भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.12

1.12.1

अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः ॥

1.12.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.12.3

क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगाणामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां सत्साध्यत्वाच्च ॥

1.12.4

अथेमानि दहनोपकरणानि तद्यथा पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश्च । तत्र पिप्पल्यजाशकृद्गोदन्तशरशलाकास्त्वग्गतानां जाम्बवौष्ठेतरलौहा मांसगतानां क्षौद्रगुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ॥

1.12.5

तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ॥

1.12.6

सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः ( कर्म कुर्वीत) अश्मरीभगन्दरार्शोमुखरोगेष्वभुक्तवतः ॥

1.12.7

तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च इह तु सिरास्नायुसन्ध्यस्थिष्वपि व प्रतिषिद्धोऽग्निः ॥

1.12.8

तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च त्वग्दग्धे कपोतवर्णताल्पश्वयथुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे रूक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ॥

1.12.9

तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत् वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृवा वर्त्मरोमकूपान् ( दहेत् ) ॥

1.12.10

त्वङ्नांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिनसुप्रमांसे व्रणे ग्रन्थ्यर्शोऽर्बुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ॥

1.12.11

तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दहनविशेषाः ॥

1.12.12

भवति चात्र ।

1.12.12

रोगस्य संस्थानमवेक्ष्य सम्यङ्गरस्य मर्माणि बलाबलं च ।

1.12.12

व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततो व्यवस्येद्भिषगग्निकर्म ॥

1.12.13

तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ॥

1.12.14

अथेमानग्निना परिहरेत् पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति ॥

1.12.15

अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः । तत्र स्निग्धं रूक्षं वआश्रित्य द्रव्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति ॥

1.12.16

तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् । तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्द्रुदग्धं सम्यग्द्ग्धमनवगाढं तालफलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश्च विवर्णो भवति । तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं(आ.नं)भवति ॥

1.12.17

भवति चात्र ।

1.12.17

अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति ।

1.12.17

ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते ॥

1.12.18

तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा ।

1.12.18

तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते ।

1.12.19

स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्धते ॥

1.12.19

दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते ॥

1.12.20

प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् ।

1.12.20

शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥

1.12.21

प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् ।

1.12.21

तस्मात् सुखयति ह्युष्णं नतु शीतं कथंचन ॥

1.12.22

शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः ।

1.12.22

घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ॥

1.12.23

सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः ।

1.12.23

सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ॥

1.12.24

ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत् ।

1.12.24

पित्तविद्रधिवच्चैनं सन्ततोष्माणमाचरेत् ॥

1.12.25

अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् ।

1.12.25

क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ॥

1.12.26

तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत् ।

1.12.26

व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः ॥

1.12.27

क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत् ।

1.12.27

मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ॥

1.12.28

मञ्जिष्ठां चदनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् ।

1.12.28

सर्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ॥

1.12.29

स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् ।

1.12.29

अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ॥

1.12.30

श्वसिति क्षौति चात्यर्थमत्याधमति कासते ।

1.12.30

चक्षुषोः परिदाहश्च रागश्चैवोपजायते ॥

1.12.31

सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च ।

1.12.31

तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ॥

1.12.32

तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति ।

1.12.32

धूमोपहत इत्येवं शृणु तस्य चिकित्सितम् ॥

1.12.33

सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा ।

1.12.33

मधुराम्लौ रसौ वापि वमनाय प्रदापयेत् ॥

1.12.34

वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति ।

1.12.34

विधिनानेन शाम्यन्ति सदनक्षवथुज्वराः ॥

1.12.35

दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः ।

1.12.35

मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ॥

1.12.36

सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति ।

1.12.36

शिरोविरेचनं चास्मै दद्याद्योगेन शास्त्रवित् ॥

1.12.37

दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः ।

1.12.37

अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ॥

1.12.38

उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा ।

1.12.38

शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ॥

1.12.39

तथातितेजसा दग्धे सिद्धिर्नास्ति कथंचन् ।

1.12.39

इन्द्रवज्राग्निदघेऽपि जीवति प्रतिकारयेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc