भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.4

1.4.1

अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ॥

1.4.2

याथोवाच भगवान् धन्वन्तरिः ॥

1.4.3

अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ॥

1.4.4

भवति चात्र ।

1.4.4

यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।

1.4.4

एवं हि शास्त्राणि बःऊन्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥

1.4.5

तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च कस्मात् सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसंभवद्रव्यसमूहविभागास्तथा प्रनष्टशल्योद्धरणव्रणविनिश्चयभग्नविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये सहस्रशो विशेषा ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ॥

1.4.6

अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं कस्मात् नह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ॥

1.4.7

भवन्ति चात्र ।

1.4.7

एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् ।

1.4.7

तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ॥

1.4.8

शास्त्रं गुरुमुखोद्बीर्णमादायोपास्य चासकृत् ।

1.4.8

यः कर्मकुरुते वैयः स वैद्योऽन्ये तु तस्कराः ॥

1.4.9

औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् ।

1.4.9

शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc