सूर्य सिद्धान्त · अध्याय 9
अथोदयस्तमययोह् परिज्ञानं प्रकीर्त्यते।
दिवाकरकराक्रान्तमूर्तिनाम् अप्लतेजसाम्॥
सूर्याद् अभ्यधिकाह् पश्चाद् अस्तं जीवकुजार्जजाह्।
ऊनाह् प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा॥
ऊना विवस्वतह् प्राच्याम् अस्तं चन्द्रज्ञभार्गवाह्।
व्रजन्त्य् अभ्यधिकाह् पस्चाद् उदयं शीघ्रयायिनह्॥
सूर्यास्तकालिकौ पश्चात् प्राच्याम् उदयकालिकौ।
दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु॥
ततो लग्नान्तरप्राणाः कालांशाह् षष्टिभाजिताह्।
प्रतीच्यां षड्भयुतयोस् तद्वल् लग्नान्तरासवह्॥
एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च।
अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास् ततह्॥
पश्चाद् अस्तमयो +अष्टाभिर् उदयह् प्राङ्महत्तया।
प्राग् अस्तम् उदयह् पश्चाद् अल्पत्वाद् दशभिर् भृगोह्॥
एवं बुधो द्वादशभिश् चतुर्दशभिर् अंशकैह्।
वक्री शीघ्रगतिश् चार्कात् करोत्य् अस्त्मयोदयौ॥
एभ्यो +अधिकैह् कालभागैर् दृश्या न्यूनैर् अदर्शनाह्।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयह्॥
तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताह्।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणह्॥
तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते।
स्यातां कालगती ताभ्यां दिनादि गतगम्ययोह्॥
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाह् पुनर्वसुह्।
अभिजिद् ब्रह्महृदयं त्रयोदशभिर् अंशकैह्॥
हस्तश्रवणफाल्गुन्यह् श्रविष्टा रोहिणीमघाह्।
चतुर्दशांशकैर् दृश्या विशाखाश्विनिदैवतम्॥
कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षम् एव च।
दृश्यन्ते पञ्चदशभिर् आषाढाद् द्वितयं तथा॥
भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिह्सप्तकांशकैह्।
शेषाणि सप्तदशभिर् दृश्यादृश्यानि भानि तु॥
अष्टादशशताभ्यस्ता दृश्यांशाह् स्वोदयासुभिह्।
विभज्य लब्धाह् क्षेत्रांशास् तैर् दृश्यादृश्यताथवा॥
प्राग् एषाम् उदयह् पश्चाद् अस्तो दृक्कर्म पूर्ववत्।
गतैष्यदिवसप्राप्तिर् भानुभुक्त्या सदैव हि॥
अभिजिद् ब्रह्महृदयं स्वातीवैष्णववासवाह्।
अहिर्बुध्न्यम् उदक्ष्थत्वान् न लुप्यन्ते +अर्करश्मिभिह्॥
[चन्द्रशृङ्गोन्न]
मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0