भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.43.3

1.43.3.1

ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः ।

1.43.3.1

ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते ॥

1.43.3.2

रसायनमिवर्षीणां देवानाममृतं यथा ।

1.43.3.2

सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु अप्रवर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैस्तुषाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति । मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां मदनफलमज्जसिद्धं वा पयः मदनफलमज्जसिद्धेन वा पयसा यवागूम् अधोभागासृक्पित्तहृद्दाहयोः मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु मदनफलमज्जरसं भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत् आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण संतर्पणकफजव्याधिहरं मदनफलमज्जचूर्णं वा मधुककाश्मर्यद्राक्षाकषायेण । मदनफलविधानमुक्तम् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc