भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 2

2.01

अदृश्यरूपाह् कालस्य मूर्तयो भगणाश्रिताह्।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवह्॥

2.02

तद्वातरश्मिभिर् *बद्धास् तैस् सव्येतरपाणिभिह्। (च् नद्धास्)
प्राक् पश्चाद् अपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्॥

2.03

प्रवहाख्यो मरुत् तांस् तु स्वोच्चाभिमुखम् ईरयेत्।
पूर्वापराकृष्टास् ते *गतिं यान्ति पृथग्विधाह्॥(च् गतीर्, पृथग्विधाम्)

2.04

ग्रहात् प्राग्भगणार्धस्थह् प्राङ्मुखं कर्षति ग्रहम्।
उच्चसंज्ञो +अपरार्धस्थस् तद्वत् पश्चान्मुखं ग्रहम्॥

2.05

स्वोच्चापकृष्टा *भगणैह् प्राङ्मुखं यान्ति यद् ग्रहाह्। (च् भगणात्)
तत् तेषु धनम् इत्य् उक्तम् ऋणं पश्चान्मुखेषु *च॥ (तु)

2.06

*दक्षिणोत्तरतो +अप्य् एवं पातो *राहुह् स्वरंहसा।(च् दक्षिणोत्तरयोर्, राहुश् च रंहसा)
विक्षिपत्य् एष विक्षेपं चन्द्रादीनाम् अपक्रमात्॥

2.07

उत्तराभिमुखं पातो विक्षिपत्य् अपरार्धगह्।
ग्रहं प्राग्भगणार्धस्थो याम्यायाम् अपकर्षति॥

2.08

बुधभार्गवयोह् शीघ्रात् तद्वत् पातो *यदा स्थितह्। (च् यथास्थितह्)
तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्॥

2.09

महत्वान् मण्डलस्यार्कह् स्वल्पम् एवापकृष्यते।
मण्डलाल्पतया चन्द्रस् ततो बह्व् अपकृष्यते।

2.10

भौमादयो +अल्पमूर्तित्वाच् छीघ्रमन्दोच्चसञ्ज्ञकैह्। (च् संज्ञितैह्)
दैवतैर् अपकृष्यन्ते सुदूरम् अतिवेगिताह्॥

2.11

अतो धनर्णं सुमहत् तेषां गतिवशाद् भवेत्।
आकृष्यमाणास् तैर् एवं व्योम्नि यान्त्य् अनिलाहताह्॥

2.12

*वक्रातिवक्रा विकला मन्दा मन्दतरा समा। (च् वक्रानुवक्रा)
तथा शीघ्रतरा शीघ्रा ग्रहाणाम् अष्टधा गतिह्॥

2.13

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा।
ऋज्वीति पञ्चधा ज्ञेया *या वक्रा सातिवक्रगा॥(च् +अन्या वक्रादिका मता)

2.14

तत्तद्गतिवशान् नित्यं यथा दृक्तुल्यतां ग्रहाह्।
प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणम् आदरात्॥

2.15

राशिलिप्ताष्टमो भागह् प्रथमं ज्यार्धम् उच्यते।
तत् तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्॥

2.16

आद्येनैवं क्रमात् पिण्डान् भक्त्वा *लब्धोनसंयुताह्।(च् लब्धोनितैर् युतैह्)
*खण्डकाह् स्युश् चतुर्विंशज्यार्धपिण्डाह् क्रमाद् अमी॥(च् खण्डकैस्)

2.17

तत्त्वाश्विनो +अङ्काब्धिकृता रूपभूमिधरर्तवह्।(224, 449, 691)
खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवह्॥(890, 1105, 1315)

2.18

शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवह्।(1520, 1719)
वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनह्॥(1910, 2093)

2.19

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाह्।(2267, 2431)
पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनह्॥(2585, 2728)

2.20

रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास् तथा।(2859, 2978)
कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयह्॥(3084, 3179)

2.21

षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयह्।(3256, 3321)
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयह्॥(3372), 3401)

2.22

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयह्।(3431, 3438)
प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाह्॥

2.23

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराह्।(7, 29, 66, 117)
द्व्यष्टैका रूपषड्दस्राह् सागरार्थहुताशनाह्।(182, 261, 354)

2.24

खर्तुवेदा नवाद्र्यर्था दिङ्नागास् त्र्यर्थकुञ्जराह्।(460, 710, 853)
नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराह्॥(1007, 1171)

2.25

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवह्।(1345, 1528)
नवरूपमहीध्रैका गजैकाङ्कनिशाकराह्॥1719, 1918)

2.26

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनह्।(2123, 2333)
वस्वर्णवार्थयमलास् तुरङ्गर्तुनगाश्विनह्॥(2548, 2767)

2.27

नवाष्टनवनेत्राणि पावकैकयमाग्नयह्।(2989, 3293)
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाह्॥(3438)

2.28

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवह्।(1397)
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिर् उच्यते॥(च् इष्यते)

2.29

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च।
शेषं केन्द्रपदं तस्माद् भुजज्या कोटिर् एव च॥(च् केन्द्रं पदं)

2.30

गताद् भुजज्या विषमे गम्यात् कोटिह् पदे भवेत्।
*युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत्॥(च् समे)

2.31

लिप्तास् तत्त्वयमैर् भक्ता *लब्धं ज्यापिण्डिकं गताम्।(च् लब्धा ज्यापिण्डिका गताह्)
गतगम्यान्तराभ्यस्तं विभजेत् तत्त्वलोचनैह्॥(225)

2.32

तदवाप्तफलं योज्यं ज्यापिण्डे *गतसंज्ञके।(च् गतसंज्ञिते)
स्यात् क्रमज्याविधिर् अयं उत्क्रमज्यास्व् अपि स्मृतह्॥

2.33

ज्यां *प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्।(च् प्रोज्झ्यान्यत्तत्त्वयमैर् हत्वा)(225)
संख्यातत्त्वाश्विसंवर्गे *संयोज्य धनुर् उच्यते॥(च् संयोज्यं) (225)

2.34

रवेर् मन्दपरिध्यंशा मनवह् शीतगो रदाह्। (14, 32)

2.35

युग्मान्ते +अर्थाद्रयह् *खाग्निसुराह् सूर्या नवार्णवाह्।(च् खाग्निह् सुरास्)(75, 30, 33, 12, 49)
ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयह्॥

2.36

कुजादीनां *अतह् शीघ्रा युग्मान्ते +अर्थाग्निदस्रकाह्।(च् ततश् शैघ्र्या)(235)
गुणाग्निचन्द्राह् *खनगा द्विरसाक्षीणि गो+अग्नयह्॥(च् खागाश् च)(133, 70, 262, 39)

2.37

ओजान्ते *द्वित्रियमला द्विविश्वे यमपर्वताह्।(च् द्वित्रिकयमाह्)(132, 72)
खर्तुदस्रा वियद्वेदाह् शीघ्रकर्मणि कीर्तिताह्॥(260,40)

2.38

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता।
*युग्मे वृत्ते धनर्णं स्याद् ओजाद् ऊनाधिके स्फुटम्॥ (च् युग्मवृत्ते)

2.39

तद्गुणे भुजकोटिज्ये भगणांशविभाजिते।
तद्भुजज्याफलधनुर् मान्दं लिप्तादिकं फलम्॥

2.40

*शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।(च् शैघ्रे)
संशोध्यं तु *त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥(च् त्रिजीवातह्)

2.41

तद्बाहुफलवर्गैक्यान् मूलं कर्णश् चलाभिधह्।
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥

2.42

लब्धस्य चापं लिप्तादिफलं *शैघ्र्यम् इदं स्मृतम्। (च् शैघ्रम्)
एतद् आद्ये कुजादीनां चतुर्थे चैव कर्मणि॥

2.43

मान्दं कर्मैकम् अर्केन्दोर् भौमादीनाम् अथोच्यते।
*शैघ्र्यं मान्दं पुनर् मान्दं शैघ्र्यं चत्वार्य् अनुक्रमात्॥(च् शैघ्रं)

2.44

मध्ये शीघ्रफलस्यार्धं मान्दम् अर्धफलं तथा।
मध्यग्रहे *मन्दफलं सकलं शैघ्र्यम् एव च॥(च् पुनर् मान्दं)

2.45

अजादिकेन्द्रे सर्वेषां *शैघ्र्ये मान्दे च कर्मणि।(च् मान्दे शैघ्रे)
धनं ग्रहाणां लिप्तादि तुलादाव् र्णम् एव च॥

2.46

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर् विभाजिता।
भचक्रकलिकाभिस् तु लिप्ताह् कर्या ग्रहे +अर्कवत्॥

2.47

स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर् निशापतेह्।
दोर्ज्यान्तरादिकं कृत्वा भुक्ताव् ऋणधनं भवेत्॥

2.48

ग्रहभुक्तेह् फलं कार्यं ग्रहवन् मन्दकर्मणि।
दोर्ज्यान्तरगुणा भुक्तिस् तत्त्वनेत्रोद्धृता पुनह्॥ (225)

2.49

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाह्।]
कर्क्यादौ तु धनं तत्र मकरादाव् ऋणं स्मृतम्॥

2.50

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितह्।
तच्छेशं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोह्॥

2.51

चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम्।
ऋणम् ऊने +अधिके प्रोज्झ्य शेषं वक्रगतिर् भवेत्॥

2.52

दूरस्थितह् स्वशीघ्रोच्चाद् ग्रहह् शिथिलरश्मिभिह्।
सव्येतराकृष्ततनुर् भवेत् वक्रगतिस् तदा॥

2.53

कृतर्तुचन्द्रैर् वेदेन्द्रैह् शून्यत्र्येकैर् गुणाष्टभिह्।(164, 144, 130, 83)
शररुद्रैश् चतुर्थेषु केन्द्रांशैर् भूसुतादयह्॥(115)

2.54

भवन्ति वक्रिणस् तैस् तु स्वैह् स्वैश् चक्राद् विशोधितैह्।
अवशिष्टांशतुल्यैह् स्वैह् केन्द्रैर् उज्झन्ति वक्रताम्॥

2.55

महत्त्वाच् छीघ्रपरिधेह् सप्तमे भृगुभूसुतौ।
अष्टमे जीवशशैजौ नवमे तु शनैश्चरह्॥

2.56

कुजार्किगुरुपातानां ग्रहवच् छीघ्रजं फलम्।
वामं तृतीयकं मान्दं बुधभार्गवयोह् फलम्॥

2.57

स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौम्ययोह्।
विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस् त्रिज्यया विधोह्॥

2.58

विक्षेपापक्रमैकत्वे क्रान्तिर् विक्षेपसंयुता।
दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता॥

2.59

ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिह्।
चक्रासवो लब्धयुता स्वाहोरात्रासवह् स्मृताह्॥

2.60

क्रान्तेह् क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया।
हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्॥

2.61

क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता।
त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवह्॥

2.62

तत्कार्मुकम् उदक्क्रान्तौ *धनशनी पृथक्ष्थिते।(च् धनहानी)
स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते॥

2.63

याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे।
विक्षेपयुक्तोनितया क्रान्त्या भानाम् अपि स्वके॥

2.64

भभोगो +अष्टशतीलिप्ताह् खाश्विशैलास् तथा तिथेह्।
ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम्॥

2.65

रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताह्।
गता गम्याश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाह्॥

2.66

अर्कोनचन्द्रलिप्ताभ्यस् तिथयो भोगभाजिताह्।
गता गम्याश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताह्॥

2.67

ध्रुवाणि शकुनिर् नागं तृतीयं तु चतुष्पदम्।
किंस्तुघ्नं तु चतुर्दश्याह् कृष्णायाश् चापरार्धतह्॥

2.68

बवादीनि ततह् सप्त चराख्यकरणानि च।
मासे +अष्टकृत्व एकैकं करणानां प्रवर्तते॥

2.69

तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्।
एषा स्फुतगतिह् प्रोक्ता सूर्यादीनां खचारिणाम्॥

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc