सुश्रुतसंहिता · अध्याय 1.23
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धनन्तरिः ॥
तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां च सुचिकित्स्या व्रणाःएकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः । तत्र वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाधनीयतमाः ॥
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ॥
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ॥
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चिकित्स्याः अधोभागाश्चोर्ध्वभागनिर्वाहिणो रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ॥
कुष्ठिनां विषजुष्टानां शोषिणं मधुमेहिनाम् ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ॥
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठरग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते शर्करा सिकतामेहो वातकुण्डलिकाष्ठीला दन्तशर्करोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ॥
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा ।
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥
यापनीयं विजानीयात् क्रिया धारयते तु यम् ।
क्रियायां तु निवृत्तायां सद्य एव विनश्यति ॥
प्राप्ता क्रिया धारयति याप्यवयाधितमातुरम् ।
प्रपतिष्यदिवागारं विष्कम्भः साधुयोअजितः ॥
अत ऊर्ध्वमसाध्यान् वक्ष्यामः मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुन्नतमृदुमांसप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलस्राविणो वा मध्योन्नताः केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः (आ.क्षीणमांसानां च) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ॥
भवन्ति चात्र ।
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् ।
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसंभवः ॥
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते ।
विकारो योऽनुपर्येति तदसाध्यस्य लक्षणम् ॥
क्रमेणोपचयं प्राप्य धतूननुगतः शनैः ।
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ॥
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च ।
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ॥
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते ।
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ॥
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः ।
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ॥
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ।
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ॥
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् ।
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ॥
दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः ।
हर्षात् क्रोधाद्भयाद्वापि व्रणो रूढोऽपि दीर्यते ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0