भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 1

1.01

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने।
समस्तजगदाधारमूर्तये ब्रह्मणे नमह्॥

1.02

अल्पावशिष्टे तु कृते *मयो नाम महासुरह्।(ब् मयनाम)
रहस्यं परमं पुण्यं जिज्ञासुर् ज्ञानम् उत्तमम्॥

1.03

वेदाङ्गम् अग्र्यम् अखिलं ज्योतिषां गतिकारणम्।
आराधयन् विवस्वन्तं तपस् तेपे सुदुश्चरम्॥

1.04

तोषितस् तपसा तेन प्रीतस् तस्मै वरार्थिने।
ग्रहाणां चरितं प्रादान् मयाय सविता स्वयम्॥

1.05

विदितस् ते *मया भावस् तोषितस् तपसा ह्य् अहम्। (ड् मयाभावस्)
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत्॥

1.06

न मे तेजह्सहह् कश्चिद् आख्यातुं नास्ति मे क्षणह्।
मदंशह् पुरुषो +अयं ते निह्शेषं कथयिष्यति॥

1.07

इत्य् उक्त्वान्तर्दधे देवह् समादिश्यांशम् आत्मनह्।
स पुमान् मयम् आहेदं प्रणतं प्राञ्जलिस्थितम्॥

1.08

शृणुष्वैकमनाह् पूर्वं यद् उक्तं ज्ञानम् उत्तमम्।
युगे युगे महर्षीणां स्वयम् एव विवस्वता॥

1.09

शास्त्रम् आद्यं तद् एवेदं यत् पूर्वं प्राह भास्करह्।
युगानां परिवर्तेन कालभेदो +अत्र *केवलह्॥(ब् केवलम्)

1.10

लोकानाम् अन्तकृत् कालह् कालो +अन्यह् कलनात्मकह्।
स द्विधा स्थूलसूक्ष्मत्वान् मूर्तश् चामूर्त उच्यते॥

1.11

प्राणादिह् कथितो मूर्तस् त्रुट्याद्यो +अमूर्तसंज्ञकह्।
षड्भिह् प्राणैर् विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता॥

1.12

नाडीषष्ट्या तु नाक्षत्रम् अहोरात्रं प्रकीर्तितम्।
तत्त्रिंशता भवेन् मासह् सावनो +अर्कोदयैस् तथा॥

1.13

ऐन्दवस् तिथिभिस् तद्वत् संक्रान्त्या सौर उच्यते।
मासैर् द्वादशभिर् वर्षं दिव्यं तद् अह उच्यते॥

1.14

सुरासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्।
तत्षष्टिह् षड्गुणा दिव्यं वर्षम् आसुरम् एव च॥

1.15

तद्द्वादशसहस्राणि चतुर्युगम् उदाहृतम्।
सूर्याब्दसंख्यया द्वित्रिसागरैर् अयुताहतैह्॥

1.16

सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया॥

1.17

युगस्य दशमो भागश् चतुस्त्रिद्व्येकसङ्गुणह्।
क्रमात् कृतयुगादीनां षष्ठांशह् सन्ध्ययोह् स्वकह्॥

1.18

युगानां सप्ततिह् सैका मन्वन्तरम् इहोच्यते।
*कृताब्दसंख्यास् तस्यान्ते सन्धिह् प्रोक्तो जलप्लवह्॥(ब् ऋताब्दसंख्या)

1.19

ससन्धयस् ते मनवह् कल्पे ज्ञेयास् चतुर्दश।
कृतप्रमाणह् कल्पादौ सन्धिह् पञ्चदशह् स्मृतह्॥

1.20

इत्थम् युगसहस्रेण भूतसंहारकारकह्।
कल्पो ब्राह्मम् अहह् प्रोक्तं शर्वरी तस्य तावती॥

1.21

परमायुह् शतं तस्य तयाहोरात्रसंख्यया।
आयुषो +अर्धमितं तस्य शेषकल्पो +अयम् आदिमह्॥

1.22

कल्पाद् अस्माच् च मनवह् षड् व्यतीताह् ससन्धयह्।
वैवस्वतस्य च *मनोर् युगानां त्रिघनो गतह्॥(ब् मनोयुगानां)

1.23

अष्टाविंशाद् युगाद् अस्माद् यातम् एतत् कृतं युगम्।
अतह् कालं प्रसंख्याय संख्याम् एकत्र पिण्डयेत्॥

1.24

ग्रहर्क्षदेवदैत्यादि सृजतो +अस्य चराचरम्।
कृताद्रिवेदा दिव्याब्दाह् शतघ्ना वेधसो गताह्॥

1.25

पश्चाद् व्रजन्तो +अतिजवान् नक्षत्रैह् सततं ग्रहाह्।
जीयमानास् तु लम्बन्ते तुल्यम् एव स्वमार्गगाह्॥

1.26

प्राग्गतित्वम् अतस् तेषां भगणैह् प्रत्यहं गतिह्।
परिणाहवशाद् भिन्ना तद्वशाद् भानि भुञ्जते॥

1.27

शीघ्रगस् तान्य् अथाल्पेन कालेन महताल्पगह्।
तेषां तु परिवर्तेन पौष्णान्ते भगणह् स्मृतह्॥

1.28

विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते।
तत्त्रिंशता भवेद् राशिर् भगणो द्वादशैव ते॥

1.29

युगे सूर्यज्ञशुक्राणाम् खचतुष्करदार्णवाह्।
कुजार्किगुरुशीघ्राणां भगणाह् पूर्वयायिनाम्॥

1.30

इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाह्।(57753336)
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥(2296832) छेच्केद्

1.31

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवह्।(17937060)
बृहस्पतेह् खदस्राक्षिवेदषड्वह्नयस् तथा॥(364220)

1.32

सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराह्।(7022376)
शनेर् भुजङ्गषट्पञ्चरसवेदनिशाकराह्॥(146568)

1.33

चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे।(488203)
वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाह्॥(232238)

1.34

भानाम् अष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवह्।(1582237828)
भोदया भगणैह् स्वैह् स्वैर् ऊनाह् स्वस्वोदया युगे॥

1.35

भवन्ति शशिनो मासाह् सूर्येन्दुभगणान्तरम्।
रविमासोनितास् ते तु शेषाह् स्युर् अधिमासकाह्॥

1.36

सावहाहानि चान्द्रेभ्यो द्युभ्यह् प्रोज्झ्य तिथिक्षयाह्।
उदयाद् उदयं भानोर् भूमिसावनवासरह्॥

1.37

वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे।(1577917828)
चान्द्राह् खाष्टखखव्योमखाग्निखर्तुनिशाकराह्॥(1603000080)

1.38

षड्वह्नित्रिहुताशाङ्कतिथयश् चाधिमासकाह्।(1593336)
तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनह्॥(25082252)

1.39

खचतुष्कसमुद्राष्टकुपञ्च रविमासकाह्।(51840000)
भवन्ति भोदया भानुभगणैर् ऊनिताह् क्वहाह्॥

1.40

अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराह्।
एते सहस्रगुणिताह् कल्पे स्युर् भगणादयह्॥

1.41

प्राग्गतेह् सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयह्।(387)
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयह्॥(204, 368)

1.42

खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवह्।(900, 535)
गो +अग्नयह् शनिमन्दस्य पातानाम् अथ वामतह्॥(39)

1.43

मनुदस्रास् तु कौजस्य बौधस्याष्टाष्टसागराह्। (214, 488)
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश् च तथा भृगोस् ॥(ड् भृगोस् तथा)(174, 903)

1.44

शनिपातस्य भगणाह् कल्पे यमरसर्तवह्।(662)
भगणाह् पूर्वम् एवात्र प्रोक्ताश् चन्द्रोच्चपातयोह्॥

1.45

षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिह् सह।
कल्पादिसन्धिना सार्धं वैवस्वतमनोस् तथा॥

1.46

युगानाम् त्रिघनं यातं तथा कृतयुगं त्व् इदम्।
प्रोज्झ्य सृष्टेस् ततह् कालं पूर्वोक्तं दिव्यसंख्यया॥

1.47

सूर्याब्दसंख्यया ज्ञेयाह् कृतस्यान्ते गता अमी।
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराह्॥(1953720000)

1.48

अत ऊर्ध्वम् अमी युक्ता गतकालाब्दसंख्यया।
मासीकृता युता मासैर् मधुशुक्लादिभिर् गतैह्॥

1.49

पृथक्ष्थास् ते +अधिमासघ्नाह् सूर्यमासविभाजिताह्।
लब्धाधिमासकैर् युक्ता दिनीकृत्य दिनान्विताह्॥

1.50

द्विष्ठास् तिथिक्षयाभ्यस्ताश् चान्द्रवासरभाजिताह्।
लब्धोनरात्रिरहिता लङ्कायाम् आर्धरात्रिकह्॥

1.51

सावनो द्युगणह् सूर्याद् दिनमासाब्दपास् ततह्।
सप्तभिह् क्षयितह् शेषह् सूर्याद्यो वासरेश्वरह्॥

1.52

मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम्।
सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ॥

1.53

यथा स्वभगनाभ्यस्तो दिनराशिह् कुवासरैह्।
विभाजितो मध्यगत्या भगणादिर् ग्रहो भवेत्॥

1.54

एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताह् पूर्वयायिनह्।
विलोमगतयह् पातास् तद्वच् चक्राद् विशोधिताह्॥

1.55

द्वादशघ्ना गुरोर् याता भगणा वर्तमानकैह्।
राशिभिह् सहिताह् शुद्धाह् षष्ट्या स्युर् विजयादयह्॥

1.56

विस्तरेणैतद् उदितं संक्षेपाद् व्यावहारिकम्।
मध्यमानयनं कार्यं ग्रहाणाम् इष्टतो युगात्॥

1.57

अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाह्।
*विना तु पातमन्दोच्चान् मेषादौ तुल्यताम् इताह् (ड् विनेन्दु)॥

1.58

मकरादौ शशाङ्कोच्चं तत्पातस् तु तुलादिगह्।
निरंशत्वम् गताश् चान्ये नोक्तास् ते मन्दचारिणह्॥

1.59

योजनानि शतान्य् अष्टौ भूकर्णो द्विगुणानि तु।
तद्वर्गतो दशगुणात् पदं भूपरिधिर् भवेत्॥

1.60

लम्बज्याघ्नस् त्रिजीवाप्तह् स्फुटो भूपरिधिह् स्वकह्।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर् विभाजिता॥

1.61

कलादि तत् फलं प्राच्यां ग्रहेभ्यह् परिशोधयेत्।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्युह् स्वदेशजा॥

1.62

राक्षसालयदेवौकह्शैलयोर् मध्यसूत्रगाह्।
रोहीतकम् अवन्ती च यथा सन्निहितं सरह्॥

1.63

अतीत्योन्मीलनाद् इन्दोह् पश्चात् तद्गणितागतात्।(च् अतीत्योन्मीलनाद् इन्दोर् दृक्षिद्धिर् गणितागतात्।)
यदा भवेत् तदा प्राच्यां स्वस्थानं मध्यतो भवेत्॥

1.64

अप्राप्य च भवेत् पश्चाद् एवं वापि निमीलनात्।
तयोर् अन्तरनाडीभिर् हन्याद् भूपरिधिं स्फुटम्॥

1.65

षष्ट्या विभज्य लब्धैस् तु योजनैह् प्राग् अथापरैह्।
स्वदेशह् परिधौ ज्ञेयह् कुर्याद् देशान्तरं हि तैह्॥

1.66

वारप्रवृत्तिह् प्राग्देशे क्षपार्धे +अभ्यधिके भवेत्।
तद्देशान्तरनाडीभिह् पश्चाद् ऊने विनिर्दिशेत्॥

1.67

इष्टनाडीगुणा भुक्तिह् षष्ट्या भक्ता कलादिकम्।
गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत्॥

1.68

भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्।
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्ताद् अनुष्णगुह्॥

1.69

तन्नवांशं द्विगुणितं जीवस् त्रिगुणितं कुजह्।
बुधशुक्रार्कजाह् पातैर् विक्षिप्यन्ते चतुर्गुणम्॥

1.70

एवम् त्रिघनरन्ध्रार्करसार्कार्का दशाहताह्।
चन्द्रादीनां क्रमाद् उक्ता मध्यविकेषेपलिप्तिकाह्॥
[स्पष्टाधिकारह्]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc