भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.30

1.30.1

अथातः पञ्चेन्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥

1.30.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.30.3

शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।

1.30.3

तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ॥

1.30.4

शृणोति विविधान् शब्दान् यो दिव्यानामभावतः ।

1.30.4

समुद्रपुरमेघानामसंपत्तौ च निःस्वनान् ॥

1.30.5

तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् ।

1.30.5

ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोति च ॥

1.30.6

द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति ।

1.30.6

न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥

1.30.7

यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् ।

1.30.7

संजातशीतपिडको यश्च दाहेन पीड्यते ॥

1.30.8

उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते ।

1.30.8

प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ॥

1.30.9

पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ।

1.30.9

वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ॥

1.30.10

स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः ।

1.30.10

सुगन्धिर्वाति योऽकस्मात्तं ब्रुवन्ति गतायुषम् ॥

1.30.11

विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।

1.30.11

उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ॥

1.30.12

यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः ।

1.30.12

यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ॥

1.30.13

सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् ।

1.30.13

गृह्णीते वान्यथा गन्धं शान्ते दीपे च नीरुजः ॥

1.30.14

यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् ।

1.30.14

द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ॥

1.30.15

विपरीतेन गृह्णाति भावानन्यांश्च यो नरः ।

1.30.15

दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ॥

1.30.16

रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् ।

1.30.16

अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ॥

1.30.17

तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान् ।

1.30.17

विमानयानप्रासादैर्यश्च संकुलमम्बरम् ॥

1.30.18

यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति ।

1.30.18

धूमनीहारवासोभिरावृतामिव मेदिनीम् ॥

1.30.19

प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा ।

1.30.19

भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ॥

1.30.20

न पश्यति सनक्षत्रां यश्चा देवीमरुन्धतीम् ।

1.30.20

ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ॥

1.30.21

ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति ।

1.30.21

पश्यत्येकाङ्गहीनां वा विकृतां वान्यसत्त्वजाम् ॥

1.30.22

श्वकाककङ्कगृधृआणां प्रेतानां यक्षरक्षसाम् ।

1.30.22

पिशाचोरगनागानां भूतानां विकृतामपि ॥

1.30.23

यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते ।

1.30.23

आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमावाप्नुयात् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc