सूर्य सिद्धान्त · अध्याय 6
न छेद्यकम् ऋते यस्माद् भेदा ग्रहणयोह् स्फुटाह्।
ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानम् उत्तमम्॥
सुसाधितायाम् अवनौ बिन्दुं कृत्वा ततो लिखेत्।
सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्॥
ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम्।
मण्डलं तत् समासाख्यं ग्राह्यार्धेन तृतीयकम्॥
याम्योत्तराप्राच्यपरासाधनं पूर्ववद् दिशाम्।
प्राग् इन्दोर् ग्रहणं पश्चान् मोक्षो +अर्कस्य विपर्ययात्॥
यथादिशं प्राग्रहणं वलनं हिमदीधितेह्।
मौक्षिकं तु विपर्यस्तं विपरीतम् इदं रवेह्॥
वलनाग्रान् नयेन् मध्यं सूत्रं यद्य् अत्र संस्पृशेत्।
तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ॥
विक्षेपाग्रात् पुनह् सूत्रं मध्यबिन्दुं प्रवेशयेत्।
तद्ग्राह्यबिन्दुसंस्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत्॥
नित्यशो +अर्कस्य विक्षेपाह् परिलेखे यथादिशम्।
विपरीताह् शशाङ्कस्य तद्वशाद् अथ मध्यमम्॥
वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि।
भेदे पश्चान् मुखं देयम् इन्दोर् भानोर् विपर्ययात्॥
वलनाग्रात् पुनह् सूत्रं मध्यबिन्दुं प्रवेशयेत्।
मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत्॥
विक्षेपाग्राल् लिखेद् वृत्तं ग्राहकार्धेन तेन यत्।
ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत्॥
छेद्यकं लिखता भूमौ फलके वा विपश्चिता।
विपर्ययो दिशां कार्यह् पूर्वापरकपालयोह्॥
स्वच्छत्वाद् द्वादशांशो +अपि ग्रस्तश् चन्द्रस्य दृश्यते।
लिप्तात्रयम् अपि ग्रस्तं तीक्ष्णत्वान् न विवस्वतह्॥
स्वसंज्ञितास् त्रयह् कार्या विक्षेपाग्रेषु बिन्दवह्।
तत्र प्राङ्मध्ययोर् मध्ये तथा मौक्षिकमध्ययोह्॥
लिखेन् मत्स्यौ तयोर् मध्यान् मुखपुच्छविनिह्सृतम्।
प्रसार्य सूत्रद्वितयं तयोर् यत्र युतिर् भवेत्॥
तत्र सूत्रेण विलिखेच् चापं बिन्दुत्रयस्पृशा।
स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति॥
ग्राह्यग्राहकयोगार्धात् प्रोज्झ्येष्टग्रासम् आगतम्।
अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतह्॥
तयोर् मार्गोन्मुखीं दद्याद् ग्रासतह् प्राग्ग्रहाश्रिताम्।
विमुञ्चतो मोक्षदिशि ग्राहकाध्वानम् एव सा॥
स्पृशेद् यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत्।
तेन ग्राह्यं यदाक्रान्तं तत् तमोग्रस्तम् आदिशेत्॥
मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम्।
निमीलनाख्यां दद्यात् सा तन्मार्गे यत्र संस्पृशेत्॥
ततो ग्राहकखण्डेन प्राग्वन् मण्डलम् आलिखेत्।
तद्ग्राह्यमण्डलयुतिर् यत्र तत्र निमीलनम्॥
एवम् उन्मीलने मोक्षदिङ्मुखीं सम्प्रसारयेत्।
विलिखेन् मण्डलं प्राग्वद् उन्मीलनम् अथोक्तवत्॥
अर्धाद् ऊने सधूंरं स्यात् कृष्णम् अर्धाधिकं भवेत्।
विमुञ्चतह् कृष्णतांरं कपिलं सकलग्रहे॥
रहस्यम् एतद् देवानां न देयं यस्य कस्यचित्।
सुपरीक्षितशिष्याय देयं वत्सरवासिने॥
[ग्रहयुति]
मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0