भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.6

1.6.1

अथात ऋतुचर्यमध्यायं व्याख्यास्यामः ॥

1.6.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.6.3

कालो हि नाम भगवान् स्वयम्भुरनादिमध्यनिधनोऽत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते । स सूक्ष्मामपि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः ॥

1.6.4

तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेण निमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ॥

1.6.5

तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः पञ्चदशाक्षिनिमेषाः काष्ठा त्रिंशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभागश्च त्रिंशन्मुहूर्तमहोरात्रं पञ्चदशाहोरात्राणि पक्षः स च द्विविधः शुक्लः कृष्णश्च तौ मासः ॥

1.6.6

तत्र माघादयो द्वादश मासाः संवत्सरः द्विमासिकमृतुं कृत्व षडृतवो भवन्ति ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः तेषं तपस्तप्स्यौ शिशिरः मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभोनभस्यौ वर्शाः इषोर्जौ शरत् सहःसहस्यौ हेमन्त इति ॥

1.6.7

त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरं च । तयोर्दक्षिणं वर्षाशरद्धेमन्ताः तेषु भगनानाप्यायते सोमः अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते । उत्तरं च शिशिरवसन्तग्रीष्माः तेषु भगवानाप्यायतेऽर्कः तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते ॥

1.6.8

भवति चात्र ।

1.6.8

शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि ।

1.6.8

तावुभावपि संश्रित्य वायुः पालयति प्रजाः ॥

1.6.9

अथ खल्वयने द्वे युगपत् संवत्सरो भवति ते तु पञ्च युगमिति संज्ञां लभन्ते स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत् परिवर्तमानः कालचक्रमुच्यत इत्येके ॥

1.6.10

इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्रपदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति ॥

1.6.11

तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रसन्नाः क्षितिमलप्रायाः ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते विदाहात् पित्तसंचयमापादयन्ति स संचयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति । ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्यश्च ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसंचयमापादयन्ति स संचयो वसन्तेऽरक्रश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति । ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाद्वैशद्याच्च वायोः संचयमापाद्यन्ति स संचयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन् जनयति । एवमेष दोषाणां संचयप्रकोपहेतुरुक्तः ॥

1.6.13

तत्र वर्शाहेमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् ॥

1.6.14

तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकाणां निदाघे वातिकानां शरदि स्वभावत एव त एते संचयप्रकोपोपशमा व्याख्याताः ॥

1.6.15

तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्ने ग्रीष्मस्य अपराह्णे प्रावृषः प्रदोषे वार्षिकां शारदमर्धरात्रे प्रत्युषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् ॥

1.6.16

तत्र अव्यापन्नेष्वृतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ॥

1.6.17

तेषां पुनर्व्यापदोऽदृष्टकारिताः षीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च ॥

1.6.18

तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ॥

1.6.19

तत्र अव्यापन्नानामोषधीनामपां चोपयोगः ॥

1.6.20

कदाचिदव्यापन्नेष्वप्यृतुषु कृत्याभिशापरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जनपदाः विषौषधिपुष्पगन्धेन वायुनोपनीतेनाक्रम्यते तो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्चासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ॥

1.6.21

तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यं एवं साधु भवति ॥

1.6.22

अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ॥

1.6.23

वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः ।

1.6.23

छन्नस्तुषारैः सविया हिमानद्धा जलाशयाः ॥

1.6.24

दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः ।

1.6.24

रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ॥

1.6.25

शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः ।

1.6.25

शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ॥

1.6.26

सिद्धविद्याधरवधूचरणालक्तकाङ्किते ।

1.6.26

मलये चन्दनलतापरिष्वङ्गाधिवासिते ॥

1.6.27

वाति कामिजनानन्दजननोऽनङ्गदीपनः ।

1.6.27

दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ॥

1.6.28

दिशो वसन्ते विमलाः काननैरुपशोभिताः ।

1.6.28

किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ॥

1.6.29

कोकिलाषट्पदगणैरुपगीता मनोहराः ।

1.6.29

दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ॥

1.6.30

ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः ।

1.6.30

भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ॥

1.6.31

भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः ।

1.6.31

ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ॥

1.6.32

प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः ।

1.6.32

अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ॥

1.6.33

कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही ।

1.6.33

कदम्बनीपकुटजसर्जकेतकिभूषिता ॥

1.6.34

तत्र वर्षसु नद्योऽम्भश्छन्नो{ओ.-त्}खाततटद्रुमाः ।

1.6.34

वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ॥

1.6.35

भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता ।

1.6.35

नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ॥

1.6.36

बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः ।

1.6.36

तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ॥

1.6.37

पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः ।

1.6.37

बाणसप्ताह्वबन्धूककाशासनविराजिता ॥

1.6.38

स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः ।

1.6.38

विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ॥

1.6.39

हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् ।

1.6.39

वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc