सुश्रुतसंहिता · अध्याय 1.3
अथातोऽध्ययनसंप्रदानीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु । तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत् षोड्श निदानानि दश शारीराणि चत्वारिंशच्चिकित्सितानि अष्टौ कल्पाः तदुत्तरं षट्साष्टिः ॥
वेदोत्पत्तिः शिष्यनयस्तथाध्ययनदानिकः ।
प्रभाषणाग्रहरणावृतुचर्याथ यान्त्रिकः ॥
शस्त्रावचाअरणं योग्या विशिखा क्षारकल्पनम् ।
अग्निकर्मजलौकाख्यावध्यायौ रक्तवर्णनम् ॥
दोषधातुमलाद्यानां विज्ञानाध्याय एव च ।
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ॥
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् ।
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ॥
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा ।
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ॥
पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा ।
वारणो युक्तसेनीय आतुरक्रमभूनिकौ ॥
मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः ।
द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः ॥
रसज्ञानं वमनार्थमध्यायो रेचनाय च ।
द्रवद्द्रव्यविधिस्तद्वदन्नपानविधिस्तथा ॥
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः ।
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ॥
वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः ।
कुष्ठमेहोदरा मूढो विद्रधिः परिसर्पणम् ॥
ग्रन्थिवृद्धिक्षुद्रशूकभक्नाश्च मुखरोगिकम् ।
हेतुलक्षणनिर्देशान्निदानानीति षोडश ॥
भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च ।
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ॥
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च ।
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ॥
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा ।
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ॥
द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् ।
महावातिकमर्शांसि साश्मरिश्च भगन्दरः ॥
कुष्ठानां महतां चापि मैहिकं पैडकं तथा ।
मखुमेहचिकित्सा च तथा चोदरिणामपि ॥
मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् ।
ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिकम् ॥
शूकदोषचिकित्सा च तथा च मुखरोगिणाम् ।
शोफस्यानागतानां च निषेधो मिश्रकं तथा ॥
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च ।
मेधायुष्करणं चापि स्वभावव्याधिवारणम् ॥
निवृत्तसंतापकरं कीर्तितं च रसायनम् ।
स्नेहोपयौगिकः स्वेदो वमने च विरेचने ॥
तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः ।
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ॥
निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः ।
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ॥
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च ।
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ॥
अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च ।
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ॥
दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च ।
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ॥
अध्यायानां शतं विंशमेवमेतदुदीरितम् ।
अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ॥
अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् ।
ओपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ॥
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु ।
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ॥
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः ।
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ।
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु ।
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ॥
घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् ।
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ॥
चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते ।
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ॥
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ।
पूतनायास्तथान्धाया मण्डिका शीतपूतना ॥
नैगमेशचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ।
कौमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ॥
ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि ।
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ॥
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः ।
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः प्र्थक् ॥
विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः ।
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ॥
अमानुषनिषेधश्च तथापस्मारिकोऽपरः ।
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ॥
रसभेदाः स्वस्थवृत्तिर्युक्तयस्तान्त्रिकाश्च याः ।
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ॥
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः ।
बह्वर्थसंग्रहाच्छ्रेष्ठमुत्तरं चापि पश्चिमम् ॥
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या ।
भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ॥
वाजीकरं चकित्सासु रसायनविधिस्तथा ।
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ॥
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् ।
विधिनाधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥
एतद्ध्यवश्यमध्येयं अधीत्य च कर्माप्यवश्यमुपासितव्यं उभयज्ञो हि भिषक् राजार्हो भवति ॥
भवन्ति चात्र ।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ।
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ॥
यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः ।
स सत्सु पूजां नाप्नोति वधं चार्हति राजतः ॥
उभावेतावनिपुणावसमर्थौ स्वकर्मणि ।
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ॥
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः ।
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ॥
स्नेहादिष्वनभिज्ञा ये छेद्यादिषु च कर्मसु ।
ते निहन्ति जनं लोभात् कुवैद्या नृपदोषतः ॥
यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने ।
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ॥
अथ वत्स तदेतदध्येयं तथा तथोपधारय मया प्रोच्यमानं अथ शुचये कृतोत्तरासङ्गायाव्याकुलयोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते च पदपादश्लोकाभूयः क्रमेणानुसंधेयाः एवमेकैकशो घटयेदात्मना चानुपठेत् अद्रुतमविलम्बितमविशण्कितमननुनासिकं व्यक्ताक्ष्रमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् । न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ॥
भवतश्चात्र ।
शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः ।
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ॥
वाक्सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे ।
तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0