भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.26

1.26.1

अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ॥

1.26.2

यथोवाच भगवान् धन्वन्तिरिः ॥

1.26.3

शल श्वल आशुगमने धतुः तस्य शल्यमिति रूपम् ॥

1.26.4

तद्द्विविधं शारीअरमागन्तुकं च ॥

1.26.5

सर्वशरीराबाधकरं शल्यं तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ॥

1.26.6

तत्र शारीरं रोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ॥

1.26.7

अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशेषतो लोहेष्वेव विशसनार्थोपपन्नत्वाल्लोहस्य लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः । स द्विविधः कर्णी श्लक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याता व्यालमृगपक्षिवक्त्रसदृशाश्च ॥

1.26.8

सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेष ऊर्ध्वमधोऽर्वाचीनस्तिर्यगृजुरिति ॥

1.26.9

तानि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु व्रणवस्तुष्ववतिष्ठन्ते धमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ॥

1.26.10

तत्र शल्यलक्षणमुच्यमानमुपधारय । तत्तु द्विविधं सामान्यं वैशेषिकं च । श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति । सामान्यमेतल्लक्षणमुक्तम् । वैशेषिकं तु त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं सिरागते सिराध्मानम् सिराशूलं सिराशोफश्च स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च स्रोतोगते स्रोतसां स्वकर्मगुणहानि धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च अस्थिगते विविधवेदनाप्रादुर्भावःशोफश्च अस्थिविवरगतेऽस्थिपूर्णतास्थितोदः संहर्षो बलवांश्च सन्धिगतेऽस्थिवच्चेष्टोपरमश्च कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात् मर्मगते मर्मविद्धावच्चेष्टते । सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति ॥

1.26.11

महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः कण्ठस्रोतःसिऋअत्वक्पेश्यस्थिविवरेषु दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ॥

1.26.12

तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् स्त्यानघृतमृच्चन्दनकल्कैर्वा प्रदिग्धायां शल्योष्मणाशु विसरति घृतमुपशुष्यति वा लेपो यत्र तत्र शल्यं विजानीयात् मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्दैरातुरमुपपादयेत् कर्शितस्य तु शिथिलीभूतमनवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात् कोष्ठास्थिसन्धिपेशीविवरेष्ववस्थितमेवमेव परीक्षेत सिराधमनीस्रोतःस्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायाद्यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपाचरेद्यत्र संरम्भो वेदना वाभवति तत्र शल्यं जानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति ॥

1.26.13

सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमारोहणधनुर्व्यायामद्रुतयाननियुद्धाध्वगमनलङ्घनप्रतरणप्लवनव्यायामैर्जृम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं जानीयात् ॥

1.26.14

भवन्ति चात्र ।

1.26.14

यस्मिंस्तोदादयो देशो सुप्तता गुरुतापि च ।

1.26.14

घट्टते बहुशो यत्र स्रूयते तुद्यतेऽपि च ॥

1.26.15

आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति ।

1.26.15

संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ॥

1.26.16

अल्पाबाधमशूनं च नीरुजं निरुपद्रवम् ।

1.26.16

प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् ॥

1.26.17

एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः ।

1.26.17

प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ॥

1.26.18

अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते ।

1.26.18

प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः ॥

1.26.19

वार्क्षवैणवतार्णानि निर्ह्रयन्ते तु नो यदि ।

1.26.19

पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् ॥

1.26.20

कानकं राजतं ताम्रं रैतिकं त्रपुसीसकम् ।

1.26.20

चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ॥

1.26.21

स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः ।

1.26.21

द्रवीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुभिः ॥

1.26.22

विषाणदन्तकेशास्थिवेणुदारूपलानि तु ।

1.26.22

शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ॥

1.26.23

द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु ।

1.26.23

विश्लिष्टं वेत्ति यः शल्यं स राज्ञः कर्तुमर्हति ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc