भाषा

ENहिગુ
ग्रंथ पाठ

सूर्य सिद्धान्त · अध्याय 14

14.01

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस् तथा।
सौरं च सावनं चान्द्रम् आर्क्षं मानानि वै नव॥

14.02

चतुर्भिर् व्यवहारो +अत्र सौरचान्द्रार्क्षसावनैह्।
बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस् तु नित्यशह्॥

14.03

सौरेण द्युनिशोर् मानं षडशीतिमुखानि च।
अयनं विषुवच्चैव संक्रान्तेह् पुण्यकालता॥

14.04

तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात्।
तच्चतुष्टयम् एव स्याद् द्विस्वभावेषु राशिषु॥

14.05

षड्विंशे धनुषो भागे द्वाविंशे निमिषस्य च।
मिथुनाष्टादशे भागे कन्यायास् तु चतुर्दश॥

14.06

ततह् शेषाणि कन्याया यान्य् अहानि तु षोडश।
क्रतुभिस् तानि तुल्यानि पितॄणां दत्तम् अक्षयम्॥

14.07

भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्।
अयनद्वितयं चैव चतस्रह् प्रथितास् तु ताह्॥

14.08

तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनह्।
नैरन्तर्यात् तु संक्रान्तेर् ज्ञेयं विष्णुपदीद्वयम्॥

14.09

भानोर् मकरसङ्क्रान्तेह् षण्मासा उत्तरायणम्।
कर्क्यादेस् तु तथैव स्यात् षण्मासा दक्षिणायनम्॥

14.10

द्विराशिनाथ ऋतवस् ततो +अपि शिशिरादयह्।
मेषादयो द्वादशैते मासास् तैर् एव वत्सरह्॥

14.11

अर्कमानकलाह् षष्ट्या गुणिता भुक्तिभाजिताह्।
तदर्धनाड्यह् सङ्क्रान्तेर् अर्वाक् पुण्यं तथा परे॥

14.12

अर्काद् विनिह्सृतह् प्राचीं यद् यात्य् अहरहह् शशी।
तच् चान्द्रमानम् अंशैस् तु ज्ञेया द्वादशभिस् तिथिह्॥

14.13

तिथिह् करणम् उद्वाहह् क्षौरं सर्वक्रियास् तथा।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते॥

14.14

त्रिंशता तिथिभिर् मासश् चान्द्रह् पित्र्यम् अहह् स्मृतम्।
निशा च मासपक्षान्तौ तयोर् मध्ये विभागतह्॥

14.15

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनम् उच्यते।
नक्षत्रनाम्ना मासास् तु ज्ञेयाह् पर्वान्तयोगतह्॥

14.16

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्।
अन्त्योपान्त्यौ पञ्चमश् च त्रिधा मासत्रयं स्मृतम्॥

14.17

वैशाखादिषु कृष्णे च योगह् पञ्चदशे तिथौ।
कार्त्तिकादीनि वर्षाणि गुरोर् अस्तोदयात् तथा॥

14.18

उदयाद् उदयं भानोह् सावनं तत् प्रकीर्तितम्।
सावनानि स्युर् *एतेन यज्ञकालविधिस् तु तैह्॥(ड् एतन)

14.19

सूतकादिपरिच्छेदो दिनमासाब्दपास् तथा।
मध्यमा ग्रहभुक्तिस् तु सावनेनैव गृह्यते॥

14.20

सुरासुराणाम् अन्योन्यम् अहोरात्रं विपर्ययात्।
यत्प्रोक्तं तद् भवेद् दिव्यं भानोर् भगणपूरणात्॥

14.21

मन्वन्तरव्यवस्था च प्राजापत्यम् उदाहृतम्।
न तत्र द्युनिशोर् भेदो ब्राह्मं कल्पह् प्रकीर्तितम्॥

14.22

एतत् ते परमाख्यातं रहस्यं परमाद्भुतम्।
ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम्॥

14.23

दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानम् उत्तमम्।
विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम्॥

14.24

इत्य् उक्त्वा मयम् आमन्त्र्य सम्यक् तेनाभिपूजितह्।
दिवम् आचक्रमे +अर्कांशह् प्रविवेश स्वमण्डलम्॥

14.25

मयो +अथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद् विवस्वतह्।
कृतकृत्यम् इवात्मानं मेने निर्धूतकल्मषम्॥

14.26

ज्ञात्वा तम् ऋषयश् चाथ सूर्यलब्धवरं मयम्।
परिबब्रुर् उपेत्याथो ज्ञानं पप्रच्छुर् आदरात्॥

14.27

स तेभ्यह् प्रददौ प्रीतो ग्रहाणां चरितं महत्।
अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्॥

मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc