सूर्य सिद्धान्त · अध्याय 8
प्रोच्यन्ते लिप्तिका भानां स्वभोगो +अथ दशाहतह्।
भवन्त्य् अतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाह्॥
अष्टार्णवाह् शून्यकृताह् पञ्चषष्टिर् नगेषवह्।
अष्टार्था अब्धयो +अष्टागा अङ्गागा मनवस् तथा॥
कृतेषवो युगरसाह् शून्यवाणा वियद्रसाह्।
खवेदाह् सागरनगा गजागाह् सागरर्तवह्॥
मनवो +अथ रसा वेदा वैश्वम् आप्यार्धभोगगम्।
आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिह्।
त्रिचतुह् पादयोह् सन्धौ श्रविष्ठा श्रवणस्य तु।
स्वभोगतो वियन् नागाह् षट्कृतिर् यमलाश्विनह्॥
रन्ध्राद्रयह् क्रमाद् एषां विक्षेपाह् स्वाद् अपक्रमात्।
दिङ्मासविषयाह् सौम्ये याम्ये पञ्च दिशो नव॥
सौम्ये रसाह् खं याम्ये +अगाह् सौम्ये खार्कास् त्रयोदश।
दक्षिणे रुद्रयमलाह् सप्तत्रिंशद् अथोत्तरे॥
याम्य +अध्यर्धत्रिककृता नव सार्धशरेषवह्।
उत्तरस्यां तथा षष्टिस् त्रिंशत् षट्त्रिंशद् एव हि॥
दक्षिणे त्व् अर्धभागस् तु चतुर्विंशतिर् उत्तरे।
भागाह् षड्विंशतिह् खं च दास्रादीनां यथाक्रमम्॥
अशीतिभागैर् याम्यायाम् अगस्त्यो मिथुनान्तगह्।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितह्॥
विक्षेपो दक्षिणे भागैह् खार्णवैह् स्वाद् अपक्रमात्।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ॥
अष्टाभिस् त्रिंशता चैव विक्षिप्ताव् उत्तरेण तौ।
गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥
वृषे सप्तदशे भागे यस्य याम्यो +अंशकद्वयात्।
विक्षेपो +अभ्यधिको भिन्द्याद् रोहिण्याह् शकतं तु सह्॥
ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत्।
ग्रहमेलकवच् छेषं ग्रहभुक्त्या दिनानि च॥
एष्यो हीने गृहे योगो ध्रुवकाद् अधिके ततह्।
विपर्ययाद् वक्रगते ग्रहे ज्ञेयह् समागमह्॥
फाल्गुन्योर् भाद्रपदयोस् तथैवाषाढयोर् द्वयोह्।
विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता॥
पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता।
हस्तस्य योगतारा सा श्रविष्ठायाश् च पश्चिमा॥
ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा।
भरण्याग्नेयपित्र्याणां रेवत्याश् चैव दक्षिणा॥
रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि।
यथा प्रत्यवशेषाणां स्थूला स्याद् योगतारका॥
पूर्वस्यां ब्रह्महृदयाद् अंशकैह् पञ्चभिह् स्थितह्।
प्रजापतिर् वृषान्ते +असौ सौम्ये +अष्टत्रिंशदंशकैह्॥
अपांवत्सस् तु चित्राया उत्तरे +अंशैस् तु पञ्चभिह्।
बृहत् किञ्चिद् अतो भागैर् आपह् षड्भिस् तथोत्तरे॥
[उदयास्त]
मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0