सुश्रुतसंहिता · अध्याय 1.10
अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता राजानुज्ञातेन नीचनखरोम्णा षुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन निशिखानुप्रवेष्टव्या ॥
ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य उपविश्य आतुरमभिपश्येत् स्पृशेत् पृच्छेच्च त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो वेदितव्या इत्येके तत्तु न सम्यक् षड्विधो हि रोगाणां विज्ञानोपायः तद्यथा पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ॥
तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावनिज्ञानीयादिषु वक्ष्यन्ते तत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति इत्येवमादयः स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयः स्पर्शविशेषा ज्वरशोफादेषु चक्षुरिन्द्रियविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्णविकारादयः रसनेन्द्रियविज्ञेयाः प्रमेहादिषु रसविशेषाः घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः प्रश्नेन च विजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्त्यप्रवृत्ती कालप्रकर्षादींश्च विशेषान् । आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ॥
भवति चात्र ।
मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च ।
तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥
यापयेत् असाध्यान्नोपक्रमेत् परिसंवत्सरोत्थितांश्च विकारान् प्रायशो वर्जयेत् ॥
तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति । तद्यथा श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवककितवद्रुबलवैद्यविदग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानां च एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ॥
भवति चात्र ।
स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् ।
दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0