सुश्रुतसंहिता · अध्याय 1.2
अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचाचारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताक्रमृजुवक्त्राक्षिनासंप्रसन्नचित्तवाक्चेष्टं क्लेशसःअं च भिषक् शिष्यमुपनयेत् अतो विपरीतगुणं नोअपनयेत् ॥
उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य पुष्पैर्लाजभक्तै रत्नैश्च देवताः पूजयित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाग्निमुपसमाधाय खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां ( न्यग्रोधोदुम्बराश्वत्थमधूकानां ) दधिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिना स्रुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महाव्यहृतिभिः ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात् शिष्यमपि कारयेत् ॥
ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वयस्य वैश्यो वैश्यस्यैवेति शूद्रमपि कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ॥
ततोऽग्निं त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् कामक्रोधलोभमोहमानाहण्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणावश्यं भवितव्यं मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यं अतोऽन्यथा ते वर्तमानस्याधर्मो भवति अफला च विद्या न च प्राकाश्यं प्राप्नोति ॥
अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ॥
द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यमेवं साधु भवति व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यं एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ॥
भवतश्चात्र ।
कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाप्येवमहर्द्विसन्ध्यम् ।
अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ॥
श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु ।
नाध्येयमन्येषु च येषु वप्रा नाधीयते नाशुचिना च नित्यम् ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0