भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.29

1.29.1

अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः ॥

1.29.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.29.3

दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च ।

1.29.3

ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ॥

1.29.4

देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् ।

1.29.4

कथयन्त्यातुरगतं शुभं वा यदि वाशुभम् ॥

1.29.5

पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये ।

1.29.5

त एव विपरीताः स्युर्दूताः कर्मविपत्तये ॥

1.29.6

नपुंसकं स्त्री बहवो नैककार्या असूयकाः ।

1.29.6

गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ॥

1.29.7

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ।

1.29.7

पाशदण्डायुधधराः पाण्डुरेतरवाससः ॥

1.29.8

आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवाससः ।

1.29.8

न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ॥

1.29.9

रूक्षनिष्ठुरवादाश्चाप्यमाङ्गल्याभिधायिनः ।

1.29.9

छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ॥

1.29.10

वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः ।

1.29.10

स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः ॥

1.29.11

कपालोपलभस्मास्थितुषाङ्गारकराश्च ये ।

1.29.11

विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः ॥

1.29.12

तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः ।

1.29.12

फलं पक्वमसारं वा गृहीत्वान्यच्च तद्विधम् ॥

1.29.13

नखैर्नखान्तरं वापि करेण चरणं तथा ।

1.29.13

उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः ॥

1.29.14

वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः ।

1.29.14

याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः ॥

1.29.15

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ।

1.29.15

दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् । ^

1.29.15

ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् ॥

1.29.16

नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाशुचिम् ।

1.29.16

प्रकीर्नाकेशमभ्यक्तं स्विन्नं विक्लवमेव वा ॥

1.29.17

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ।

1.29.17

वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने ॥

1.29.18

मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च ।

1.29.18

आर्द्राश्लेषामघामूलपूर्वासु भरणीषु च ॥

1.29.19

चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च ।

1.29.19

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥

1.29.20

स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः ।

1.29.20

गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ॥

1.29.21

त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः ।

1.29.21

एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ॥

1.29.22

रक्तपित्तातिसारेषु प्रमेहेषु तथैव च ।

1.29.22

प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ॥

1.29.23

विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः ।

1.29.23

शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः ॥

1.29.24

स्वस्याम् जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः ।

1.29.24

गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ॥

1.29.25

स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् ।

1.29.25

अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः ॥

1.29.26

स्वस्थं प्राङ्नुखमासीनं समे देशे शुचौ शुचिम् ।

1.29.26

उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ॥

1.29.27

मांसोदकुम्भातपत्रविप्रवारणगोवृषाः ।

1.29.27

शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ॥

1.29.28

स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता ।

1.29.28

कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ॥

1.29.29

हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः ।

1.29.29

अप्रशान्तोऽनलो वाजी हंसश्चाषः शिखी तथा ॥

1.29.30

ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः ।

1.29.30

सिंहगोवृषनादाश्च ह्रेषितं गजबृंहितम् ॥

1.29.31

शस्तं हंसरुतं न्ण्णां कौशिकं चैव वामतः ।

1.29.31

प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ॥

1.29.32

पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् ।

1.29.32

आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ॥

1.29.33

दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः ।

1.29.33

वामा वा दक्षीणा वापि शकुनाः कर्मसिद्धये ॥

1.29.34

शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके ।

1.29.34

वृक्षेऽथवाश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ॥

1.29.35

चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः ।

1.29.35

पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ॥

1.29.36

पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः ।

1.29.36

दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः । ^

1.29.36

वामं नकुलचाषाणां नोभयं शशसर्पयोः ॥

1.29.37

भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् ।

1.29.37

दर्शनं वा रुतं चापि न गोधाकृकलासयोः ॥

1.29.38

दूतैरनिष्टैस्तुल्यानामश्चस्तं दर्शनं नृणाम् ।

1.29.38

कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ॥

1.29.39

पात्रं नेष्टं तथाङ्गारतैलकर्दमपूरितम् ।

1.29.39

प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ॥

1.29.40

शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः ।

1.29.40

नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ॥

1.29.41

मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः ।

1.29.41

खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ॥

1.29.42

ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः ।

1.29.42

विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ॥

1.29.43

रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते ।

1.29.43

एवं व्याधिविशेषेण निमित्तमुपधारयेत् ॥

1.29.44

तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः ।

1.29.44

छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ॥

1.29.45

प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् ।

1.29.45

दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ॥

1.29.46

प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथातुरे ।

1.29.46

प्रतिद्वारं गृहे वास्य पुनरेतन्न गण्यते ॥

1.29.47

केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः ।

1.29.47

खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ॥

1.29.48

नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः ।

1.29.48

प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ॥

1.29.49

भाण्डानां संकरस्थानां स्थानात् संचरणं तथा ।

1.29.49

निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ॥

1.29.50

वैद्यासनावसादो वा रोगी वा स्यादधोमुखः ।

1.29.50

वैद्यं संभाषमाणोऽङ्गं कुड्यमास्तरणानि वा ॥

1.29.51

प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा ।

1.29.51

हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ॥

1.29.52

यो वैद्यमुन्मुखः पृच्छेदुन्मार्ष्टि स्वाङ्गमातुरः ।

1.29.52

न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ॥

1.29.53

भवने पूज्यते वापि यस्य वैद्यः स सिध्यति ।

1.29.53

शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ॥

1.29.54

आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक् ।

1.29.54

स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ॥

1.29.55

सुहृदो यां श्च पश्यन्ति व्याधितो वा स्वयं तथा ।

1.29.55

स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ॥

1.29.56

वराहैर्महिषैर्वापि यो यायाद्दक्षिणामुखः ।

1.29.56

रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ॥

1.29.57

यं वा कर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् ।

1.29.57

अन्तावसायिभिर्यो वाकृष्यते दक्षिणामुखः ॥

1.29.58

परिष्वजेरन् यं वापि प्रेताः प्रव्रजितास्तथा ।

1.29.58

मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ॥

1.29.59

पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति ।

1.29.59

पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ॥

1.29.60

निरम्बरश्च यो रक्तां धारयेच्छिरसि स्रजम् ।

1.29.60

यस्य वंशो नलो वापि तालो वोरसि जायते ॥

1.29.61

यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः ।

1.29.61

पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसावृते ॥

1.29.62

ह्रियते स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् ।

1.29.62

पराजीयेत बध्येत काकाद्यैर्वाभिभूयते ॥

1.29.63

पतनं तारकादीनां प्रणाशं दीपचक्षुषोः ।

1.29.63

यः पश्येद्देवतानां च (आ.वा) प्रकम्पमवनेस्तथा ॥

1.29.64

यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा ।

1.29.64

शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ॥

1.29.65

पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति ।

1.29.65

कार्पासतैलपिण्याकलोहानि लवणं तिलान् ॥

1.29.66

लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम् ।

1.29.66

स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥

1.29.67

यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा ।

1.29.67

चिन्ताकृतो दिवा दृष्तो भवन्त्यफलदास्तु ते ॥

1.29.68

ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् ।

1.29.68

उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ॥

1.29.69

मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् ।

1.29.69

गुल्मेषु स्थावरोत्पत्तिः कोष्ठे मूर्ध्नि शिरोरुजि ॥

1.29.70

शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः ।

1.29.70

हरिद्रं भोजनं वापि यस्य स्यात् पाण्डुरोगिणः ॥

1.29.71

रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति ।

1.29.71

स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ॥

1.29.72

दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा ।

1.29.72

जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ॥

1.29.73

दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् ।

1.29.73

जपेद्वान्यतमं वेदे ब्रह्मचारी समाहितः ॥

1.29.74

देवतायतने चैव वसेद्रात्रित्रयं तथा ।

1.29.74

विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ॥

1.29.75

अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् ।

1.29.75

देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ॥

1.29.76

समिद्धमग्निं साधूंश्च निर्मलानि जलानि च ।

1.29.76

पश्येत् कल्याणलाभाय व्याधेरपगमाय च ॥

1.29.77

मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च ।

1.29.77

लभन्ते धनलाभाय व्याधेरपगमाय च ॥

1.29.78

महाप्रासादसफलवृक्षवारणपर्वतान् ।

1.29.78

आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ॥

1.29.79

नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् ।

1.29.79

तरेत् कल्याणलाभाय व्याधेरपगमाय च ॥

1.29.80

उरगो वा जलौको वा भ्रमरो वापि यं दशेत् ।

1.29.80

आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ॥

1.29.81

एवंरूपान् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः ।

1.29.81

स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc