सुश्रुतसंहिता · अध्याय 1.45
अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवणं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ॥
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ॥
तत्र लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि संभवन्तीत्येके भाषन्ते ॥
तत्तु न सम्यक् । तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युक्तर्षापकर्षेण । तत्र स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च अम्बुगुणभूयिष्ठायां मधुरं तेजोगुणभूयिष्ठायां कटुकं तिक्तं च वायुगुणभूयिष्ठायां कषायं आकाशगुणभूयिष्ठायामव्यक्तरसं अव्यक्तं ह्याकाशमित्यतः तत् प्रधानमव्यक्तरसत्वात् तत्पेयमान्तरीक्षलाभे ॥
तत्रान्तरीक्षं चतुर्विधम् । तद्याथा धारं कारं तौषारं हैममिति । तेषां धारं प्रधानं लघुत्वात् तत् पुनर्द्विविधं गाङ्गं सामुद्रं चेति । तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति । तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत स यदि मुहूर्तम् स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात् तन्नोपादेयम् । सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति । गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि । शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे रजते मृन्मये वा पात्रे निदध्यात् । तत्सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् । तच्चाकाशगुणबहुलम् । तत् पुनः सप्तविधम् । तद्यथा कौपं नादेयं सारसं ताडागं प्रास्रवणं औद्भिदं चौण्ट्यमिति ॥
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वा वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेऽप्येवं प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ॥
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् ।
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ॥
योऽवगाहेत वर्षासु पिबेद्वापि नवं जलम् ।
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ॥
तत्र यत् पङ्कशैवलहटतृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसूर्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं च तद्व्यापन्नमिति विद्यात् । तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् संभवन्ति । तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः पङ्कसिकताशैवालब्बहुवर्णता रूपदोषः व्यक्तरसता रसदोषः अनिष्टगन्धता गन्धदोषः यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति । त एते आन्तरिक्षे न सन्ति ॥
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ॥
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा ।
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ॥
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् ।
दोषसंजननं ह्येतन्नाददीताहितं तु तत् ॥
व्यापन्नम् सलिलं यस्तु पिबतीहाप्रसाधितम् ।
श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ॥
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च ।
अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः ॥
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति । तद्यथा कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ॥
पञ्च निक्षेपणानि भवन्ति । तद्यथा फलकं त्र्यष्टकं मुञ्जवलय उदकमञ्चिका शिक्यं चेति ॥
सप्त शीतीकरणानि भवन्ति प्रवातस्थापनं उदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनं चेति ॥
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् ।
अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ॥
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः लघूदकत्वात् पूर्वाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् दक्षिणाभिमुखा नातिदोषलाः साधारणत्वात् । तत्र सह्यप्रभवाः कुष्ठं जनयन्ति विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च मलयप्रभवाः कृमीन् महेन्द्रप्रभवाः श्लीपदोदराणि हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान् प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ॥
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः ।
गुर्व्यः शैवालसंच्छन्नाः कलुषा मन्दगाश्च याः ॥
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः ।
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ॥
तत्र सर्वेषां भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यं चाधिकं भवति स एव चापां परो गुण इति ॥
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः ।
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ॥
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने ।
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ॥
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ।
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदत्यये ।
भ्रमक्लमपरीतेषु तमके वमथौ तथा ॥
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ।
प्रार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥
आध्माने स्तिमिते लोष्ठे सद्यःशुद्धे नवज्वरे ।
हिक्कायां स्नेहपिते च शीताम्बु परिवर्जयेत् ॥
नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ।
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ॥
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु ।
ताडागं वातलं स्वादु कषायं कटुपाकि च ॥
वातश्लेष्महरम् वाप्यं सक्षारं कटु पित्तलम् ।
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ॥
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च ।
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ॥
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् ।
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ॥
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् ।
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ॥
सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् ।
अनेकदोषमानूपं वार्यभिष्यन्दि गरिहितम् ॥
एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् ।
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनरम् ॥
दीपनं स्वादु शीतं च तोयं साधारणं लघु ।
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ॥
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा ।
यत् क्वाथ्यमानं निर्वेगं विष्फेनं निर्मलं लघु ॥
चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् ।
न च पर्युषितं देयं कदाचिद्वारि जानता ॥
अम्लीभूतं कफोत्क्लेशि न हितं तत् पिपासवे ।
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ॥
सनीपातसमुत्थे च शृतशीतं प्रशस्यते ।
स्निग्धं स्वादु हिमं हृद्यं दीपनं बिस्तिशोधनम् ॥
वृष्यं पित्तपिपासाघ्नं नारिकेलोदकं गुरु ।
दाहातीसारपित्तासृङ्नूर्च्छामद्यविषार्तिषु ॥
शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च ।
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा ।
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥
इति जलवर्गः ।
अथ क्षीरवर्गः ।
गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् ।
अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ॥
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु ।
मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु ।
सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ॥।
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् वातपित्तशोणितमानसेष्वपि विकारेषुवविरुद्धं जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोषपाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं सन्धानमास्थापनं वयःस्थापनमायुष्यं जीवनं बृंहणं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ॥
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् ।
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् ।
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ॥
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् ।
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ॥
नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ।
रूक्षोष्णं लवणं किंचिदौष्ट्रं स्वादुरसं लघु ॥
शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् ।
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ॥
पथ्यं केवलवातेषु कासे चानिलसंभवे ।
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ॥
निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु ।
उष्णमैकशफं बल्यं शाखावातहरं पयः ॥
मधुराम्लग्सं रूक्षं लवणानुरसं लघु ।
नार्यास्तु मध्रुअं स्तन्यं कषायानुरसं हिमम् ॥
नस्याश्चयोतनयोः पथ्यं जीवनं लघु दीपनम् ।
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ॥
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ।
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ॥
रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा ।
दिवाकराभितप्तानां व्यायामानिलसेवनात् ॥
वातानुलोमि श्रान्तिघ्नं चक्षुष्यं चापराह्णिकम् ।
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ॥
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ।
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ।
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ॥
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् ।
वर्ज्यं सलवणं क्षीरं तच्च विग्रथितं भवेत् ॥
दधि तु मधुरमम्लमत्यम्लं चेति तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यम् प्राणकरं मङ्गल्यं च ॥
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् ।
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् ।
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ॥
वातापहम् पवित्रं च दधि गव्यं रुचिप्रदम् ।
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ॥
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ॥
बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् ।
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ॥
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च ।
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ॥
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् ।
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ॥
रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् ।
स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ॥
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् ।
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ॥
कषायानुरसं नाग्या दधि वर्चोविवर्धनम् ।
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ॥
विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् ।
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ॥
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् ।
शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ॥
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् ।
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽ निलनाशनः ॥
वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः ।
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ॥
दीपनीयं लघुतरं सकषायं रुचिप्रदम् ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ॥
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ।
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ॥
अम्लं कषायं मधुरमवृष्यं कफवातनुत् ।
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् ॥
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ॥
स्वाद्व्-अम्लम्-अत्यम्लक-मन्दजातं तथा शृतक्षीरभवं सरश्च ।
असारमेवं दधि सप्तधास्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ॥
तक्रं मधुरमम्लं कषायानुरसमुष्णवीर्यं लघु रूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलमेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्र्शमनमवृष्यं च ॥
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् ।
नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे ।
यत्तु सस्नेगमजलं मथितम् घोलमुच्यते ॥
नैव तक्रं क्षते तद्यान्नोष्णकाले न दुर्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च ।
मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ॥
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च अम्लं वातघ्नं पित्तकरं च ॥
वातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् ।
पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ॥
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका ।
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः ।
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ॥
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽर्दितापहं चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ॥
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ॥
सन्तानिका पुनर्वातघ्नी तर्पणी बल्या वृष्या स्नेग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ॥
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः ।
विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ॥
अथ घृतम् ।
घृतं तु मधुरं सौम्यं म्र्डुशीतवीर्यमल्पाभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेस्जोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ॥
विपाके मधुरं शीतं वातपित्तविषापहम् ।
चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ॥
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् ।
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् ।
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् ।
कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ॥
पाके लघूष्णवीर्यं च कषायं कफनाशनम् ।
दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ॥
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् ।
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥
कषायं बद्धविण्मूत्रम् तिक्तमग्निकरं लघु ।
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ॥
क्षीरघृतं पुनः संग्राहि रक्त्रपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ॥
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ॥
सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोसरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं बस्तिनस्याक्षिपूरणेषूपदिश्यते ॥
भवति चात्र ।
पुराणं तिमिरश्वासपीनसज्वरकासनुत् ।
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥
एकादशशतं चैव वत्सरानुषितं घृतम् ।
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः ।
बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ॥
सर्वभूतहरं चैव घृतमेतत् प्रशस्यते ॥
अथ तैलानि ।
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं शोधनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिताभिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ॥
तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे ।
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥
परण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ॥
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ॥
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् ।
कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरु पित्तलम् ॥
कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु ।
कफमेदोनिलहरं लेखनं कटु दीपनम् ॥
कृमिघ्नमिङ्गुकीतैलमीषत्तिक्तं तथा लघु ।
कूष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ॥
विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् ।
रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ॥
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदारसूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ॥
मधुककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ॥
त्वरकभल्लातकतैले उष्णे मदुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ॥
सरलदेवदारुगण्डीरशिंशपागुरुसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ॥
तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ॥
यवतिक्तातैलं सर्वदोषप्रशमनमीशत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं रसायनं च ॥
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ॥
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ॥
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् ।
गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ॥
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः ।
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते ।
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः प्रतुदविष्किराणां श्लेष्मघ्नाः । तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ॥
अथ मधुवर्गः ।
मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं संग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च तत्तु लघुत्वात्कफघ्नं पैच्छिल्यान्माधुर्यात्कषायभावाच्च वातपित्तघ्नम् ॥
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च ।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात् ।
वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ॥
पैच्छिल्यात् स्वादुभूतस्त्वाद्भ्रामरं गुरुसंज्ञितम् ।
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् ।
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ॥
स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् ।
श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ॥
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् ।
कषायं कटु पाके च बल्यं तिक्तमवातकृत् ॥
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् ।
कषायमुष्णमम्लं च पित्तकृत् कटुपाकि च ॥
छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् ।
बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ॥
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् ।
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् ।
नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥
तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां सविषमक्षिकासंभवत्वाच्चानुष्णोपचारम् ॥
उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु ।
उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ॥
तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससंभवाच्च ।
उष्णैर्विरुध्येत विशेषतश्च तथान्तरीक्षेण जलेन चापि ॥
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।
अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ॥
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते ।
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ॥
अथेक्षुवर्गः ।
इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ॥
ते चानेकविधाः । तद्यथा
पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः ।
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥
नेपालो दीर्घपत्रश्च नीलपोरोथ कोशकृत् ।
इत्येता जातयः स्थौल्याद् गुणान् वक्ष्याम्यतः परम् ॥
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः ।
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥
आभ्यां तुल्यगुणः किंचित्सक्षारो वंशको मतः ।
वंशवच्छ्वेतपोरस्तु किंचिदुष्णः स वातहा ॥
कान्तारतापसाविक्षू वंशकानुगतौ मतौ ।
एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ॥
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः ।
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः ।
अतीव मधुरो मूले मध्ये मधुर एव तु ॥
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥
अविदाही कफकरो वातपित्तनिवारणः ।
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ॥
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः ।
पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ॥
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ॥
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदः(आ.कृमि)कफकरो बल्यो वृष्यश्च ॥
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः ।
स पुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ॥
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ॥
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ॥
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः ।
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ॥
सारस्थिता सुविमला निःक्षारा च यथा यथा ।
तथा तथा गुणवती विज्ञेया शर्करा बुधैः ॥
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च ॥
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ॥
यावत्यः शर्कराः प्रोक्ताः सर्वा दहप्रणाशनाः ।
रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ॥
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् ।
कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ॥
अथ मद्यवर्गः ।
सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् ।
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् ।
विकासि सृष्टविण्मूत्रं श्र्णु तस्य विशेषणम् ॥
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा ।
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ॥
मधुरं तद्धि रूक्षं च कषायानुरसं लघु ।
लघुपाकि सरं शोषविषमज्वरनाशनम् ॥
मार्द्वीकाल्पान्तरं किंचित् खार्जूरं वातकोपनम् ।
तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ॥
कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् ।
कासार्शोग्रहणीदोषमूत्रघातानिलापहा ॥
स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी ।
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ॥
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा ।
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ॥
प्रसन्ना कफवातार्शोविबन्धानाहनाशनी ।
पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी ॥
विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ।
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ॥
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः ।
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ॥
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् ।
बक्व(आ.क्क)सो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः ।
कषायो मधुरः सीधुर्गौडः पाचनदीपनः ॥
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः ।
वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ॥
तद्वत् पक्वरसः सीधुर्बलवर्णकरः सरः ।
शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ॥
कर्शनः शीतरसिकः श्वयथूदरनाशनः ।
वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽर्शसां हितः ॥
आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः ।
कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ॥
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः ।
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् ।
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥
कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः ।
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः ॥
शीघुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः ।
रूक्षः कषायकफहृद्वातपित्तप्रकोपणः ॥
निर्दिशेद्रसतश्चान्यान्कन्दमूलफलासवान् ।
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ॥
अनिष्टगन्धि विरसमहृद्यं च विदाहि च ।
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् ।
अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥
बहुदोषहरश्चैव दोषाणां शमनश्च सः ।
दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ।
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ॥
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् ।
अरिष्टासवसीधूनां गुणान् कर्माणि चादिशेत् ॥
बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् ।
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ॥
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ।
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ॥
तद्वर्ज्यं सर्वदा मद्यं किंचिच्छेषं च यद्भवेत् ।
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ॥
कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः ।
पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ॥
अहृद्यं पेलवं पूति कृमिलं विरसं च यत् ।
तथा पर्युषितं चापि विद्यादनिलकोपनम् ॥
सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् ।
चिरस्थितं जातरसं दीपनं कफवातजित् ॥
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ।
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ॥
सौक्ष्मयादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना ।
समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् ॥
विक्षोभ्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ।
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः ।
अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः ।
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ॥
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् ।
कलहं सानुबन्धं तु करोति पुरुषे मदः ॥
अशौचनिद्रामात्सर्यागम्यागमनलोलताः ।
असत्यभाषणं चापि कुर्याद्धि तामसे मदः ॥
रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम् ।
वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ॥
तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च ।
तद्वत्तदासुतं सर्वं रोचनम् च विशेषतः ॥
गौडानि रसशुक्तानि मधुशुक्तानि यानि च ।
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ।
ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ॥
धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् ।
स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु ॥
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ।
मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ॥
दीपनं जरणं भेदि हितमास्थापनेषु च ।
समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ॥
अथ मूत्राणि ।
अथ मूत्राणि गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्श उदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ॥
भवतश्चात्र ।
तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु ।
शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् ।
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ॥
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥
शूलगुल्मोदरानाहविरेकास्थापनादिषु ।
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥
कासश्वासापहं शोफकामलापाण्डुरोगनुत् ।
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् ।
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् ।
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ॥
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् ।
अर्शोघ्नं कारभं मूत्रं मानुषं च विषापहम् ॥
द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु ।
कालदेशविभागज्ञो नृपतेर्दातुमर्हति ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0