भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.28

1.28.1

अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ॥

1.28.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.28.3

फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा ।

1.28.3

ख्यापयन्ति भविष्यत्वं तथा रिष्टानि पञ्चताम् ॥

1.28.4

तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् ।

1.28.4

गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् ॥

1.28.5

ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः ।

1.28.5

रसायनतपोजप्यतत्परैर्वा निवार्यते ॥

1.28.6

नक्षत्रपीडा बहुधा यथा कालं विपच्यते ।

1.28.6

तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ॥

1.28.7

असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः ।

1.28.7

अतोऽरिष्टनि यत्नेन लक्षयेत् कुशलो भिषक् ॥

1.28.8

गन्धवर्णरसादीनां विशेषाणां स्वभावतः ।

1.28.8

वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ॥

1.28.9

कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः ।

1.28.9

लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ॥

1.28.10

लाजातसीतैलसमाः किंचिद्विस्राश्च गन्धतः ।

1.28.10

ज्ञेयाः प्रकृतिगन्धाः स्युः रतोऽन्यद्गन्धवैकृतम् ॥

1.28.11

मध्यागुर्वाज्यसुमनःपद्मचन्दनचम्पकैः ।

1.28.11

सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥

1.28.12

श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः ।

1.28.12

सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ॥

1.28.13

ध्यामकुङ्कुमकङ्कुष्ठसवर्णाः पित्तकोपतः ।

1.28.13

न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ॥

1.28.14

कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः ।

1.28.14

दूयन्ते वापि दह्यन्ते भिषक् तान् परिवर्जयेत् ॥

1.28.15

कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः ।

1.28.15

स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ॥

1.28.16

क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः ।

1.28.16

त्वङ्नांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ॥

1.28.17

ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः ।

1.28.17

दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ॥

1.28.18

दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ।

1.28.18

शक्तिध्वजरथा कुन्तवाजिवारणगोवृषाः ॥

1.28.19

येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा ।

1.28.19

चूर्णावकीर्णा इव ये भान्ति वा न च चूर्णिताः ॥

1.28.20

प्राणमांसक्षयश्वासकासारोचकपीडिताः ।

1.28.20

प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ॥

1.28.21

क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः ।

1.28.21

वर्जयेत्तान् भिषक् प्राज्ञः संरक्षन्नात्मनो यशः ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc