सुश्रुतसंहिता · अध्याय 1.44
अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने ।
प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ॥
तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका ।
सुधापयः पयःसूक्तमिति प्राधान्यसंग्रहः ।
तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ॥
वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् ।
चूर्णीकृतम् सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ॥
इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च ।
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ॥
त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम् ।
प्रस्थे च तन्मूलरसस्य दत्त्वा तन्मूलकल्कं कुडवप्रमाणम् ॥
कर्षोन्मिते सैन्धनागरे च विपाच्य कल्कीकृतमेतदद्यात् ।
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ॥
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम् ।
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ॥
विरेचनद्रव्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य ।
तन्मूलसिद्धेन च सर्पिषाक्तं सेव्यं तदाज्ये गुटिकीकृतं च ॥
गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य ।
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोग्याः ॥
वैरेकीयद्रव्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः ।
आमृद्नीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च ॥
पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात् ।
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ॥
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः ।
वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च ॥
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा ।
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृताः समाः ।
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये ॥
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ।
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥
पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् ।
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् ॥
त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाप्नुयात् ।
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ॥
बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान् ।
तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् ॥
घनीभूतं त्रिसौगन्ध्यं त्रिवृत्क्षौद्रसमन्वितम् ।
लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् ॥
नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला ।
चूर्णं संतर्पणं क्षौद्रफलाम्लं सन्निपातनुत् ॥
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः ।
मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः ॥
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा ।
क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा ॥
लिह्याद्गुडेन गुटिकाः कृत्वा वाप्यथ भक्षयेत् ।
कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् ॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ।
चूर्णं श्यामात्रिवृन्नीली कट्वी मुस्ता दुरालभा ॥
चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः ।
पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते ॥
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः ।
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ॥
तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् ।
कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ ॥
मासादूर्ध्वं जातरसं मधुगन्धं वरासवम् ।
पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ॥
वैरेचनिकमूलाणां क्वाथे माषान् सुभावितान् ।
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ॥
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् ।
शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ॥
तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् ।
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ॥
निदध्यात्कलसे तां तु सुरां जातरसां पिबेत् ।
एष एव सुराकल्पो वमनेष्वपि कीर्तितः ॥
मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च ।
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ॥
सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् ।
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ॥
कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु ।
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ॥
शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः ।
चतुर्थं भागमावाप्य चूर्णानामनु(आ.त्र)कीर्तितम् ॥
प्रक्षिप्य कलसे सम्यक् समस्तं तदनन्तरम् ।
तेषामेव कषायेण शीतलेन सुयोजितम् ॥
पूर्ववत्सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत् ।
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ॥
भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत् ।
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ॥
सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत् ।
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ॥
पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् ।
तेनैव सह यूषेण कलसे पूर्ववत्क्षिपेत् ॥
ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत् ।
तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ॥
षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते ।
वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ॥
दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे ।
पिप्पलीक्षौद्रयुत्कानि स्विन्नान्युद्धृत्य शोषयेत् ॥
ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः ।
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ॥
सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत् ।
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ॥
चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः ।
दन्तीद्रवन्तीमरिचकनकाह्वयवासकैः ॥
विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम् ।
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ॥
जीर्णे सन्तर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् ।
अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ॥
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् ।
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ॥
कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि ।
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ॥
दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः ।
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥
नवैतानि समांशानि त्रिवृदष्टगुणानि वै ।
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ॥
सर्वाणि चूर्णितानीह गालितानि विमिश्रयेत् ।
षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ॥
पिण्डितम् भक्षयित्वा तु ततः शीताम्बु पाययेत् ।
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ॥
निर्यन्त्रणमिदं सर्वं विषघ्नं तु विरेचनम् ।
रिवृदष्टकसंज्ञोऽयं प्रशस्तः पित्तरोगिणाम् ॥
भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः ।
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ॥
तिल्वक्स्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम् ।
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ॥
तृतीयं भावितं तेन भागं शुष्कं तु भावितम् ।
दशमूलीकषायेण त्रिवृद्वत्संप्रयोजयेत् ॥
विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते ।
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ॥
योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् ।
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ॥
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ।
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥
हरीतकी भद्रदारु कुष्ठं पूगफलं तथा ।
सैन्धवं शृङ्गवेरं च गोमूत्रेण विरेचनम् ॥
नीलिनीफलचूर्णं च नागराभययोस्तथा ।
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ॥
पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम् ।
सैन्धवोपहितां सद्य एष योगो विरेचयेत् ॥
हरीतकी भक्ष्यमाणा नागरेण गुडेन वा ।
सैधवोपहिता वापि सातत्येनाग्निदीपनी ॥
वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी ।
सन्तर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ॥
शीतमामलकं रूक्षं पित्तमेदःकफापहम् ।
बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ॥
त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च ।
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ॥
वयसः स्थापनं चापि कुर्यात् संततसेविता ।
हरीतकीविधानेन फलान्येवं प्रयोजयेत् ॥
विरेचनानि सर्वाणि विशेषाच्चतुरङ्गुलात् ।
फलं काले समुद्धृत्य सिकतायां निधापयेत् ॥
सप्ताहमातपे शुष्कं ततो मज्जानमुद्धरेत् ।
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ॥
तस्योपयोगो बालानां यावद्वर्षाणि द्वादश ।
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ॥
सुखोदकं चानुपिबेदेष योगो विरेचयेत् ।
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ॥
युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् ।
बालवृद्धक्षतक्षीणसुकुमारेषु योजितम् ॥
फलानां विधिरुद्दिष्टः क्षीराणां शृणु सुश्रुत ।
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ॥
अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात् ।
विजानता प्रयुक्तं तु महान्तमपि संचयम् ॥
भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् ।
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ॥
कषायैः समभागं तु तदङ्गारैर्विशोषितम् ।
अम्लादिमिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ॥
महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता ।
पीता विरेचयत्याशु गुडेनोत्कारिका कृता ॥
लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः ।
भावितास्तु स्नुहीक्षीरे पिप्पल्यो लवणान्विताः ॥
चूर्णं काम्पिल्लकं वापि तत्पीतं गुटिकीकृतम् ।
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ॥
मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् ।
कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ॥
आघ्रायावृत्य वा सम्यङ्नृदुकोष्ठो विरिच्यते ।
क्षीरत्वकद्फलमूलानां विधानैः परिकीर्तितैः ।
अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ॥
त्रिवृच्छाणमितास्तिस्रस्तिस्रश्च त्रिफलात्वचः ।
विडङ्गपिप्पलीक्षरशाणास्तिस्रश्च चूर्णिताः ॥
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा ।
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ॥
गुल्मान् प्लीहोदरम् कासं हलीमकमरोचकम् ।
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ॥
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु ।
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ॥
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव फाण्टम् ।
कल्पाह् षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0