सुश्रुतसंहिता · अध्याय 1.25
अथातोऽष्टविधशस्त्रकर्मीयम्{ओ.}अध्यायं व्याख्यास्तामः ॥
यथोवाच भगवान् धन्वन्तरिः ।
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः ।
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ॥
शल्यं जतुमणिर्मांससंघातो गलशुण्डिका ।
स्रायुमांससिराकोथो वल्मीकं शतपोनकः ॥
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः ।
भेद्या विद्रधयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ॥
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः ।
प्रमेहपिडकाशोफस्तनरोगावमन्थकाः ॥
कुम्भीकानुशयीनाड्यो वृन्दौ पुष्करिकालजी ।
प्रायशः क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ ॥
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः ।
बस्तिस्तथाश्मरीहेतोर्मेदोजा ये च केचन ॥
लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका ।
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ॥
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा ।
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् ॥
एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ।
आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ॥
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे ।
स्राव्या विद्रधयः पञ्च भवेयुः सर्वजादृते ॥
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः ।
पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् ॥
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितस्तु ये ।
त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका ॥
सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः ।
देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः ॥
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्ररोगाश्च भूयशः ।
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः ॥
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः ।
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः ॥
नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम् ।
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् ॥
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम् ।
रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् ॥
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् ।
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा ॥
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः ।
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः ॥
सीव्येद्गोफणिकां वापि सीव्येद्वा तुन्नसेवनीम् ।
ऋजुग्रन्थिमथो वापि यथायोगमथापि वा ॥
देशेऽल्पमांसे सन्धौ च सूची वृत्ताङ्गुलद्वयम् ।
आयता त्र्यङ्गुला त्र्यस्रा मांसले वापि पूजिता ॥
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि ।
इत्येतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः ॥
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः ।
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् ॥
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् ॥
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् ।
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्नैः समन्ततः ॥
शल्लकीफलचूर्न्णैर्वा क्षौमध्यामेन वा पुनः ।
ततो व्रणं यथायोगं बद्ध्वाचारिकमादिशेत् ॥
एतदष्टविधं कर्म समासेन प्रकीर्तितम् ।
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते ॥
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः ।
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ।
अज्ञानलोभाहितवाक्ययोगभयप्रमोहैरपरैश्च भावैः ।
यदा प्रयुञ्जीत भिषक् कुशस्त्रं तदा स शेषान् कुरुते विकारान् ॥
तं क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम् ।
जिजीविषुर्दूरत एव वैद्यं विवर्जयेदुग्रविषाहितुल्यम् ॥
तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव ।
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कथंचित् ॥
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च ।
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ॥
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव ।
दशार्धसंख्येष्वपि हि क्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ॥
सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः ।
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ॥
कौब्ज्यं शरीराव्यवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च ।
चिराद्द्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ॥
शोफातिवृद्धिस्तुमुला रुजश्च बलक्षयः पर्वसु भेदशोफौ ।
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ॥
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति ।
तृष्णाङ्गसादौ श्वयथुश्च रुक्षः तमस्थिविद्धं मनुजं व्यवस्येत् ॥
यथास्वमेतानि विभावयेयुर्लिङ्गानि मर्मस्वभिताडितेषु ।
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ॥
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन् ।
तमात्मावानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ॥
तिर्यक्प्रणिहिते शस्त्रे दोषाः पुर्वमुदाहृताः ।
तस्मात् परिहरन् दोषान् कुरुयाच्छस्त्रनिपातनम् ॥
मातरं पितरं पुत्रान् बान्धवानपि चातुरः ।
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ॥
विसृजत्यात्मनात्मानं न चैनं परिशङ्कते ।
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ॥
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम् ।
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ॥
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा ।
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0