भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 4

4.01

सार्धानि षट्सहस्राणि योजनानि विवस्वतह्।
विष्कम्भो मण्डलस्येन्दोह् सहाशीत्या चतुश्शतम्॥

4.02

स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ।
रवेह् स्वभगणाभ्यस्तह् शशाङ्कभगणोद्धृतह्॥

4.03

शशाङ्ककक्षागुणितो भाजितो वा +अर्ककक्षया।
विष्कम्भश् चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका॥

4.04

स्फुटेन्दुभुक्तिर् भूव्यासगुणिता मध्ययोद्धृता।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥

4.05

मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्।
विशोध्य लब्धं सूच्यां तु तमो लिप्तास् तु पूर्ववत्॥

4.06

भानोर् भार्धे महीच्छाया तत्तुल्ये +अर्कसमे +अपि।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके॥

4.07

तुल्यौ राश्यादिभिह् स्याताम् अमावास्यान्तकालिकौ।
सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ॥

4.08

गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ।
समलिप्तौ भवेतां तौ पातस् तात्कालिको +अन्यथा॥

4.09

छादको भास्करस्येन्दुर् अधह्स्थो घनवद् भवेत्।
भूच्छायां प्राङ्मुखश् चन्द्रो विशत्य् अस्य भवेद् असौ॥

4.10

तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोह्।
योगार्धात् प्रोज्झ्य यच्छेषं तावच् छन्नं तद् उच्यते॥

4.11

यद् ग्राह्यम् अधिके तस्मिन् सकलं न्यूनम् अन्यथा।
योगार्धाद् अधिके न स्याद् विक्षेपे ग्राससम्भवह्॥

4.12

ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक्।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्याम् उभे पदे॥

4.13

षष्ठ्या संगुण्य सूर्येन्द्वोर् भुक्त्यन्तरविभाजिते।
स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोह्॥

4.14

स्थित्यर्धनाडिकाभ्यस्ता गतयह् षष्ठिभाजिताह्।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनह् पुनह्॥

4.15

तद्विक्षेपैह् स्थितिदलं विमर्दार्धे तथा +असकृत्।
संसाध्यम् अन्यथा पाते तल्लिप्तादिफलं स्वकम्॥

4.16

स्फुटतिथ्यवसाने तु मध्यग्रहणम् आदिशेत्।
स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस् तु संयुते॥

4.17

तद्वद् एव विमर्दार्धनाडिकाहीनसंयुते।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे॥

4.18

इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोह्।
भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताह् कोटिलिप्तिकाह्॥

4.19

भानोर् ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाह्।
स्फुटस्थित्यर्धसंभक्ताह् स्फुटाह् कोटिकलाह् स्मृता॥

4.20

क्षेपो भुजस् तयोर् वर्गयुतेर् मूलं श्रवस् तु तत्।
मानयोगार्धतह् प्रोज्झ्य ग्रासस् तात्कालिको भवेत्॥

4.21

मध्यग्रहणतश् चोर्ध्वम् इष्टनाडीर् विशोधयेत्।
स्थित्यर्धान् मौक्षिकाच् छेषं प्राग्वच् च्छेषं तु मौक्षिके॥

4.22

ग्राह्यग्राहकयोगार्धाच् छोध्याह् स्वच्छन्नलिप्तिकाह्।
ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥

4.23

कोटिलिप्ता रवेह् स्पष्टस्थित्यर्धेनाहता हृताह्।
मध्येन लिप्तास् तन्नाड्यह् स्थितिवद् ग्रासनाडिकाह्॥

4.24

नतज्या +अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्।
वलनांशा सौम्ययाम्याह् पूर्वापरकपालयोह्॥

4.25

राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर् दिक्षमैर् युताह्।
भेदे +अन्तराज् ज्या वलना सप्तत्यङ्गुलभाजिता॥

4.26

सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु।
छिन्द्याद् विक्षेपमानानि तान्य् एषाम् अङ्गुलानि तु॥
[सूर्यग्रहण]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc