भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 7

7.01

ताराग्रहाणाम् अन्योन्यं स्यातां युद्धसमागमौ।
समागमह् शशाङ्केन सूर्येणास्तमनं सह॥

7.02

शीघ्रे मन्दाधिके +अतीतह् संयोगो भवितान्यथा।
द्वयोह् प्राग्यायिनोर् एवं वक्रिणोस् तु विपर्ययात्॥

7.03

प्राग्यायिन्य् अधिके +अतीतो वक्रिण्य् एष्यह् समागमह्।
ग्रहान्तरकलाह् स्वस्वभुक्तिलिप्ताह् समाहताह्॥

7.04

भुक्त्यन्तरेण विभजेद् अनुलोमविलोमयोह्।
द्वयोर् वक्रिण्य् अथैकस्मिन् भुक्तियोगेन भाजयेत्॥

7.05

लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति।
विपर्ययाद् वक्रगत्योर् एकस्मिंस् तु धनव्ययौ॥

7.06

समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ।
विवरं तद्वद् उद्धृत्य दिनादिफलम् इष्यते॥

7.07

कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाह्।
नतोन्नतं साधयित्वा स्वकाल् लग्नवशात् तयोह्॥

7.08

विषुवच्छाययाम्यस् तद्विक्षेपाद् द्वादशोद्धृतात्।
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥

7.09

लब्धं प्राच्याम् ऋणं सौम्याद् विक्षेपात् पश्चिमे धनम्।
दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमह्॥

7.10

सत्रिभग्रहजक्रान्तिभागघ्नाह् क्षेपलिप्तिकाह्।
विकलाह् स्वम् ऋणं क्रान्तिक्षेपयोर् भिन्नतुल्ययोह्॥

7.11

नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने।
शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाव् इदं स्मृतम्॥

7.12

तात्कालिकौ पुनह् कार्यौ विक्षेपौ च तयोस् ततह्।
दिक्तुल्ये त्व् अन्तरं भेदे योगह् शिष्टं ग्रहान्तरम्॥

7.13

कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताह्।
विष्कम्भाश् चन्द्रकक्षायां भृगोह् षष्टिर् उदाहृता॥

7.14

त्रिचतुह् कर्णयुत्याप्तास् ते द्विघ्नास् त्रिज्यया हताह्।
स्फुटाह् स्वकर्णास् तिथ्याप्ता भवेयुर् मानलिप्तिकाह्॥

7.15

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत्।
ग्रहह् स्वदर्पणान्तह्स्थह् शङ्क्वग्रे सम्प्रदिश्यते॥

7.16

पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग् भ्रमसंस्थितौ।
ग्रहान्त्रेण विक्षिप्ताव् अधो हस्तनिखातगौ॥

7.17

छायाकर्णौ ततो दद्याच् छायाग्राच् छङ्कुमूर्धगौ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत्॥

7.18

स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यताम् इतौ।
उल्लेखं तारकास्पर्शाद् भेदे भेदह् प्रकीर्त्यते॥

7.19

युद्धम् अंशुविमर्दाख्यम् अंशुयोगे परस्परम्।
अंशाद् ऊने +अपसव्याख्यं युद्धम् एको +अत्र चेद् अणुह्॥

7.20

समागमो +अंशाद् अधिके भवतश् चेद् वलान्वितौ।
अपसव्ये जितो युद्धे पिहितो +अणुर् अदीप्तितान्॥

7.21

रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितह्।
उदक्ष्थो दीप्तिमान् स्थूलो जयी याम्ये +अपि यो बली॥

7.22

आसन्नाव् अप्य् उभौ दीप्तौ भवतश् चेत् समागमह्।
स्वल्पौ द्वाव् अपि विध्वस्तौ भवेतां कूटविग्रहौ॥

7.23

उदक्ष्थो दक्षिणस्थो वा भार्गवह् प्रायशो जयी।
शशाङ्केनैवम् एतेषां कुर्यात् संयोगसाधनम्॥

7.24

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता।
स्वमार्गगाह् प्रयान्त्य् एते दूरम् अन्योन्यम् आश्रिताह्॥
[नक्षत्रग्रहयुति]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc