सुश्रुतसंहिता · अध्याय 1.5
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चात्कर्मेति तद्व्याधीं प्रति प्रत्युपदेक्ष्यामः ॥
अस्मिन् शास्त्रे शास्त्रकर्मप्राखान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ॥
तच्च शस्त्रकर्माष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्यं एष्यं आहार्यं विस्राव्यं सीव्यमिति ॥
अतोऽन्यतं कर्म चिकीर्शता वैद्येन पूर्वमेवोपकल्पयितव्यानि यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृतवसापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ॥
ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् मिषजश्चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्नुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्य्ङ्नुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ॥
तत्रायतो विषालः समः सुविभक्तो निराश्रय इति व्रणगुणाः
भवत्श्चात्र ।
आयतश्च विशालश्च सुविभक्तो निराश्रयः ।
प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ॥
शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु ।
असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते ॥
एकेन वा व्रणेनाषुध्यमाने नान्तरा बुद्ध्यावेक्ष्यापरान् व्रणान् कुर्यात् ॥
भवति चात्र ।
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च ।
तत्र तत्र व्रणं कुर्याद्यथा दोषो न निष्ठति ॥
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तियक् छेद उक्तः ॥ (
चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।
अर्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान् ॥)
अन्यथा तु सिरास्नायुच्छेदनं अतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति ॥
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ॥
ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्य(आ.ज्य) प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत् रक्षोघ्नैश्च मन्त्न्रै रक्षां कुर्वीत ॥
ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत ॥
उदकुम्भाच्चापो गृहीत्वाप्रोक्षयन् रक्षाकर्म कुयात् ॥तद्वक्ष्यामः
कृत्यानांप्रतिघातार्थं तथा रक्षोभयस्य च ।
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥
नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः ।
अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥
पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ॥
पान्तु त्वां मुनयो ब्राहया दिव्या राजर्षयस्तथा ।
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ॥
स्ग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ।
सोमो व्यानमपान ते पर्जन्यः परिरक्षतु ॥
उदानं विद्युतः पान्तु समानं स्तनयित्नवः ।
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥
कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥
चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।
आकाशं खानि ते पातु देहां तव वसुन्धरा ॥
वैष्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।
पौरुशं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥
एता देहे विशेषेण तव नित्या हि देवताः ।
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् । [
स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ ।]
स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ॥
पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव ।
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥
इति स्वाहा ॥
एतैर्वेदात्मकैर्मन्त्रैः इऋत्याव्याधिविनाशनैः ।
मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥
ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ॥
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ॥
द्वितीयदिवसपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति ॥
अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान् वेदध्यात् ॥
न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ।
भवन्ति चात्र ॥
तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् ।
रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ।
हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसंभवात् ॥
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् ।
त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ॥
अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् ।
प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ॥
यावेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः ।
घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0