भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 3

3.34

युग्मान्ते विषमान्ते तु नखलिप्तोनितास् तयोह्॥

3.01

शिलातले +अम्बुसंशुद्धे वज्रलेपे +अपि वा समे।
तत्र शङ्क्वङ्गुलैर् इष्टैह् समं मण्डलम् आलिखेत्॥

3.02

तन्मध्ये स्थापयेच् छङ्कुं कल्पनाद्वादशाङ्गुलम्।
तच्छायाग्रं स्पृशेद् यत्र वृत्ते पूर्वापरार्धयोह्॥

3.03

तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥

3.04

याम्योत्तरदिशोर् मध्ये तिमिना पूर्वपश्चिमा।
दिङ्मध्यमत्स्यैह् संसाध्या विदिशस् तद्वद् एव हि॥

3.05

चतुरस्रं बहिह् कुर्यात् सूत्रैर् मध्याद् विनिर्गतैह्।
भुजसूत्राङ्गुलैस् तत्र दत्तैर् इष्टप्रभा स्मृता॥

3.06

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले।
उनण्डले च विषुवन्मण्डले परिकीर्त्यते॥

3.07

रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा।
इष्टच्छायाविषुवतोर् मध्यम् अग्राभिधीयते॥

3.08

शङ्कुच्छायाकृतियुतेर् मूलं कर्णो +अस्य वर्गतह्।
प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर् विपर्ययात्॥

3.09

त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बते।
तद्गुणाद् भूदिनैर् भक्ताद् द्युगणाद् यद् अवाप्यते॥

3.10

तद्दोस् त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाह्।
तत्संस्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम्॥

3.11

स्फुटं दृक्तुल्यतां गच्छेद् अयने विषुवद्वये।
प्राक् चक्रं चलितं हीने छायार्कात् करणागते॥

3.12

अन्तरांशैर् अथावृत्य पश्चाच् छेषैस् तथाधिके।
एवं विषुवती छाया स्वदेशे या दिनार्धजा॥

3.13

दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥
शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते।

3.14

लम्बाक्षज्ये तयोश् चापे लम्बाक्षौ दक्षिणौ सदा।
मध्यच्छाया भुजस् तेन गुणिता त्रिभमौर्विका॥

3.15

स्वकर्णाप्ता धनुर्लिप्ता नतास् ता दक्षिणे भुजे।
उत्तराश् चोत्तरे याम्यास् ताह् सूर्यक्रान्तिलिप्तिकाह्॥

3.16

दिग्भेदे मिश्रिताह् साम्ये विश्लिष्टाश् चाक्षलिप्तिकाह्।
ताभ्यो +अक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेह् पदम्॥

3.17

लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया।
स्वाक्षार्कनतभागानां दिक्षाम्ये +अन्तरम् अन्यथा॥

3.18

दिग्भेदे +अपक्रमह् शेषस् तस्य ज्या त्रिज्यया हता।
परमापक्रमज्याप्ता चापं मेषादिगो रविह्॥

3.19

कर्क्यादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात्।
मृगादौ प्रोज्झ्य भगणान् मध्याह्ने +अर्कह् स्फुटो भवेत्॥

3.20

तन्मान्दम् असकृद् वामं फलं मध्यो दिवाकरह्।
स्वाक्षार्कापक्रमयुतिर् दिक्षाम्ये +अन्तरम् अन्यथा॥

3.21

शेषं नतांशाह् सूर्यस्य तद्बाहुज्या च कोटिज्या।
शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥

3.22

कोटिज्यया विभज्याप्ते छायाकर्णाव् अहर्दले।
क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया॥

3.23

अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका।
विषुवद्भायुतार्काग्रा याम्ये स्याद् उत्तरो भुजह्॥

3.24

विषुवत्याम् विशोध्योदग्गोले स्याद् बाहुर् उत्तरह्।
विपर्ययाद् भुजो याम्यो भवेत् प्राच्यपरान्तरे॥

3.25

माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता।
लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे॥

3.26

क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ।
सौम्याक्षोना यदा कान्तिह् स्यात् तदा द्युदलश्रवह्॥

3.27

विषुवच्छाययाभ्यस्तह् कर्णो मध्याग्रयोद्धृतह्।
स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका॥

3.28

स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका।
त्रिज्यावर्गार्धतो +अग्रज्यावर्गोनाद् द्वादशाहतात्॥

3.29

पुनर् द्वादशनिघ्नाच् च लभ्यते यत् फलं बुधैह्।
शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात्॥

3.30

तदेव करणी नाम तां पृथक् स्थापयेद् बुधह्।
अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा॥

3.31

भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्।
फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोह्॥

3.32

याम्ययोर् विदिशोह् शङ्कुर् एवं याम्योत्तरे रवौ।
परिभ्रमति शङ्कोस् तु शङ्कुर् उत्तरयोस् तु सह्॥

3.33

तत्त्रिज्यावर्गविश्लेषान् मूलं दृग्ज्याभिधीयते।
स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते॥

3.34

छायाकर्णौ तु कोणेषु यथास्वं देशकालयोह्।
त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता॥

3.35

अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा।
त्रिज्याभक्ता भवेच् छेदो लम्बज्याघ्नो +अथ भाजितह्॥

3.36

त्रिभज्यया भवेच् छङ्कुस् तद्वर्गं परिशोधयेत्।
त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्॥

3.37

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता।
दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच् च यत् पदम्।

3.38

शङ्कुह् स त्रिभजीवाघ्नह् स्वलम्बज्याविभाजितह्।
छेदह् स त्रिज्ययाभ्यस्तह् स्वाहोरात्रार्धभाजितह्॥

3.39

उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्।
उत्क्रमज्याभिर् एवं स्युह् प्राक्पश्चार्धनतासवह्॥

3.40

इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता।
क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥

3.41

तच्चापं भादिकं क्षेत्रं पदैस् तत्र भवो रविह्।
इष्टे +अह्नि मध्ये प्राक्पश्चाद् धृते बाहुत्रयान्तरे॥

3.42

मत्स्यद्वयान्तरयुतेस् त्रिस्पृक्षूत्रेण भाभ्रमह्।
त्रिभद्युकर्णार्धगुणाह् स्वाहोरात्रार्धभाजिताह्॥

3.43

क्रमाद् एकद्वित्रिभज्यास् तच्चापानि पृथक् पृथक्।
स्वाधो +अधह् परिशोध्याथ मेषाल् लङ्कोदयासवह्॥

3.44

खागाष्टयो +अर्थगो +अगैकाह् शरत्र्यङ्कहिमांशवह्।
स्वदेशचरखण्डोना भवन्तीष्टोदयासवह्॥

3.45

व्यस्ता व्यस्तैर् युताह् स्वैह् स्वैह् कर्कटाद्यास् ततस् त्रयह्।
उत्क्रमेण षडेवैते भवन्तीष्टास् तुलादयह्॥

3.46

गतभोग्यासवह् कार्या भास्कराद् इष्टकालिकात्।
स्वोदयासुहता भुक्तभोग्या भक्ताह् खवह्निभिह्॥

3.47

अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत्।
तद्वत् तदेष्यलग्नासून् एवं यातात् तथोत्क्रमात्॥

3.48

शेषं चेत् त्रिंशताभ्यस्तम् अशुद्धेन विभाजितम्।
भागैर् युक्तं च हीनं च तल्लग्नं क्षितिजे तदा॥ (च् भागहीनं च युक्तं च)

3.49

प्राक्पश्चान् नतनाडीभिस् तस्माल् लङ्कोदयासुभिह्।
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत्॥

3.50

भोग्यासून् ऊनकस्याथ भुक्तासून् अधिकस्य च।
सम्पीण्ड्यान्तरलग्नासून् एवं स्यात् कालसाधनम्॥

3.51

सूर्याद् ऊने निशाशेषे लग्ने +अर्काद् अधिके दिवा।
भचक्रार्धयुताद् भानोर् अधिक्के +अस्तमयात् परम्॥
[चन्द्रग्रहण]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc