सुश्रुतसंहिता · अध्याय 1.14
अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधावीर्यस्य वानेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रस इत्युच्यते तस्य च हृदयं स्थानं स हृदयाच्चतुर्विंश्तिंधमनीरनुप्रविश्योर्ध्वगा दश दश चाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा । तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः । तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस इति । अत्रोच्यते स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ॥
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ॥
भवतश्चात्र ।
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते ।
तद्वर्षाद्द्व्यादशादूर्ध्वं याति पञ्चाशतः क्षयम् ॥
आर्तवं शोणितं त्वाग्नेयं अग्नीषोमीयत्वाद्गर्भस्य ॥
पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ॥
वेस्रता द्रवता रागः स्पन्दनं लघुता तथा ।
भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ॥
रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते ।
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते ॥
तत्रैषां ( सर्व ) धातूनामन्नपानरसः प्रीणयिता ॥
रसजं पुरुषं विद्याद्रसं रक्षेत्प्रयत्नः ।
अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रितः ॥
तत्र रस गतौ धातुः अहरहर्गच्छतीत्यतो रसः ॥
स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते एवं मासेन रसः शुक्रीभवति स्त्रीणां चार्तवम् ॥
भवति चात्र ।
अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये ।
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः ॥
स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् ॥
वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं विरेचयन्ति ॥
यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुमथो नैवा(आ.नैव चा)स्तीति अथवा( च)स्ति सतां भावानामभिव्यक्तिरिति कृ(आ.ज्ञा)त्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव पुष्पे विवृतपत्रकेशरे कालान्तरेणाभिव्यक्तिं गच्छति एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति रोमराज्यादयश्च विशेषा नारीणाम् । ( रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति ॥
स एवान्नरसो वृद्धानां ( जरा)परिपक्वशरीरत्वादप्रीणनो भवति ॥
त एते श्रीरधारणाद्धातव इत्युच्यन्ते ॥
तेषां क्षयवृद्धी शोणितनिमित्ते तस्मात्तदधिकृत्य वक्ष्यामः । तत्र फनिलमरुणं कृष्णं परूषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तदुष्टं गैरिकोदकप्रतीकाशं स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं ( पित्तवद्रक्तेनातिकृष्णं च) द्विदोषलिङ्गं संसृष्टं । ( जीवशोणितमन्यत्र वक्ष्यामः )॥
इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् ॥
विस्राव्याण्यन्यत्र वक्ष्यामः ॥
अथाविस्राव्याः सर्वाङ्गशोफः क्षीणस्य चाम्लभोजननिमित्तः पाण्दुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः ॥
तत्र शस्त्रविस्रावणं द्विविधं प्रच्छानं सिराव्यधनं च ॥
तत्र ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ॥
तत्र दुर्विने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ॥
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम् ।
निद्राभिभूतभीतानां नृणां नासृक् प्रवर्तते ॥
तद्दुष्टं शोणितमनिर्ह्रियमाणं कण्डूशोफरागदाहपाकवेदना जनयेत् ॥
अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्वस्रावितमतिप्रवर्तते तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं पक्षाघातमेकाङ्गविकारं तृष्णादाहौ हिक्कां कासं श्वासं पाण्डुरोगं मरणं चापादयति ॥
भवन्ति चात्र ।
तस्मान्न शिते नात्युष्णे नास्विन्ने नातितापिते ।
यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् ॥
सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते ।
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ॥
लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षयः ।
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ॥
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये ।
रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥
अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवनातैलप्रगाढैर्व्रणमुखमवघर्षयेदेवं सम्यक् प्रवर्तते ॥
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जूनारिमेदमेषशृन्ङ्गधवधन्वन्त्वग्भिर्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा यथोक्तैर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात् शीताच्च्छादनभोजनागारैः शीतैः परिषेकप्रदेहैश्चोपाचरेत् क्षारेनाग्निना वा दहेद्यथोक्तं व्यधनादनन्तरं वा तामेवातिप्रवृत्तां सिरां विध्येत् काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षिरयूषरसैः सुस्निग्धैश्चाश्नीयात् उपद्रवांश्च यथास्वमुपचरेत् ॥
धातुक्षयात् स्रुते रक्ते मन्दः संजायतेऽनलः ।
पवनश्च परं लोपं याति तस्मात् प्रयत्नः ॥
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः ।
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ॥
चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् ।
संधानं स्कन्दनं चैव पाचनं दहनं तथा ॥
व्रणं कषायः संधत्ते रक्तं स्कन्दयते हिमम् ।
तथा संपाचयेद्भस्म दाहः संकोचयेत् सिराः ॥
अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत् ।
संधाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ।
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि ।
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ।
शेषदोषे यतो रक्ते न व्याधिरतिवर्तते ।
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ॥
देहस्य रुधिरं मूलं रुधिरेणैव धार्यते ।
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥
स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले ।
शोफं सतोदं लोष्णेन सर्पिषा परिषेचयेत् ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0