भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.15

1.15.1

अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ॥

1.15.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.15.3

दोषधातुमलमूलं हि शरीरं तस्मादेतेषां लक्षणमुच्यमानमुपधारय ॥

1.15.5

रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च मांसं शरीरपुष्टिं मेदसश्च मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च मज्जा प्रीतिं स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च ॥

1.15.6

पुरीषमुपस्तम्भं वाय्वग्निधारणं च बस्तिपूरणविक्लेदकृन्मूत्रं स्वेदः क्लेदत्वक्सौकुमार्यकृत् ॥

1.15.7

रक्तलक्षणमार्तवं गर्भकृच्च गर्भो गर्भलक्षणं स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ॥

1.15.8

तत्र विधिवत्परिरक्षणं कुर्वीत् ॥

1.15.9

अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः तत्र वातक्षये मन्दचेष्टताल्पावाक्त्वमप्रहर्षो मूढसंज्ञता च पित्तक्षये मन्दोष्माग्निता निष्प्रभत्वं(आ.ता) च श्लेष्मक्षये रूक्षतान्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं तृष्णा दौर्बल्यं प्रजागरणं च ॥

1.15.10

तत्र स्वयोनिवर्धनान्येव प्रतीकारः ॥

1.15.11

रसक्षये हृत्पीडाकम्पशून्यातास्तृष्णा च शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च शुक्रक्षये मेढ्रवृषणवेदनाशक्तिर्मैथुने चिराद्वा प्रसेकः प्रदेके चाल्परक्तशुक्रदर्शनम् ॥

1.15.12

तत्रापि स्वयोनिवर्धनद्रव्योपयोगः प्रतीकारः ॥

1.15.13

पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ संचरणं च मूत्रक्षये बस्तितोदोऽल्पमूत्रता च अत्रापि स्वयोनिवर्धनद्रव्याणि प्रतीकारः । स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च तत्राभ्यङ्गः स्वेदोपयोगश्च ॥

1.15.14

आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः । स्तन्यक्षये स्त्नयोर्म्लानता स्तन्यासंभवोऽल्पता वा तत्र श्लेष्मवर्धनद्रव्योपयोगः । गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेध्यान्नोपयोगश्चेति ॥

1.15.15

अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः । वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति । तत्र वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं च पित्तवृद्धौ पीतावभासता संतापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्ध्यस्थिविश्लेषश्च ॥

1.15.16

रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च अस्थ्यध्यस्थीन्यधिदन्तांश्च मज्जा सर्वाङ्गनेत्रगौरवं च शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ॥

1.15.17

पुरीषमाटोपं कुक्षौ शूलं च मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च स्वेदस्त्वचो दौगन्ध्यं कण्डूं च ॥

1.15.18

आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च गर्भो जठराभिवृद्धिं स्वेदं च ॥

1.15.19

तेषांयथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः क्रियाविशेषैः प्रकुर्वीत् ॥

1.15.20

पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् ।

1.15.20

तसमादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥

1.15.21

बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः । तत्र रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् ॥

1.15.22

तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ॥

1.15.23

भवन्ति चात्र ।

1.15.23

ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् ।

1.15.23

विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्त्तमम् ॥

1.15.24

देहः सावयवस्तेन व्याप्तो भवति देहिनाम् ।

1.15.24

तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ॥

1.15.25

अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः ।

1.15.25

ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् ।

1.15.25

तेजः समीरितं तस्माद्विस्रंसयते देहिनः ॥

1.15.28

भवन्ति चात्र ।

1.15.28

त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः ।

1.15.28

विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः ।

1.15.28

अप्राचुर्यं क्रियानां च बलविस्रंसलक्षणम् ॥

1.15.29

गुरुत्वं स्तब्धताण्गेषु ग्लानिर्वर्णस्य भेदनम् ।

1.15.29

तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् ॥

1.15.30

मूर्च्छा मांसक्षायो मोहः प्रलापोऽज्ञानमेव च ।

1.15.30

पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये ॥

1.15.31

तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् इतरं तु मूढसंज्ञं वर्जयेत् ॥

1.15.32

दोषधातुमलक्षीणो बलक्षीणिअपि वा नरः ।

1.15.32

स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ॥

1.15.33

यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः ।

1.15.33

तस्य तस्य स लाभे तु तं तं क्षयमपोहति ॥

1.15.34

यस्य धातुक्षयाद्वायुः संज्ञां कर्म च नाशयेत् ।

1.15.34

प्रक्षिणं च बलं यस्य नासु शक्यश्चिकित्सितुम् ॥

1.15.35

रसनिमित्तमेव स्थौल्यं कार्श्यं च । तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापादयति तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः कफमेदोनिरुद्धमार्गर्त्वाच्चाल्पव्यवायो भवति आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति प्रमेहपीडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतं प्राप्य पञ्चत्वमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसां अतस्तस्योत्पत्तिहेतुं परिहरेत् । उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां द्रव्याणं विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ॥

1.15.36

तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासाक्षुत्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति तस्मादतिकार्श्यं भवति सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यतममासाद्य मरणमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात् अतस्तस्योत्पत्तिहेतुं परिहरेत् । उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासं चौषधीनामुपयोगः क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च दिवास्वप्नब्रह्मचर्याव्यायामबृहणबस्त्युपयोगश्चेति ॥

1.15.37

यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवर्षातपसहो बलवांश्च स सततमनुपालयितव्य इति ॥

1.15.38

भवन्ति चात्र ।

1.15.38

अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ ।

1.15.38

श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ॥

1.15.39

दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा ।

1.15.39

इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ॥

1.15.40

वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च ।

1.15.40

दोषधातुमलानां तु परिमाणं न विद्यते ॥

1.15.41

एषां समत्वं यच्चापि भिषग्भिरवधार्यते ।

1.15.41

न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ॥

1.15.42

दोषादीनां त्वसमतामनुमानेन लक्षयेत् ।

1.15.42

अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक् ॥

1.15.43

स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान् ।

1.15.43

क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् ।

1.15.43

तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ॥

1.15.44

समदोषः समाग्निश्च समधातुमलक्रियः ।

1.15.44

प्रसन्नात्मेन्द्रियमनाः स्वस्था इत्यभिधीयते ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc