भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.24

1.24.1

अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः ॥

1.24.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.24.3

द्विविधास्तु व्याधयः शस्त्रसाध्याः स्नेहादिक्रियासाध्याश्च । तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ॥

1.24.4

अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते । प्रगभिहितं तद्दुःखसंयोगा व्याधय इति । तच्च दुःखं त्रिविधं आध्यात्मिकं आधिभौतिकं आधिदैविकमिति । तत्तु सप्तविधे व्याधावुपनिपतति । ते पुनः सप्तविधा व्याधयः तद्यथा आदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ॥

1.24.5

तत्रादिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः तेऽपि द्विविधाः मातृजाः पितृजाश्च । जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते तेऽपि द्विविधा रसकृताः दौहृदापचारकृताश्च । दोषबलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च तेऽपि द्विविधाः आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च । पुनश्च द्विविधाः शारीरा मानसाश्च । त एते आध्यात्मिकाः ॥

1.24.6

संघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् तेऽपि द्विविधाः शस्त्रकृता व्यालकृताश्च । एते आधिभौतिकाः ॥

1.24.7

कालबलप्रवृत्ता ये शीतोष्णवातवर्षाप्रभृतिनिमित्ताः तेऽपि द्विविधाः व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश्च । दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वणकृता उपसर्गजाश्च तेऽपि द्विविधाः विद्युदशनिक्र्ताः पिशाचादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च । स्वभावबलप्रवृत्ताः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः तेऽपि द्विविधाः कालकृता अकालकृताश्च तत्र परिरक्षणकृताः कालकृताः अपरिरक्षणकृता अकालकृताः । एते आधिदैविकाः । अत्र सर्वव्याध्यवरोधः ॥

1.24.8

सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च । यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते । दोषधातुमलसंसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः । दोषदूषितेष्वत्यर्थं धातुषु संज्ञा क्रियते रसजोऽयं शोणितजोऽयं मांसजोऽयं मेदोजोऽयं अस्थिजोऽयं मज्जजोऽयं शुक्रजोऽयम् व्याधिरिति ॥

1.24.9

तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गोपरोधकार्श्यवैरस्याङ्गसादाकालवलिपलितदर्शनप्रभृतयो रसदोषजा विकाराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गेन्द्रलुप्तप्लीहविद्रधिगुल्मवातशोणितार्शोऽर्बुदाङ्गमर्दासृग्दररक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्च अधिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिकालजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः ग्रन्थिवृद्धिगलगण्डार्बुदमेदोजौष्ठप्रकोपमधुमेहातिस्थौल्यातिस्वेदप्रभृतयोऽस्थिदोषजाः तमोदर्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिस्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषजाः त्वग्दोषाः सङ्गोऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रियाणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रियायतनदोषाः इत्येष समास उक्तः विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ॥

1.24.10

भवति चात्र ।

1.24.10

कुपितानां हि दोषाणां शरीरे परिधावताम् ।

1.24.10

यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते ॥

1.24.11

भूयोऽत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः संश्लेषः स्यात्तर्हि नित्यातुराः सर्व एव प्राणिनः स्युः अथाप्यन्यथा वातादीनां ज्वरादीनां चान्यत्र वर्तमानानामन्यत्र लिङ्गं न भवतीति कृत्वा यदुच्यते वातादयो ज्वरादीनां मूलानीति तन्न । अत्रोच्यते दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न नित्यः संबन्धः यथाहि विद्यौद्वाताशनिवर्षाण्याकाशं प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पत्तिरिति तरङ्गबुद्बुदादयश्चोदकविशेषाः एव वातादीनां ज्वरादीनां च नाप्येवम् संश्लेषो न परिच्छेदः शाश्वातिकः अथ च निमित्तत एवोत्पत्तिरिति ॥

1.24.12

भवति चात्र ।

1.24.12

विकारपरिमाणं च संख्या चैषां पृथक् पृथक् ।

1.24.12

विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc