भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.13

1.13.1

अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ॥

1.13.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.13.3

नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः ॥

1.13.4

तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकोलाबुभिरवसेचयेत् ( स्निग्धशीतरूक्षत्वात् ) सर्वाणि सर्वैर्वा ॥

1.13.5

भवन्ति चात्र ।

1.13.5

उष्णं समधुरस्निग्धं गवां शृङ्गं प्रकीर्तितम् ।

1.13.5

तस्माद्वातोपसृष्टे तु हितं तदवसेचने ॥

1.13.6

शीताधिवासा मधुरा जलौका वारिसंभवा ।

1.13.6

तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ॥

1.13.7

अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् ।

1.13.7

तस्माच्च्लेष्मोपसृष्टे तु हितं तदवसेचने ॥

1.13.8

तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन श्र्ङ्गेण शोणितमवसेचयेदाचूषणात् सान्तर्दीपयालाब्वा ॥

1.13.9

जलमासामायुरिति जलायुकाः जलमासामोक इति जलौकसः ॥

1.13.10

ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः ॥

1.13.11

तत्र सविषाः कृष्णा कर्बुरा अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति । तासु अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा रोमशा महापार्श्वाकृष्णमुखी अलगर्दा इन्द्रायुधवदूर्ध्वराजिभिश्चित्रिता इन्द्रायुधा ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यम् । इत्येताः सविषाः सचिकित्सिता व्याख्याताः ॥

1.13.12

अथ निर्विषाः कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृट्ष्हे स्निग्धमुद्गवर्णा कपिला यकृद्वर्णा शीघ्रपायिनी दिर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णानिष्टगन्धा च मूषिका मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्मपत्रवर्णाष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः ॥

1.13.13

तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भ्वन्ति । तत्र सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु च सबिषाः पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलकोथजाता विमलेष्वम्भःसु च निर्विषाः ॥

1.13.14

भवति चात्र ।

1.13.14

क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु ।

1.13.14

न च संकीर्णचारिण्यो न च पङ्केशयाः सुखाः ॥

1.13.15

तासां ग्रहणमार्द्रचर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात् ॥

1.13.16

अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य शय्यार्थं तृणमौदकानि च पत्राणि त्र्यहात्त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात् सप्तरात्राच्च घटमन्यं संक्रामयेत् ॥

1.13.17

भवति चात्र ।

1.13.17

स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः ।

1.13.17

अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ॥

1.13.18

अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् । गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् । श्लक्ष्णशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात् अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वा दद्याच्छस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् ॥

1.13.19

यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति चार्द्रवस्त्रावच्छन्नां धारयेत् सेचयेच्च ॥

1.13.20

दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति शुद्धमाददानामपनयेत् अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ॥

1.13.21

अथ पतिअतां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात् वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति । सम्यग्वान्ता सलिलसरकन्यस्ता भोक्तुकामा सती चरेत् । या सीदती न चेष्टते सा दुर्वान्ता तां पुनः सम्यग्वामयेत् । दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो (आ.रक्तमदो) नाम भवति । अथ सुवान्तां पूर्ववत् सन्निदध्यात् ॥

1.13.22

शोणितस्य च योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गस्तत्पिचुधारणं वा जलौकोव्रणान् मधुनावघट्टयेत् शिताभिरद्भिश्च परिषेचयेद्बध्नीत वा कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादित् ॥

1.13.23

भवति चात्र ।

1.13.23

क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् ।

1.13.23

जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc