भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.7

1.7.1

अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ॥

1.7.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.7.3

यन्त्रशतमेकोत्तरं अत्रहस्तमेव प्रधानतमं यन्त्राणामवगच्छ (.किं कारणं यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव ) तदधीनत्वाद्यन्त्रकर्मणाम् ॥

1.7.4

तत्र मनःशरीराबाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि ॥

1.7.5

तानि षट्प्रकाराणि तद्यथा स्वस्तिकयन्त्राणि संदंशयन्त्राणि तालयन्त्राणि नाडीयन्त्राणि शलाकायन्त्राणि उपयन्त्राणि चेति ॥

1.7.6

तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि द्वे संदंशयन्त्रे द्वे एव तालयन्त्रे विंशतिर्नाड्यः अष्टाविंशतिः शलाकाः पन्ञ्चविंशतिरुपयन्त्राणि ॥

1.7.7

तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूपकाणि वा तदलाभे ॥

1.7.8

तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ॥

1.7.9

समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च ।

1.7.9

सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ॥

1.7.10

तत्र स्वस्तिकयन्त्राणि अष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगैरिवारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दि(आ.न्दी)मुखमुखानि मसूराकृतिभिः कीलैरवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाणि अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ॥

1.7.11

सनिग्रहोऽनिग्रहश्च संदंशौ षोडशाङ्गुलौ भ्वतः तौ स्वङ्नांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ॥

1.7.12

तालयन्त्रे द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके कर्णनासानाडीशल्यानामाहरणार्थम् ॥

1.7.13

नाडीयन्त्राणि अप्यनेकप्रकाराणि अनेकप्रयोजनानि एकतोमुखान्युभयतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थं आचूषणार्थं क्रियासौकर्यार्थं चेति तानि स्रोतोद्वारपरिणाहानि यथायोगदीर्घाणि च । तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोप्ररिष्टाद्वक्ष्यामः ॥

1.7.14

शलाकायन्त्राण्यपि नानाप्रकाराणि नानाप्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे एषणव्यूहनचालनाहरणार्थमुपदिश्येते मसूरदलमात्रमुखे द्वे किंचिदानताग्रे स्रोतोगतशल्योद्धरणार्थं षट् कार्पासकृतोष्णीषाणि प्रमार्जनक्रियासु त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणिधानार्थं त्रीण्यन्यानि जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडेवाग्निकर्मस्वभिप्रेतानि नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णोष्ठं अञ्जनार्थमेकं कलायपरिमण्डलमुभुयतो मुकुलाग्रं मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ॥

1.7.15

उपयन्त्राण्यपि-रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति ॥

1.7.16

एतानि देहे सर्वस्मिन् देहस्यावयवे तथा ।

1.7.16

संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ॥

1.7.17

यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः ॥

1.7.18

स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् ।

1.7.18

असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ॥

1.7.19

तत्र अतिस्थूलं असारं अतिदीर्घं अतिह्रस्वं अग्राहि विषमग्राहि वक्रं शिथिलं अत्युन्नतं मृदुकीलं मृदुमुखं मृदुपाशमिति द्वादश यन्त्रदोषाः ॥

1.7.20

एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् ।

1.7.20

प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ॥

1.7.21

दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः ।

1.7.21

निर्हरेत्तु शनैः शल्यं श(आ.शा)स्त्रयुक्तिव्यपेक्षया ॥

1.7.22

नि(आ.वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् ॥

1.7.22

यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(आ.वि)कारि चैव ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc