सुश्रुतसंहिता · अध्याय 1.27
अथातः शल्यापनयनीयमध्यायं व्याख्यासयामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
शल्यं द्विविधमवबद्धमनवबद्धं च ॥
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः । तद्यथा स्वभावः पाचनं भेदनं दारणं पीडनं प्रमार्जनं निर्ध्मापनं वमनं विरेचनं प्रक्षालनं प्रतिमर्शः प्रवाहणं आचूषणं अयस्कान्तो हर्षश्चेति ॥
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथा(आ.पा)त्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति । पक्वमभिद्यमानं भेदयेद्दारयेद्वा । भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा । अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् । आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् । अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः । विरेचनैः पक्वाशयगतानि । व्रणदोषाशयगतानि प्रक्षालनैः । वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तं । मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा । अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन । हृद्यवस्थितमनेककारणोत्पन्नं शोकशल्यं हर्षेणेति ॥
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः प्रतिलोमोऽनुलोमश्च ॥
तत्र प्रतिलोममर्वाचीनमानयेत् अनुलोमं पराचीनम् ॥
उत्तुण्डितं छित्वा निर्घातयेच्छेदनीयमुखम् ॥
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावंक्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ॥
हस्तेनापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् ॥
भवति चात्र ।
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् ।
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ॥
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघ्;र्तप्रभृतिभिः संस्वेद्य विदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाचारिकमुपदिशेत् । ( सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत् श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा ।)
हृदयमभितो वर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गं दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् ॥
अस्थिविवरप्रविष्टमस्थिविदष्टं वावगृह्य पादाभ्यां यन्त्रेणापहरेत् अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्धैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात् अथैनं कशया ताडयेद्यथोन्नमयन् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् ॥
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणाम्न्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण ॥
( यन्त्रेण ) विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव ॥
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां तयावगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतामुद्धरेत् ॥
अजातुषं जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके ॥
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत् वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत् मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वान्तः । क्षतकण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्कराविमिश्रम् ॥
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् ॥
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे मुष्टिनाभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत् ॥
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि लालास्रावं फेनागमनं संज्ञानाशं चापादयति तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं दद्याद्रसं च वातघ्नं विदध्यादिति ॥
भवन्ति चात्र ।
शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् ।
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ॥
कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च ।
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ॥
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि ।
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ॥
शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनिर्हृतम् ।
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0