भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.35

1.35.1

अथातः आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः ॥

1.35.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.35.3

आतुरमुपक्रममाणेन भिषजायुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ॥

1.35.4

तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकर्णं पश्चान्मस्तिष्कं स्रातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्तेनोपक्रमेत् । एभिर्लक्षणैर्विपरीतैरल्पायुः मिश्रैर्मध्यमायुरिति ॥

1.35.5

भवन्ति चात्र ।

1.35.5

गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।

1.35.5

उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ॥

1.35.6

गर्भात्प्रभृत्यरोगो यः शनैः समुपचीयते ।

1.35.6

शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ॥

1.35.7

मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ।

1.35.7

अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ॥

1.35.8

द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ ।

1.35.8

नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ॥

1.35.9

यस्य स्युस्तस्य परममायुर्भवति सप्ततिः ।

1.35.9

जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ॥

1.35.10

ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् ।

1.35.10

तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् ॥

1.35.11

ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः ।

1.35.11

सहतो जल्पतो वापि दन्तमांसं प्रदृश्यते । ^

1.35.11

प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ॥

1.35.12

अथ पुनरायुषो विज्ञानार्थामङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः । तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति । तत्र स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदेशिन्यास्तु मध्यामानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः चतुर्{ओ.पञ्च}अङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः चतुर्दशाङ्गुलायतः पादः चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टाच्च द्वात्रिंशदङ्गुलमेवं पञ्चाशत् जङ्घायामसमावूरू द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागदर्णमूलनयनान्तराणि चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः चतुर्विंशत्यङ्गुलो हस्तः द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिंशत्परिणाहावूरू मणिबन्धकूर्परान्तरं षोडशाङ्गुलं तलं षट्चतुरङ्गुलायामविस्तारं अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा नयनत्रिभागपरिणाहा तारका नवमस्तारकांशो दृष्टिः केशान्तमस्तकान्तरमेकादशाङ्गुलं मस्तकादवटुकेशान्तो दशाङ्गुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलं पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः अष्टादशाङ्गुलविस्तारमुरः तत्प्रमाणा पुरुषस्य कटी सविंशमङ्गुलशतं पुरुषायाम इति ॥

1.35.13

भवन्ति चात्र ।

1.35.13

पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे ।

1.35.13

समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् ॥

1.35.14

देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः ।

1.35.14

युक्तः प्रमाणेनानेन पुमान् वा यदि वाङ्गना ॥

1.35.15

दीर्घमायुरवाप्नोति वित्तं च महदृच्छति ।

1.35.15

मध्यमं मधय्मैरायुर्वित्तं हीनैस्तथावरम् ॥

1.35.16

अथ सारान् वक्ष्यामः स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेषं सत्त्वसारं विद्यात् स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रं च मज्ज्ञा महाशिरःस्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति । एषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरिति ॥

1.35.17

वेशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः ।

1.35.17

परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु ॥

1.35.18

व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च । तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति । तत्र औपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञः प्राक्केवलो यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्रवश्च अन्यलक्षणो यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्याविरोधेनोपक्रमेत ब्लवन्तमुपद्रवं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत ॥

1.35.19

भवति चात्र ।

1.35.19

नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।

1.35.19

अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥

1.35.20

प्रागभिहिता ऋतवः ॥

1.35.21

शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् ।

1.35.21

कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥

1.35.22

अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया ।

1.35.22

क्रिया हीनातिरिक्ता वा साध्येष्वपि न सिध्यति ॥

1.35.23

या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च ।

1.35.23

सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥

1.35.24

प्रागभिहितोऽग्निरन्नस्य पाचकः । स चतुर्विधो भवति दोषानभिपन्न एकः विक्रियामापन्नस्त्रिविधो भवति विषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा चतुर्तः समः सर्वसाम्यादिति । तत्र यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः समैर्दोषैः यः कदाचित् सम्यक् पचति काड्चिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः स एवाभिवर्धमानोऽत्यग्निरित्यभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापाञ्जनयति यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति स मन्दः ॥

1.35.25

विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् ।

1.35.25

करोत्यग्निस्तथा मन्दो विकारान् कफसंभवान् ॥

1.35.26

तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः मन्दे कटुतिक्तकषायैर्वमनैश्च ॥

1.35.27

जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः ।

1.35.27

सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ॥

1.35.28

प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः ।

1.35.28

ध्मायते पाच्यते चापि स्वे स्वे स्थाने व्यवस्थितैः ॥

1.35.29

वयस्तु त्रिविधं बाल्यं मध्यं वृद्धमिति । तत्रोनषोडशवर्षा बालाः । तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा इति । तेषु संवत्सरपराः क्षीरपाः द्विसंवत्सरपराः क्षीरान्नादाह् परतोऽन्नादा इति । षोडशसप्तत्योरन्तरे मध्यं वयः । तस्य विकल्पो वृद्धिर्यौवनं संपूर्णता हानिरिति । तत्र आविंशतेर्वृद्धिः आत्रिंशते यौवनं आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यसंपूर्णता अत ऊर्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति । सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥

1.35.30

तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्ति ऋते च परिहाणेः तत्राद्यापिक्षया प्रतिकुर्वीत ॥

1.35.31

भवन्ति चात्र ।

1.35.31

बाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु ।

1.35.31

भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥

1.35.32

अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् ।

1.35.32

तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ॥

1.35.33

देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः ॥

1.35.34

कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ ।

1.35.34

रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ॥

1.35.35

बलमभिहितगुणं दौर्बल्यं च स्वभावदेषजरादिभिरवेक्षितव्यम् । यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ॥

1.35.36

केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः ।

1.35.36

यस्मात् स्थिरत्वव्यायामैर्बलं वैद्यः प्रतर्कयेत् ॥

1.35.37

सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेषुवविक्लवकरम् ॥

1.35.38

सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमातमना ।

1.35.38

राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ॥

1.35.39

सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ॥

1.35.40

यो रसः कल्पते यस्य सुखायैव निषेवितः ।

1.35.40

व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ॥

1.35.41

प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ॥

1.35.42

देशस्त्वानूपो जाङ्गलः साधारण इति । तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानुपः आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकाप्राय उष्णदारुणवायः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः उभयदेशलक्षणः साधारण इति ॥

1.35.43

भवन्ति चात्र ।

1.35.43

समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः ।

1.35.43

दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ॥

1.35.44

न तथा बलवन्तः स्युर्जलजा व स्थलाहृताः ।

1.35.44

स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ॥

1.35.45

उचिते वर्तमानस्य नास्ति देशकृतं भयम् ।

1.35.45

आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ॥

1.35.46

देशप्रकृतिसात्म्ये तु विपरीतोऽचिरोत्थितः ।

1.35.46

संपत्तौ भिषगादीनां बलसत्त्वायुषां तथा ॥

1.35.47

केवलः समदेहाग्नेः सुखसाध्यतमो गदः ।

1.35.47

अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः ॥

1.35.48

क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् ।

1.35.48

पूर्वस्यां शन्तवेगायां न क्रियासंकरो हितः ॥

1.35.49

गुणालाभेऽपि सपदि यदि सैव क्रिया हिता ।

1.35.49

कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ॥

1.35.50

य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान् ।

1.35.50

स मृत्युपाशान् जगतो गदौघान् छिनत्ति भैषज्यपरश्वधेन ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc