भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 13

13.01

अथ गुप्ते शुचौ देशे स्नातह् शुचिर् अलङ्कृतह्।
सम्पूज्य भास्करं भक्त्या ग्रहान् भान्य् अथ गुह्यकान्॥

13.02

पारम्पर्योपदेशेन यथाज्ञानं गुरोर् मुखात्।
आचार्यह् शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥

13.03

भूभगोलस्य रचनां कुर्याद् आश्चर्यकारिणीम्।
अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥

13.04

दण्डं तन्मध्यगं मेरोर् उभयत्र विनिर्गतम्।
आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥

13.05

भगणांशाङ्गुलैह् कार्या दलितैस् तिस्र एव ताह्।
स्वाहोरात्रार्धकर्णैश् च तत्प्रमाणानुमानतह्॥

13.06

क्रान्तिविक्षेपभागैश् च दलितैर् दक्षिणोत्तरैह्।
स्वैह् स्वैर् अपक्रमैस् तिस्रो मेषादीनाम् अपक्रमात्॥

13.07

कक्षाह् प्रकल्पयेत् ताश् च कर्क्यादीनां विपर्ययात्।
तद्वत् तिस्रस् तुलादीनां मृगादीनां विलोमतह्॥

13.08

याम्यगोलाश्रिताह् कार्याह् कक्षाधाराद् द्वयोर् अपि।
याम्योदग्गोलसंस्थानां भानाम् अभिजितस् तथा॥

13.09

सप्तर्षीणाम् अगस्त्यस्य ब्रह्मादीनां च कल्पयेत्।
मध्ये वैषुवती कक्षा सर्वेषाम् एव संस्थिता॥

13.10

तदाधारयुतेर् ऊर्ध्वम् अयने विषुवद्वयम्।
विषुवत्स्थानतो भागैह् स्फुटैर् भगणसञ्चरात्॥

13.11

क्षेत्राण्य् एवम् अजादीनां तिर्यग्ज्याभिह् प्रकल्पयेत्।
अयनाद् अयनं चैव कक्षा तिर्यक् तथापरा॥

13.12

क्रान्तिसञ्ज्ञा तया सूर्यह् सदा पर्येति भासयन्।
चन्द्राद्याश् च स्वकैह् पातैर् अपमण्डलम् आश्रितैह्॥

13.13

ततो +अपकृष्टा दृश्यन्ते विक्षेपान्तेष्व् अपक्रमात्।
उदयक्षितिजे लग्नम् अस्तं गच्छच् च तद्वशात्॥

13.14

लङ्कोदयैर् यथासिद्धं खमध्योपरि मध्यमम्।
मध्यक्षितिजयोर् मध्ये या ज्या सान्त्याभिधीयते॥

13.15

ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम्।
कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥

13.16

वस्त्रच्छन्नं बहिस् चापि लोकालोकेन वेष्टितम्।
अमृतस्रावयोगेन कालभ्रमणसाधनम्॥

13.17

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्।
गोप्यम् एतत् प्रकाशोक्तं सर्वगम्यं भवेद् इह॥

13.18

तस्माद् गुरूपदेशेन रचयेद् गोलम् उत्तमम्।
युगे युगे समुच्छिन्ना रचनेयं विवस्वतह्॥

13.19

प्रसादात् कस्यचिद् भूयह् प्रादुर् भवति कामतह्।
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्॥

13.20

एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि।
शङ्कुयष्टिधनुश्चक्रैश् छायायन्त्रैर् अनेकधा॥

13.21

गुरूपदेशाद् विज्ञेयं कालज्ञानम् अतन्द्रितैह्।
तोययन्त्रकपालाद्यैर् मयूरनरवानरैह्॥
ससूत्ररेणुगर्भैश् च सम्यक् कालं प्रसाधयेत्॥

13.22

पारदाराम्बुसूत्राणि शुल्वतैलजलानि च।
बीजानि पांसवस् तेषु प्रयोगास् ते +अपि दुर्लभाह्॥

13.23

तांरपात्रम् अधश्छिद्रं न्यस्तं कुण्डे +अमलाम्भसि।
षष्टिर् मज्जत्य् अहोरात्रे स्फुटं यन्त्रं कपालकम्॥

13.24

नरयन्त्रं तथा साधु दिवा च विमले रवौ।
छायासंसाधनैह् प्रोक्तं कालसाधनम् उत्तमम्॥

13.25

ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतह्।
ग्रहलोकम् अवाप्नोति पर्यायेणात्मवान् नरह्॥
[मान]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc