सुश्रुतसंहिता · अध्याय 1.11
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः छेद्यभेद्यलेख्यकरणात्त्रिदोषघ्नवाद्विशेषक्रियावचारणाच्च ॥
तत्र क्षरणात् क्षणनाद्वा क्षारः ॥
नानौषधिसमवायात्त्रिदोषघ्नः शुक्लत्वात् सौम्यः तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा स खल्वाग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः प(आ.पा)चनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्ता पुंस्त्वस्य चातिसेवितः ॥
स द्विविधः प्रतिसारणीयः पानीयश्च ॥
तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्टव्रणनाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषूपदिश्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ॥
पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाहशर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयुज्यते ॥
अहितस्तु रक्तपित्त(आ.त्ति)ज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्रममदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ॥
तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत् तस्य विस्तरोऽन्यत्र ॥
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा स्वण्डशः प्रकल्प्यावपाट्य निर्वाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य निलनालैरादीपयेत् । अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च । अथानेनैव विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकारग्वधतिल्वकार्कस्नुह्यपामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् । ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य महति कटाहे शनैर्दर्व्यावघट्टयन् विपचेत् । स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नाविधिश्रयेत् । तत एव चक्षारोदकात् कुडवमध्यर्धं वापनयेत् । ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीरग्निवर्णाः कृत्वायसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसंमितं शङ्खानाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्र्मत्तश्चैनमवघट्टयन् विपचेत् । स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत । अथैनमागतपाकमवतार्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ॥
एष एवाप्रतीवापः पक्वः संव्यूहिमो सृदुः ॥
प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः । स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः ॥
तेषां यथाव्याधिबलमुपयोगः ॥
क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् ॥
भवतश्चात्र ।
नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः ।
अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः ॥
अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः ।
सान्द्रतापक्वता हीनद्रव्यता दोष उच्यते ॥
तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽसंबाधेऽग्रोपहरणीयोक्तेन विधानेनोपसंभृतसंभारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा शलाकया क्षारं प्रतिसारयेत् दत्त्वा वाक्शतमात्रमुपेक्षेत ॥
तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् ।
तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः ॥
अथ चेत् स्थिरमूलत्वात् क्षारदग्धं च शीर्यते ।
इदमालेपनं तत्र समग्रमवचारयेत् ॥
अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च ।
प्रपेष्य समभागानि तेनैनमनुलेपयेत् ॥
तिलकल्कः समधुको घृताक्तो व्रणरोपणः ।
रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः ॥
आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति ।
एवं चेन्मन्यसे वत्स प्रोच्यमानं निबोध मे ॥
कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा ।
अम्लेन सह संयुक्तः सतीक्ष्णलवणो रसः ॥
माधुयं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति ।
माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः ॥
तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च ॥ हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च ॥ अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा ॥
क्षारदग्धव्रणं तु यथादोषं यथादोषं यथाव्याधि चोपक्रमेत् ॥
अथ नैते क्षारकृत्याः तद्यथा दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः ॥
तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तःशेफःस्रोतःस्वल्पमांसेषु च प्रदेशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् ॥
तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति ॥
भवति चात्र ।
विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः ।
स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0