भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.31

1.31.1

अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः ॥

1.31.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.31.3

श्यावा लोहितिका नीला पीतिका वापि मानवम् ।

1.31.3

अभिद्रवन्ति यं छायाः स परासुरसंशयम् ॥

1.31.4

हीरपक्रमते यस्य प्रभाधृतिस्मृतिश्रियः ।

1.31.4

अकस्माद्यं भजन्ते वा स परासुरसंशयम् ॥

1.31.5

यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः ।

1.31.5

उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥

1.31.6

आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा ।

1.31.6

खञ्जनप्रतिमा वापि तं गतायुषमादिशेत् ॥

1.31.7

कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै ।

1.31.7

कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ॥

1.31.8

कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका ।

1.31.8

अवस्फूर्जति मग्ना वा न स जीवति मानवः ॥

1.31.9

संक्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने ।

1.31.9

स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ॥

1.31.10

केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ ।

1.31.10

लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ॥

1.31.11

नाहरत्यन्नमास्यस्थं न धारयति यः शिरः ।

1.31.11

एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ॥

1.31.12

बलवान् दुर्बलो वापि संमोहं योऽधिगच्छति ।

1.31.12

उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् ॥

1.31.13

उत्तानः सर्वदा शेते पादौ विकुरुते च यः ।

1.31.13

विप्रसारणशीलो वा न स जीवति मानवः ॥

1.31.14

शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत् ।

1.31.14

काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् ॥

1.31.15

निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा ।

1.31.15

मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ॥

1.31.16

उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः ।

1.31.16

प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् ॥

1.31.17

स्वेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते ।

1.31.17

पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् ॥

1.31.18

वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी ।

1.31.18

रुजान्नविद्वेषकरी स परासुरसंशयम् ॥

1.31.19

अनन्योपद्रवकृतः शोफः पादसमुत्थितः ।

1.31.19

पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् ॥

1.31.20

अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता ।

1.31.20

श्वासिनः कासिनो वापि यस्य तं क्षीणमादिशेत् ॥

1.31.21

स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम् ।

1.31.21

बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः ॥

1.31.22

श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति ।

1.31.22

मुखं च जायते पूति यस्य तं परिवर्जयेत् ॥

1.31.23

वक्त्रमापूर्यतेऽश्रुभिः स्विद्यतश्चरणावुभौ ।

1.31.23

चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ॥

1.31.24

अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा ।

1.31.24

यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् ॥

1.31.25

पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः ।

1.31.25

मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥

1.31.26

यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः ।

1.31.26

येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥

1.31.27

ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः ।

1.31.27

प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम् ॥

1.31.28

क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा ।

1.31.28

न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥

1.31.29

प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम् ।

1.31.29

पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥

1.31.30

विषमेणोपचारेण कर्मभिश्च पुराकृतैः ।

1.31.30

अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ॥

1.31.31

प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च ।

1.31.31

मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥

1.31.32

तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया ।

1.31.32

तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc