर्यागतमेव च ॥

1.46.211

शाकान्यत ऊर्ध्वं वक्ष्यामः । तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि ॥

1.46.212

पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च ।

1.46.212

सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ॥

1.46.213

पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् ।

1.46.213

शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ॥

1.46.214

सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् ।

1.46.214

दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ॥

1.46.215

अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला ।

1.46.215

तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् ॥

1.46.216

त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ॥

1.46.217

स्वादुतित्करसान्याहुः कफवातकराणि च ।

1.46.217

सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ॥

1.46.218

बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम् ।

1.46.218

तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् ॥

1.46.219

एर्वारुकं सकर्कारु संपक्वं कफवातकृत् ।

1.46.219

सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥

1.46.220

सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् ।

1.46.220

भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥

1.46.221

पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धककासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्ज्ञकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिकावर्षाभूचित्रकमूलकलशुनपलाण्डुकलायप्रभृतीनि ॥

1.46.222

कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च ।

1.46.222

कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ॥

1.46.223

तेषां गुर्वी स्वादुशीता पिप्पलयार्द्रा कफावहा ।

1.46.223

शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी ॥

1.46.224

स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च ।

1.46.224

कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ॥

1.46.225

नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम् ।

1.46.225

गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ॥

1.46.226

नागरं कफवातघ्नं विपाके मधुरं कटु ।

1.46.226

वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥

1.46.227

कफानिलहरं स्वर्यं विबन्धानाहशूलनुत् ।

1.46.227

कटूष्णं रोचनम् हृद्यं वृष्यं चैवार्द्रकं स्मृतम् ॥

1.46.228

लघूष्णं पाचनम् हिङ्गु दीपनं कफवातजित् ।

1.46.228

कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् ॥

1.46.229

तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम् ।

1.46.229

कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ॥

1.46.230

कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका ।

1.46.230

भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता ॥

1.46.231

आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् ।

1.46.231

सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी ॥

1.46.232

दोषघ्नी कटुका किंचित् तिक्ता स्रोतोविशोधनी ।

1.46.232

जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ॥

1.46.233

सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः ।

1.46.233

कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ॥

1.46.234

पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः ।

1.46.234

तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः ॥

1.46.235

कफघ्ना लघवो रूक्षास्तिक्ष्णोष्णाः पित्तवर्धनाः ।

1.46.235

कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः ॥

1.46.236

मधुरः कफवातघ्नः पाचनः कण्ठशोधनः ।

1.46.236

विशेषतः पित्तहरः सतिक्तः कासमर्दकः ॥

1.46.237

कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः ।

1.46.237

मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ॥

1.46.238

विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च ।

1.46.238

त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च ॥

1.46.239

चित्रकस्तिलपर्णी च कफशोफहरे लघू ।

1.46.239

वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ॥

1.46.240

कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी ।

1.46.240

सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ॥

1.46.241

महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् ।

1.46.241

तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ॥

1.46.242

त्रिदोषशमनं शुष्कं विषदोषहरं लघु ।

1.46.242

विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ॥

1.46.243

पुष्पं च पत्रं च फलं तथैव यथोत्तरम् ते गुरवः प्रदिष्टाः ।

1.46.243

तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च ॥

1.46.244

स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः ।

1.46.244

वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ॥

1.46.245

हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् ।

1.46.245

दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥

1.46.246

नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च ।

1.46.246

बलावहः पित्तकरोऽथ किंचित् पलाण्डुरग्निं च विवर्धयेत्तु ॥

1.46.247

स्निग्धो रुचिष्यः स्थिरधातुकर्ता बल्योऽथ मेधाकफपुष्टिदश्च ।

1.46.247

स्वादुर्गुरुः शोणितपित्तशस्तः स पिच्छिलः क्षीरपलाण्डुरुक्तः ॥

1.46.248

कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु ।

1.46.248

कषायानुरसं चैव विपाके मधुरं च तत् ॥

1.46.249

चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(आ.न्दी)भल्लातकच्छगलान्त्रीवृक्षादनीफञ्जीशाल्मलीशलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि ॥

1.46.250

कषायस्वादुतिक्तानि रक्तपित्तहराणि च ।

1.46.250

कफघ्नान्यनिलं कुर्युः संग्राहीणि लघूनि च ॥

1.46.251

लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः ।

1.46.251

कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा ॥

1.46.252

चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता ।

1.46.252

वृक्षादनी वातहरा फञ्जी त्वल्पबला मता ॥

1.46.253

क्षीरवृक्षोत्पलादीअनां कषायाः पल्लवाः स्मृताः ।

1.46.253

शीताः संग्राहिणः शस्ता रक्तपित्तातिसारिणाम् ॥

1.46.254

पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि ॥

1.46.255

उष्णानि स्वादुतिक्तानि वातप्रशमनानि च ।

1.46.255

तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् ॥

1.46.256

तण्डुलीयकोपोदिकाश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि ॥

1.46.257

सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च ।

1.46.257

मन्दवातकफान्याहू रक्तपित्तहराणि च ॥

1.46.258

मधुरो रसपाकाभ्यां रक्तपित्तमदापहः ।

1.46.258

तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः ॥

1.46.259

स्वादुपाकरसा वृष्या वातपित्तमदापहा ।

1.46.259

उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा ॥

1.46.260

कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः ।

1.46.260

सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः ॥

1.46.261

चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत् ।

1.46.261

वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता ।

1.46.261

शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् ॥

1.46.262

मण्डूकपर्णीसप्तलासुनिषण्णकसुर्वचलापिप्पलीगुडूचीगोजिह्वाकाकमाचीप्रपुन्नाडावल्गुजसतीनबृहतीकण्टकारिकाफलपटोलवार्ताकुकारवेल्लककटुकिकाकेवुकोरुबूकपर्पटककिराततिक्तकर्कोटकारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृतीनि ॥

1.46.263

रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च ।

1.46.263

कुष्ठमेहज्वरश्वासकासारुचिहराणि च ॥

1.46.264

कषाया तु हिता पित्ते स्वादुपाकरसा हिमा ।

1.46.264

लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ॥

1.46.265

अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः ।

1.46.265

अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः ॥

1.46.266

ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम् ।

1.46.266

नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् ॥

1.46.267

कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च ।

1.46.267

फलानि बृहतीनां तु कटुतिक्तलघूनि च ॥

1.46.268

कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् ।

1.46.268

पटोलं कटुकं पाके वृष्यं रोचनदीपनम् ॥

1.46.269

कफवातहरं तिक्तं रोचनं कटुकं लघु ।

1.46.269

वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम् ।

1.46.269

तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च ॥

1.46.270

अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः ।

1.46.270

किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥

1.46.271

कफापहं शाकमुक्तं वरुणप्रपुनाडयोः ।

1.46.271

रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् ॥

1.46.272

दीपनं कालशाकं तु गरदोषहरं कटु ।

1.46.272

कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु ॥

1.46.273

वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत् ।

1.46.273

ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता ।

1.46.273

उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी ॥

1.46.274

लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः ॥

1.46.275

स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः ।

1.46.275

लवणानुरसा रूक्षाः सक्षारा वातलाः सराः ॥

1.46.276

स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका ।

1.46.276

संग्राहि शीतलं चापि लघु दोषापहं तथा ।

1.46.276

राजक्षवकशाकं तु शटीशाकं च तद्विधम् ॥

1.46.277

स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम् ।

1.46.277

भेदनं मधुरं रूक्षं कालायमतिवातलम् ॥

1.46.278

स्रंसनं कटुकं पाके लघु वातकफापहम् ।

1.46.278

शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् ॥

1.46.279

ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम् ।

1.46.279

सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् ॥

1.46.280

स्रंसनं कटुकं पाके कषायं वह्निदीपनम् ।

1.46.280

वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् ॥

1.46.281

अथ पुष्पवर्गः ।

1.46.281

कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च ॥

1.46.282

आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते ॥

1.46.283

करीरमधुशिग्रुकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च ॥

1.46.284

रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च ।

1.46.284

कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥

1.46.285

सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम् ।

1.46.285

मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम् ।

1.46.285

तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले ॥

1.46.286

सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम् ।

1.46.286

मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ॥

1.46.287

सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च ।

1.46.287

श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् ॥

1.46.288

चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् ।

1.46.288

किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ॥

1.46.289

यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा ।

1.46.289

मधुशिग्रुकरीराणि कटुश्लेष्महराणि च ॥

1.46.290

क्षवककुलेव(आ.च)रवंशकरीरप्रभृतीनि कफहराणि सृष्टमूत्रपुरिषाणि च ॥

1.46.291

क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम् ।

1.46.291

विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् ॥

1.46.292

वेणोः करीराः कफला मधुरा रसपाकतः ।

1.46.292

विदाहिनो वातकराः सकषाया विरूक्षणाः ॥

1.46.293

उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि । तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च इक्षुजं मधुरं कषायानुरसं कटुकं शीतलं च तद्वदेवोष्णं कारीषं कषायं वातकोपनं च वेणुजातं कषायं वातकोपनं च भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः ॥

1.46.294

पिण्याकतिलकल्कस्थूणिकाशुष्कशाकाणि सर्वदोषप्रकोपणानि ॥

1.46.295

विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः ।

1.46.295

सिण्डाकी वातला सार्द्रा रुचिष्यानलदीपनी ॥

1.46.296

विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम् ।

1.46.296

सकषायं च सर्वं हि स्वादु शाकमुदाहृतम् ।

1.46.296

पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् ॥

1.46.297

कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम् ।

1.46.297

वर्जयेत् पत्रशाकं तद्यदकालविरोहि च ॥

1.46.298

कन्दानत ऊर्ध्वं वक्ष्यामः विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ॥

1.46.299

रक्तपित्तहराण्याहुः शीतानि मधुराणि च ।

1.46.299

गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च ॥

1.46.300

मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः ।

1.46.300

विदारीकन्दो बल्यस्तु पित्तवातहरश्च सः ॥

1.46.301

वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी ।

1.46.301

महती चैव हृद्या च मेधाग्निबलवर्धिनी ॥

1.46.302

ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी ।

1.46.302

कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥

1.46.303

अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम् ।

1.46.303

विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ॥

1.46.304

गुरू विष्टम्भिशीतौ च शृङ्गाट्ककशेरुकौ ।

1.46.304

पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ॥

1.46.305

सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत् ।

1.46.305

वेणोः करीरा गुरवः कफमारुतकोपनाः ॥

1.46.306

स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ॥

1.46.307

मानकं स्वादु शीतं च गुरु चापि प्रकीर्तितम् ।

1.46.307

स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ॥

1.46.308

कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः ।

1.46.308

कषायाः पित्तशमना विपाके मधुरा हिमाः ॥

1.46.309

वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः ।

1.46.309

मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ॥

1.46.310

तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ॥

1.46.311

स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा ।

1.46.311

शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ॥

1.46.312

बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम् ।

1.46.312

कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ॥

1.46.313

(आ.अथ लवणानि) सैन्धवसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनि लवणानि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ॥

1.46.314

चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् ।

1.46.314

स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥

1.46.315

सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।

1.46.315

भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥

1.46.316

सक्षारं दीपनं सूक्ष्मं शूलहृद्रोगनाशनम् ।

1.46.316

रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ॥

1.46.317

लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु ।

1.46.317

गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥

1.46.318

रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च ।

1.46.318

वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥

1.46.319

लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् ।

1.46.319

सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥

1.46.320

कफवातक्रिमिहरं लेखनं पित्तकोपनम् ।

1.46.320

दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥

1.46.321

ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम् ।

1.46.321

लवणं कटुकं छेदि विहितं कटु चोच्यते ॥

1.46.322

यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः ।

1.46.322

गुल्मार्शोग्रहणीदोषप्रतिश्यायविनाशनाः ।

1.46.322

क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ॥

1.46.323

ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ ।

1.46.323

शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ॥

1.46.324

उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः ।

1.46.324

मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ॥

1.46.325

विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः ।

1.46.325

अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥

1.46.326

सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम् ।

1.46.326

दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ॥

1.46.327

रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत् ।

1.46.327

ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ॥

1.46.328

सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित् ।

1.46.328

वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ॥

1.46.329

कटु क्रिमिघ्नं लवणं त्रपुसीसं विलेखनम् ।

1.46.329

मुक्ताविद्रुमवज्रेन्द्रवैदूरयस्फटिकादयः ॥

1.46.330

चक्षुष्या मणयः शीता लेखना विषसूदनाः ।

1.46.330

पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ॥

1.46.331

धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् ।

1.46.331

आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्दृव्यमनल्पबुद्धिः ॥

1.46.332

षष्टिका यवगोधूमा लोहिता ये च शालयः ।

1.46.332

मुद्गाढकीमसूराश्च धन्येषु प्रवराः स्मृताः ॥

1.46.333

लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः ।

1.46.333

मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥

1.46.334

दाढिमामलकं द्राक्षा खर्जूरं सपरूषकम् ।

1.46.334

राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥

1.46.335

सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः ।

1.46.335

मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥

1.46.336

गव्यं क्षीरं घृतं श्रेष्ठं सैन्धवं लवणेषु च ।

1.46.336

धात्रीदाडिममम्लेषु पिप्पली नागरं कटौ ॥

1.46.337

तित्के पटोलवार्ताके मधुरे घृतमुच्यते ।

1.46.337

क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ॥

1.46.338

शर्करेक्षुविकारेषु पाने मध्वासवौ तथा ।

1.46.338

परिसंवत्सरं धान्यं मांसं वयसि मध्यमे ॥

1.46.339

अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् ।

1.46.339

फलं पर्यागतं शाकमशुष्कं तरुणं नवम् ॥

1.46.340

अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् ॥

1.46.341

लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।

1.46.341

वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥

1.46.342

स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ।

1.46.342

क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ॥

1.46.343

विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ।

1.46.343

पथ्या स्वादुरसा लघ्वी दीपनी क्षुत्तृषापहा ॥

1.46.344

हृद्या सन्तर्पणी वृष्या बृंहणी बलवर्धनी ।

1.46.344

शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा ॥

1.46.345

सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ।

1.46.345

विलेपी बहुसिक्था स्याद्यवागूर्विरलद्रवा ॥

1.46.346

विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ।

1.46.346

कफपित्तकरी बल्या कृशरानिलनाशनी ॥

1.46.347

धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ।

1.46.347

स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः ॥

1.46.348

अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ।

1.46.348

लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः ॥

1.46.349

स्नेहैर्मांसैः फलैः कन्दैर्वैदलाम्लैश्च संयुताः ।

1.46.349

गुरुवो बृंहणा बल्या ये च क्षीरोपसाधिताः ॥

1.46.350

सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघुर्हितः ।

1.46.350

स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् ॥

1.46.351

अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ।

1.46.351

मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम् ॥

1.46.352

स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ।

1.46.352

सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु ॥

1.46.353

तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् ।

1.46.353

विद्यात्पित्तकफोद्रेकि बलमांसाग्निवर्धनम् ॥

1.46.354

परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।

1.46.354

रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम् ॥

1.46.355

तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ।

1.46.355

परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु ॥

1.46.356

तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ।

1.46.356

ज्ञेयं गुरुतरं किंचित् प्रदिग्धं गुरुपाकतः ॥

1.46.357

उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ।

1.46.357

परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम् ॥

1.46.358

मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ।

1.46.358

लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् ॥

1.46.359

अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ।

1.46.359

प्रीणनः प्राणजननः श्वासकासक्षयापहः ॥

1.46.360

वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ।

1.46.360

स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् ॥

1.46.361

भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ।

1.46.361

आप्यायनः संहननः शुक्रदो बलवर्धनः ॥

1.46.362

स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ।

1.46.362

प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् ॥

1.46.363

क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ।

1.46.363

यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम् ॥

1.46.364

विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ।

1.46.364

दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः ॥

1.46.365

मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ।

1.46.365

पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥

1.46.366

ऐकध्यं पाचयेत्सम्यग्वेसवार इति स्मृतः ।

1.46.366

वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः ॥

1.46.367

कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ।

1.46.367

ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः ॥

1.46.368

स तु दाडिममृद्वीकायुक्तः स्याद्रागखाडवः ।

1.46.368

रिचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत् ॥

1.46.369

मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ।

1.46.369

कफपित्ताविरोधी स्याद्वातव्यादौ च शस्यते ॥

1.46.370

मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ।

1.46.370

रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥

1.46.371

पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।

1.46.371

पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ ॥

1.46.372

श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ।

1.46.372

हन्ति मूलकयूषस्तु कफमेदोगलामयान् ।

1.46.372

कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ॥

1.46.373

तूणीप्रतूणीकासार्शोगुल्मोदावर्तनाशनः ।

1.46.373

दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ॥

1.46.374

प्राणाग्निजननो मूर्च्छामेदोघ्नः पित्तवातजित् ।

1.46.374

मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ॥

1.46.375

यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ।

1.46.375

सर्वधान्यकृतस्तद्वद्बृंहणः प्राणवर्धनः ॥

1.46.376

खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ ।

1.46.376

बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ॥

1.46.377

दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः ।

1.46.377

तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ॥

1.46.378

खडाः खडयवाग्वश्च षा(आ.खा)डवाः पानकानि च ।

1.46.378

एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ॥

1.46.379

अस्नेहलवणं सर्वमकृतं कटुकैर्विना ।

1.46.379

विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ॥

1.46.380

अथ गोरसधान्याम्लफलाम्लैरन्वितं च यत् ।

1.46.380

यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥

1.46.381

दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः ।

1.46.381

तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ॥

1.46.382

सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च ।

1.46.382

तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ॥

1.46.383

लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः ।

1.46.383

तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ॥

1.46.384

रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी ।

1.46.384

स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ॥

1.46.385

सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः ।

1.46.385

नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ॥

1.46.386

मन्थः सद्योबलकरः पिपासाश्रमनाशनः ।

1.46.386

साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ॥

1.46.387

शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् ।

1.46.387

द्राक्षामधूकसंयुक्तः कफरोगनिबर्हणः ॥

1.46.388

वर्गत्रयेणोपहितो मलदोषानुलोमनः ।

1.46.388

गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ॥

1.46.389

तदेव खण्डमृद्वीकाशर्करासहितं पुनः ।

1.46.389

साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ॥

1.46.390

मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् ।

1.46.390

परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ॥

1.46.391

द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः ।

1.46.391

पानकानां यथायोगं गुरुलाघवमादिशेत् ॥

1.46.392

वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः ॥

1.46.393

भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ।

1.46.393

अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥

1.46.394

तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ।

1.46.394

वातपित्तहरा वृष्या गुरवो रक्तमांसलाः ॥

1.46.395

बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ।

1.46.395

अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः ॥

1.46.396

मधुमस्तकसंयावाः पूपा ये ते विशेषतः ।

1.46.396

गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः ॥

1.46.397

रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ।

1.46.397

गुरुर्मृष्टतमश्चैव सट्टकः प्राणवर्धनः ॥

1.46.398

हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ।

1.46.398

वातापहस्तृप्तिकरो बल्यो विष्यन्दनः स्मृतः ॥

1.46.399

बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ।

1.46.399

हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥

1.46.400

मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ।

1.46.400

वेसवारैः सपिशितैः संपूर्णा गुरुबृंहणाः ॥

1.46.401

पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ।

1.46.401

वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः ॥

1.46.402

विदाहिनो नातिबला गुरवश्च विशेषतः ।

1.46.402

वैदला लघवो भक्ष्याः कषायाः सृष्तमारुताः ॥

1.46.403

विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ।

1.46.403

बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः ॥

1.46.404

कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ।

1.46.404

विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥

1.46.405

विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ।

1.46.405

हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः ॥

1.46.406

वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ।

1.46.406

विदाहिनस्तैलकृता गुरवः कटुपाकिनः ॥

1.46.407

उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ।

1.46.407

फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः ॥

1.46.408

भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ।

1.46.408

कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥

1.46.409

सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ।

1.46.409

सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः ॥

1.46.410

कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ।

1.46.410

उदावर्तहरो वाट्यः कासपीनसमेहनुत् ।

1.46.410

धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ॥

1.46.411

शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः ।

1.46.411

पीताः सद्योबलकरा भेदिनः पवनापहाः ॥

1.46.412

गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्ययात् ।

1.46.412

शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ॥

1.46.413

लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः ।

1.46.413

बल्याः कषायमधुरा लघवस्तृणमलापहाः ॥

1.46.414

तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः ।

1.46.414

रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ॥

1.46.415

पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः ।

1.46.415

बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥

1.46.416

संधानकृत्पिष्टमामं ताण्डुलं कृमिमेहनुत् ।

1.46.416

सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ।

1.46.416

सन्धानकृन्मेहहरः पुराणस्तन्डुलः स्मृतः ॥

1.46.417

द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु ।

1.46.417

यथाकारणमासाद्य भोक्त्ण्णां छन्दतोऽपि वा ।

1.46.417

अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ॥

1.46.418

अतः सर्वानुपानान्युपदेक्ष्यामः ।

1.46.418

अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति ।

1.46.418

तथाम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ॥

1.46.419

शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् ।

1.46.419

यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ॥

1.46.420

व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि ।

1.46.420

सर्वानुपानेषु वरं वदन्ति मेध्यं यदम्भः शुचिभाजनस्थम् ॥

1.46.421

लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः ।

1.46.421

सङ्क्षेप एषोऽभिहितोऽनुपानेष्वतः परं विस्तरतोऽभिधास्ये ॥

1.46.422

उष्णोदकानुपानं तु स्नेहानामथ शस्यते ।

1.46.422

ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥

1.46.423

अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ।

1.46.423

शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ॥

1.46.424

दधिपायसमद्यार्तिविषजुष्टे तथैव च ।

1.46.424

केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ॥

1.46.425

पयो मांसरसो वापि शालिमुद्गादिभोजिनाम् ।

1.46.425

युद्धाध्वातपसन्तापविषमद्यरुजासु च ॥

1.46.426

माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा ।

1.46.426

मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ॥

1.46.427

अमद्यपानामुदकं फलाम्लं वा प्रशस्यते ।

1.46.427

क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ॥

1.46.428

सुरा कृशानां स्थूलानामनुपानं मधूदकम् ।

1.46.428

निरामयानां चित्रं तु भु(आ.भ)क्तमध्ये प्रकीर्तितम् ॥

1.46.429

स्निग्धोष्णं मारुते पथ्यं कफे रूक्षोष्णमिष्यते ।

1.46.429

अनुपानं हितं चापि पित्ते मधुरशीतलम् ॥

1.46.430

हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा ।

1.46.430

अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ॥

1.46.431

अतः परं तु वर्गाणामनुपानं पृठक् पृथक् ।

1.46.431

प्रवक्ष्याम्यानुपूर्व्येण सर्वेषामेव मे शृणु ॥

1.46.432

तत्र पूर्वशस्यजातीनां बदराम्लं वैदलानां धान्याम्लं जङ्घालानां धन्वजानां च पिप्पल्यासवः विष्किराणां कोलबदरासवः प्रतुदानां क्षीरवृक्षासवः गुहाशयानां खर्जूरनालिकेरासवः प्रसहानामश्वगन्धासवः पर्णमृगाणां कृष्णगन्धासवः बिलेशयानां फलसारासवः एकशफानां त्रिफलासवः अनेकशफानां खदिरासवः कूलचराणां शृङ्गाटककशेरुकासवः कोशवासिनां पादिनां च स एव प्लवानामिक्षुरसासवः नादेयानां मत्स्यानां मृणालासवः सामुद्राणां तु मातुलुङ्गासवः अम्लानां फलानां पद्मोत्पलकन्दासवः कषायाणां दाडिमवेत्रासवः मधुराणां त्रिकटुकयुक्तः खण्डासवः तालफलादीनां धन्याम्लं कटुकानां दूर्वानलवेत्रासवः पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः कूष्माण्डादीनां दार्वीकरीरासवः चुच्चुप्रभृतीनां लोध्रासवः जीवन्त्यादीनां त्रिफलासवः कुसुम्भशाकस्य स एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः तालमस्तकादीनामम्लफलासवः सैन्धवादीनां सुरासव आरनालं च तोयं वा सर्वत्रेति ॥

1.46.433

भवन्ति चात्र ।

1.46.433

सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम् ।

1.46.433

सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ॥

1.46.434

उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् ।

1.46.434

दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ॥

1.46.435

यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति ।

1.46.435

रोचनम् बृंहणं वृष्यं दोषसंघातभेदनम् ॥

1.46.436

तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् ।

1.46.436

दीपनं दोषशमनं पिपासाच्छेदनं परम् ॥

1.46.437

बल्यं वर्णकरं सम्यगनुपानं सदोच्यते ।

1.46.437

तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ॥

1.46.438

पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् ।

1.46.438

स्थिरतां गतमक्लिन्नमन्नमद्रवपायिनाम् ॥

1.46.439

भवत्याबाधजननमनुपानमतः पिबेत् ।

1.46.439

न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ॥

1.46.440

क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ।

1.46.440

पीत्वाध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ॥

1.46.441

प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् ।

1.46.441

स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ॥

1.46.442

गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते ।

1.46.442

तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ॥

1.46.443

मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः ।

1.46.443

जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ॥

1.46.444

बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः ।

1.46.444

कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ॥

1.46.445

अथाहारविधिं वत्स विस्तरेणाखिलं शृणु ।

1.46.445

आप्तास्थि(आ.न्वि)तमसंकीर्णं शुचि कार्यं महानसम् ॥

1.46.446

तत्राप्तैर्गुणसंपन्नमन्नं भक्ष्यं सुसंस्कृतम् ।

1.46.446

शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ॥

1.46.447

विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः ।

1.46.447

सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ॥

1.46.448

वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् ।

1.46.448

घृतं कार्ष्णायसे देयं पेया देया तु राजते ॥

1.46.449

फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु च ।

1.46.449

परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥

1.46.450

प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।

1.46.450

कट्वराणि खडांश्चैव सर्वान् शैलेषु दापयेत् ॥

1.46.451

दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः ।

1.46.451

पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ॥

1.46.452

काचस्फटिकपात्रेषु शीतलेषु शुभेषु च ।

1.46.452

दद्याद्वैदूर्यचित्रेषु{ओ.पात्रेषु} रागषाडवसट्टकान् ॥

1.46.453

पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे ।

1.46.453

सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥

1.46.454

फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ।

1.46.454

तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥

1.46.455

प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।

1.46.455

खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥

1.46.456

सर्वान् गुडविकारांश्च रागषाडवसट्टकान् ।

1.46.456

पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥

1.46.457

एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।

1.46.457

भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ ॥

1.46.458

सुगन्धपुष्परचिते समे देशेऽथ भोजयेत् ।

1.46.458

विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ॥

1.46.459

मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।

1.46.459

पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥

1.46.460

पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ।

1.46.460

आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥

1.46.461

ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् ।

1.46.461

घनं पूर्वं समश्नीयात् केचिदाहुर्विपर्ययम् ॥

1.46.462

आदावन्ते च मध्ये च भोजनस्य तु शस्यते ।

1.46.462

निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ॥

1.46.463

मृणालबिसशालूककन्देक्षुप्रभृतीनि च ।

1.46.463

पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ॥

1.46.464

सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः ।

1.46.464

काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् ॥

1.46.465

बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः ।

1.46.465

काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते ॥

1.46.466

लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् ।

1.46.466

क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ॥

1.46.467

सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च ।

1.46.467

अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥

1.46.468

तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु ।

1.46.468

येषु चापि भवेयुश्च दिवसा भृशमायताः ॥

1.46.469

तेषु तत्कालविहितमपराह्णे प्रशस्यते ।

1.46.469

रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥

1.46.470

कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् ।

1.46.470

नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ॥

1.46.471

अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः ।

1.46.471

तांस्तान् व्याधीनवाप्नोति मरणा वा नि(आ.वि)यच्छति ॥

1.46.472

अतीतकालं भुञ्जानो वायुनोपहतेऽनले ।

1.46.472

कृच्छ्राद्विपच्यते भुक्तं द्वितीतं च न काङ्क्षति ॥

1.46.473

हीनमात्रमसन्तोषं करोति च बलक्षयम् ।

1.46.473

आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ॥

1.46.474

तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् ।

1.46.474

यथोक्तगुणसंपन्नमुपसेवेत भोजनम् ॥

1.46.475

विभज्य दोषकालादीन् कालयोरुभयोरपि ।

1.46.475

अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ॥

1.46.476

द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् ।

1.46.476

चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ॥

1.46.477

अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते ।

1.46.477

यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ॥

1.46.478

प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः ।

1.46.478

विशुद्धरसने तस्मै रोचतेऽन्नमपूर्ववत् ॥

1.46.479

स्वादुना तस्य रसनं प्रथमेनातितर्पितम् ।

1.46.479

न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ॥

1.46.480

सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् ।

1.46.480

स्वादु संजनयत्यन्नमस्वादु च विपर्ययम् ॥

1.46.481

भुक्त्वापि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् ।

1.46.481

अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ॥

1.46.482

दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः ।

1.46.482

कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ॥

1.46.483

जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु ।

1.46.483

भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफम् ॥

1.46.484

धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः ।

1.46.484

पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ॥

1.46.485

फलैः कटुकषायैर्वा मुखवैशद्यकारकैः ।

1.46.485

ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥

1.46.486

भुक्त्वा राजवदासीत यावदन्नक्लमो गतः ।

1.46.486

ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ॥

1.46.487

शब्दरूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् ।

1.46.487

भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ॥

1.46.488

शब्दरूपरसाः स्पर्शा गन्धाश्चापि जुगुप्सिताः ।

1.46.488

अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ॥

1.46.489

शयनं चासनं चापि नेच्छेद्वापि द्रवोत्तरम् ।

1.46.489

नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥

1.46.490

न चैकरससेवायां प्रसज्येत कदाचन ।

1.46.490

शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ॥

1.46.491

एकैकशः समस्तान् वा नाध्य(आ.त्य)श्नीयाद्रसान् सदा ।

1.46.491

प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ॥

1.46.492

पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् ।

1.46.492

मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः ॥

1.46.493

पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः ।

1.46.493

द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति ।

1.46.493

पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ॥

1.46.494

गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते ।

1.46.494

द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ॥

1.46.495

द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।

1.46.495

विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥

1.46.496

पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।

1.46.496

स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ॥

1.46.497

विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते ।

1.46.497

शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ॥

1.46.498

आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।

1.46.498

अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥

1.46.499

अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च ।

1.46.499

कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥

1.46.500

ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन ।

1.46.500

प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ॥

1.46.501

माधुरुयमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् ।

1.46.501

किंचिद्विपक्वं भृशतोदशूलं विष्टब्धमान(आ.ब)द्धविरुद्धवातम् ॥

1.46.502

उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य ।

1.46.502

रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ॥

1.46.503

मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः ।

1.46.503

उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ॥

1.46.504

तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम् ।

1.46.504

विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥

1.46.505

वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना ।

1.46.505

कार्यं चानशनं तावद्यावन्न प्रकृतिं भजेत् ॥

1.46.506

लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् ।

1.46.506

यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ॥

1.46.507

हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् ।

1.46.507

बहु स्तोकमकाले वा विज्ञेयं विषमाशनम् ॥

1.46.508

अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ।

1.46.508

त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ॥

1.46.509

अन्नं विदघ्दम् हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति ।

1.46.509

तद्ध्यस्य शैन्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ॥

1.46.510

विदह्यते यस्य तु भुक्तमात्रे(आ.त्रं) दह्यत हृत्कोष्ठगलं च यस्य ।

1.46.510

द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाभयां वा स सुखं लभेत ॥

1.46.511

भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ।

1.46.511

प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ॥

1.46.512

स्वल्पं यदा दोषविबद्धमां लीनं न तेजःपथमावृणोति ।

1.46.512

भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति ॥

1.46.513

अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् ।

1.46.513

कर्मभिस्त्वनुमीयते नानाद्रव्याश्रया गुणाः ॥

1.46.514

ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित् ।

1.46.514

उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ॥

1.46.515

स्नेहमार्दवकृत्स्निग्धो बलवर्णकरस्तथा ।

1.46.515

रूक्षस्तद्विपरीतः स्याद्विशेषात्स्तम्भनः खरः ॥

1.46.516

पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः ।

1.46.516

विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ॥

1.46.517

दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा ।

1.46.517

सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ॥

1.46.518

लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा ।

1.46.518

दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषाणैः ॥

1.46.519

दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे ।

1.46.519

द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद्बन्धकारकः ।

1.46.519

श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा ॥

1.46.520

सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ।

1.46.520

दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः ॥

1.46.521

सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ।

1.46.521

व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते ॥

1.46.522

विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ।

1.46.522

आशुकारी तथाशुत्वाद्धावत्यम्भसि तैलवत् ॥

1.46.523

सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ।

1.46.523

गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः ॥

1.46.524

संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ।

1.46.524

पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः ।

1.46.524

विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ॥

1.46.525

अविदग्धः कफं पित्तं विदग्धः पवनं पुनः ।

1.46.525

सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ॥

1.46.526

विण्मूत्रमाहारमलः सारः प्रागीरितो रसः ।

1.46.526

स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥

1.46.527

कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च ।

1.46.527

नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ॥

1.46.528

दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् ।

1.46.528

अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ॥

1.46.529

हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः ।

1.46.529

क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ॥

1.46.530

इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः ।

1.46.530

स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc