भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 12

12.01

अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिह्।
भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरह्॥

12.02

भगवन् किम्प्रमाणा भूह् किम् आकारा किम् आश्रया।
किंविभागा कथं चात्र सप्तपातालभूमयह्॥

12.03

अहोरात्रव्यवस्थां च विदधाति कथं रविह्।
कथं पर्येति वसुधां भुवनानि विभावयन्॥

12.04

देवासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्।
किम् अथ तत् कथं वा स्याद् भानोर् भगणपूरणात्॥

12.05

पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्।
तद् एव किल सर्वत्र न भवेत् केन हेतुना॥

12.06

दिनाब्दमासहोराणाम् अधिपा न समाह् कुतह्।
कथं पर्येति भगणह् सग्रहो +अयं किम् आश्रयह्॥

12.07

भूमेर् उपर्युपर्यूर्ध्वाह् किम् उत्सेधाह् किम् अन्तराह्।
ग्रहर्क्षकक्षाह् किंमात्राह् स्थिताह् केन क्रमेण ताह्॥

12.08

ग्रीष्मे तीव्रकरो भानुर् न हेमन्ते तथाविधह्।
कियती तत्करप्राप्तिर् मानानि कति किं च तैह्॥

12.09

एवं मे संशयं छिन्धि भगवन् भूतभावन।
अन्यो न त्वाम् ऋते छेत्ता विद्यते सर्वदर्शिवान्॥

12.10

इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यम् अस्य हि।
रहस्यं परम् अध्यायं ततह् प्राह पुनह् स तम्॥

12.11

शृणुष्वैकमना भूत्वा गुह्यम् अध्यात्म संज्ञितम्।
प्रवक्ष्याम्य् अतिभक्तानां नादेयं विद्यते मम॥

12.12

वासुदेवह् परं ब्रह्म तन्मूर्तिह् पुरुषह् परह्।
अव्यक्तो निर्गुणह् शान्तह् पञ्चविंशात् परो +अव्ययह्॥

12.13

प्रकृत्यन्तर्गतो देवो बहिर् अन्तश् च सर्वगह्।
सङ्कर्षणो +अपह् सृष्ट्वादौ तासु वीर्यम् अवासृजत्॥

12.14

तदण्डम् अभवद् धैमं सर्वत्र तमसावृतम्।
तत्रानिरुद्धह् प्रथमं व्यक्तीभूतह् सनातनह्॥

12.15

हिरण्यगर्भो भगवान् एष छन्दसि पठ्यते।
आदित्यो ह्य् आदिभूतत्वात् प्रसूत्या सूर्य उच्यते॥

12.16

परं ज्योतिस् तमह् पारे सूर्यो +अयं सवितेति च।
पर्येति भुवनान् एष भावयन् भूतभावनह्॥

12.17

प्रकाशात्मा तमोहन्ता महान् इत्य् एष विश्रुतह्।
ऋचो +अस्य मण्डलं सामान्युस्त्रामूर्तिर् यजूंषि च॥

12.18

त्रयीमहो +अयं भगवाण् कालात्मा कालकृद् विभुह्।
सर्वात्मा सर्वगह् सूक्ष्मह् सर्वम् अस्मिन् प्रतिष्ठितम्॥

12.19

रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्।
छन्दांस्य् अश्वाह् सप्त युक्ताह् पर्यटत्य् एष सर्वदा॥

12.20

त्रिपादम् अमृतं गुह्यं पादो +अयं प्रकटो +अभवत्।
सो +अहङ्कारं जगत्सृष्ट्यै ब्रह्माणम् असृजत् प्रभुह्॥

12.21

तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम्।
प्रतिष्ठाप्याण्डमध्ये +अथ स्वयं पर्येति भावयन्॥

12.22

अथ सृष्ट्यां मनश् चक्रे ब्रह्माहङ्कारमूर्तिभृत्।
मनसश् चन्द्रमा जज्ञे सूर्यो +अक्ष्णोस् तेजसां निधिह्॥

12.23

मनसह् खं ततो वायुर् अग्निर् आपो धरा क्रमात्।
गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे॥

12.24

अग्नीषोमौ भानुचन्द्रौ ततस् त्व् अङ्गारकादयह्।
तेजोभूखाम्बुवातेभ्यह् क्रमशह् पञ्च जज्ञिरे॥

12.25

पुनर् द्वादशधात्मानं व्यभजद् राशिसञ्ज्ञकम्।
नक्षत्ररूपिणं भूयह् सप्तविंशात्मकं वशी॥

12.26

ततश् चराचरं विश्वं निर्ममे देवपूर्वकम्।
ऊर्ध्वमध्याधरेभ्यो +अथ स्रोतोभ्यह् प्रकृतीह् सृजन्॥

12.27

गुणकर्मविभागेन सृष्ट्वा प्राग्वद् अनुक्रमात्।
विभागं कल्पयामास यथास्वं वेददर्शनात्॥

12.28

ग्रहनक्षत्रतारानां भूमेर् विश्वस्य वा विभुह्।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥

12.29

ब्रह्माण्डम् एतत् सुषिरं तत्रेदं भूर्भुवादिकम्।
कटाहद्वितयस्येव सम्पुटं गोलकाकृति॥

12.30

ब्रह्माण्डमध्ये परिधिर् व्योमकक्षाभिधीयते।
तन्मध्ये भ्रमणं भानाम् अधो +अधह् क्रमशस् तथा॥

12.31

मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवह्।
परिभ्रमन्त्य् अधो+अधह्स्थाह् सिद्ध्हविद्याधरा घनाह्॥

12.32

मध्ये समन्ताद् अण्डस्य भूगोलो व्योम्नि तिष्ठति।
बिभ्रानह् परमां शक्तिं ब्रह्मणो धारणात्मकाम्॥

12.33

तदन्तरपुटाह् सप्त नागासुरसमाश्रयाह्।
दिव्यौषधिरसोपेता रम्याह् पातालभूमयह्॥

12.34

अनेकरत्ननिचयो जाम्बूनदमयो गिरिह्।
भूगोलमध्यगो मेरुर् उभयत्र विनिर्गतह्॥

12.35

उपरिष्टात् स्थितास् तस्य सेन्द्रा देवा महर्षयह्।
अधस्ताद् असुरास् तद्वद् द्विषन्तो +अन्योन्यम् आश्रिताह्॥

12.36

ततह् समन्तात् परिधिह् क्रमेणायं महार्णवह्।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत्॥

12.37

समन्तान् मेरुमध्यात् तु तुल्यभागेषु तोयधेह्।
द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताह्॥

12.38

भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता।
भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥

12.39

याम्यायां भारते वर्षे लङ्का तद्वन् महापुरी।
पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥

12.40

उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाह्॥

12.41

भूवृत्तपादविवरास् ताश् चान्योन्यं प्रतिष्ठिताह्।
ताभ्यश् चोत्तरगो मेरुस् तावान् एव सुराश्रयह्॥

12.42

तासाम् उपरिगो याति विषुवस्थो दिवाकरह्।
न तासु विषुवच्छाया नाक्षस्योन्नतिर् इष्यते॥

12.43

मेरोर् उभयतो मध्ये ध्रुवतारे नभह् स्थिते।
निरक्षदेशसंस्थानाम् उभये क्षितिजाश्रये॥

12.44

अतो नाक्षत्रोच्छ्रयस् तासु ध्रुवयोह् क्षितिजस्थयोह्।
नवतिर् लम्बकांशास् तु मेरावक्षांशकास् तथा।

12.45

मेषादौ देवभागस्थे देवानां याति दर्शनम्।
असुराणां तुलादौ तु सूर्यस् तद्भागसञ्चरह्॥

12.46

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेह्।
देवभागे सुराणां तु हेमन्ते मन्दतान्यथा॥

12.47

देवासुरा विषुवति क्षितिजस्थं दिवाकरम्।
पश्यन्त्य् अन्योन्यम् एतेषां वामसव्ये दिनक्षपे॥

12.48

मेषादाव् उदितह् सूर्यस् त्रीन् राशीन् उदगुत्तरम्।
सञ्चरन् प्रागहर्मध्यं पूरयेन् मेरुवासिनाम्॥

12.49

*कर्क्यादीन् सञ्चरंश् तद्वद् अह्नह् पश्चार्धम् एव सह्।(च् कर्कादीन्)
तुलादींस् त्रीन् मृगादींश् च तद्वद् एव सुरद्विषाम्॥

12.50

अतो दिनक्षपे तेषाम् अन्योन्यं हि विपर्ययात्।
अहोरात्रप्रमाणं च भानोर् भगणपूरणात्॥

12.51

दिनक्षपार्धम् एतेषाम् अयनान्ते विपर्ययात्।
उपर्यात्मानम् अन्योन्यं कल्पयन्ति सुरासुराह्॥

12.52

अन्ये +अपि समसूत्रस्था मन्यन्ते +अधह् परस्परम्।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताह्॥

12.53

सर्वत्रैव महीगोले स्वस्थानम् उपरि स्थितम्।
मन्यन्ते खे यतो गोलस् तस्य क्वोर्धवं क्व वाधह्॥

12.54

अल्पकायतया लोकाह् स्वस्थानात् सर्वतो मुखम्।
पश्यन्ति वृत्ताम् अप्य् एतां चक्राकारां वसुन्धराम्॥

12.55

सव्यं भ्रमति देवानाम् अपसव्यं सुरद्विषाम्।
उपरिष्टाद् भगोलो +अयं व्यक्षे पश्चान् मुखह् सदा॥

12.56

अतस् तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा।
हानिवृद्धी सदा वामं सुरासुरविभागयोह्॥

12.57

मेषादौ तु सदा वृद्धिर् उदगुत्तरतो +अधिका।
देवांशे च क्षपाहानिर् विपरीतं तथासुरे॥

12.58

तुलादौ द्युनिशोर् वामं क्षयवृद्धी तयोर् उभे।
देशक्रान्तिवशान् नित्यं तद्विज्ञानं पुरोदितम्॥

12.59

भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्।
अवाप्तयोजनैर् अर्को व्यक्षाद् यात्य् उपरिस्थितह्॥

12.60

परमापक्रमाद् एवं योजनानि विशोधयेत्।
भूवृत्तपादाच् छेषाणि यानि स्युर् योजनानि तैह्॥

12.61

अयनान्ते विलोमेन देवासुरविभागयोह्।
नाडीषष्ट्या सकृद् अहर्निशाप्य् अस्मिन् सकृत् तथा॥

12.62

तदन्तरे +अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोह्।
परतो विपरीतो +अयं भगोलह् परिवर्तते॥

12.63

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैह्।
धनुर् मृगस्थह् सविता देवभागे न दृश्यते॥

12.64

तथा चासुरभागे तु मिथुने कर्कटे स्थितह्।
नष्टच्छाया महीवृत्तपादे दर्शनम् आदिशेत्॥

12.65

एकज्यापक्रमानीतैर् योजनैह् परिवर्जिते।
भूमिकक्षाचतुर्थांशे व्यक्षाच् छेषैस् तु योजनैह्॥

12.66

धनुर् मृगालिकुम्भेषु संस्थितो +अर्को न दृश्यते।
देवभागे +असुराणां तु वृषाद्ये भचतुष्टये॥

12.67

मेरौ *मेषादिचक्रार्धे देवाह् पश्यन्ति भास्करम्।(ड् -चकार्धे)
सकृद् एवोदितं तद्वद् असुराश् च तुलादिगम्॥

12.68

भूमण्डलात् पञ्चदशे भागे देवे +अथ वासुरे।
उपरिष्टाद् व्रजत्य् अर्कह् सौम्ययाम्यायनान्तगह्॥

12.69

तदन्तरालयोश् च्छाया याम्योदक् सम्भवत्य् अपि।
मेरोर् अभिमुखं याति परतह् स्वविभागयोह्॥

12.70

भद्राश्वोपरिगह् कुर्याद् भारते तूदयं रविह्।
रात्र्यर्धं केतुमाले तु कुराव् अस्तमयं तदा॥

12.71

भारतादिषु वर्षेषु तद्वद् एव परिभ्रमन्।
मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्॥

12.72

ध्रुवोन्नतिर् भचक्रस्य नतिर् मेरुं प्रयास्यतह्।
निरक्षाभिमुखं यातुर् विपरीते नतोन्नते॥

12.73

भचक्रं ध्रुवयोर् बद्धम् आक्षिप्तं प्रवहानिलैह्।
पर्येत्य् अजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥

12.74

सकृद् उद्गतम् अब्दार्धं पश्यन्त्य् अर्कं सुरासुराह्।
पितरह् शशिगाह् पक्षं स्वदिनं च नरा भुवि॥

12.75

*उपरिष्टस्य महती कक्षाल्पाधह्स्थितस्य च।(च् उपरिष्ठस्य)
महत्या कक्षया भागा महान्तो +अल्पास् तथाल्पया॥

12.76

कालेनाल्पेन भगणं भुङ्क्ते +अल्पभ्रमणाश्रितह्।
ग्रहह् कालेन महता मण्डले महति भ्रमन्॥

12.77

स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिह्।
महत्या कक्षया गच्छन् ततह् स्वल्पं शनैश्चरह्॥

12.78

मन्दाद् अधह् क्रमेण स्युश् चतुर्था दिवसाधिपाह्।
वर्षाधिपतयस् तद्वत् तृतीयाश् च प्रकीर्तिताह्॥

12.79

ऊर्ध्वक्रमेण शशिनो *मासानाम् अधिपाह् स्मृताह्।(ड् मसानाम्)
होरेशाह् सूर्यतनयाद् अधो+अधह् क्रमशस् तथा॥

12.80

भवेद् भकक्षा तीक्ष्णांशोर् भ्रमणं षष्टिताडितम्।
सर्वोपरिष्टाद् भ्रमति योजनैस् तैर् भमण्डलम्॥

12.81

कल्पोक्तचन्द्रभगणा गुणिताह् शशिकक्षया।
आकाशकक्षा सा ज्ञेया करव्याप्तिस् तथा रवेह्॥

12.82

सैव यत्कल्पभगणैर् भक्ता तद्भ्रमणं भवेत्।
कुवासरैर् विभज्याह्नह् सर्वेषां प्राग्गतिह् स्मृता॥

12.83

भुक्तियोजनजा सङ्ख्या सेन्दोर् भ्रमणसङ्गुणा।
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका॥

12.84

कक्षा भूकर्णगुणिता महीमण्डलभाजिता।
तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताह्॥

12.85

खत्रयाब्धिद्विदहनाह् कक्षा तु हिमदीधितेह्।(32430
ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस् तथा॥(1043209)

12.86

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाह्।(2664637)
ततो +अर्कबुधशुक्राणां खखार्थैकसुरार्णवाह्॥(4331500)

12.87

कुजस्याप्य् अङ्कशून्याङ्कषड्वेदैकभुजङ्गमाह्।(8146909)
चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयह्॥(38328484)

12.88

कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोह्।(51375764)
स्वर्भानोर् वेदतर्काष्टद्विशैलार्थखकुञ्जराह्॥(80572864)

12.89

पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काह् शनेस् ततह्।(127668255)
भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनह्॥(25980012)

12.90

खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राह्।(18712080864000000)
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्ताद् अभ्यन्तरे दिनकरस्य करप्रसारह्॥
[ज्योतिषोपनिषद्]

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc