सूर्य सिद्धान्त · अध्याय 11
एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा।
तद्युतौ मण्डले क्रान्त्योस् तुल्यत्वे वैधृताभिधह्॥
विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका।
समास् तदा व्यतीपातो भगणार्धे तयोर् युतौ॥
तुल्यांशुजालसम्पर्कात् तयोस् तु प्रवहाहतह्।
तद्दृक्क्रोधभवो वह्निर् लोकाभावाय जायते॥
विनाशयति पातो +अस्मिन् लोकानाम् असकृद् यतह्।
व्यतीपातह् प्रसिद्धो +अयं सञ्ज्ञाभेदेन वैधृतह्॥
स कृष्णो दारुणवपुर् लोहिताक्षो महोदरह्।
सर्वानिष्टकरो रौद्रो भूयो भूयह् प्रजायते॥
भास्करेन्द्वोर् भचक्रान्तश् चक्रार्धावधिसंस्थयोह्।
दृक्तुल्यसाधितांशादियुक्तयोह् स्वाव् अपक्रमौ॥
अथौजपदगस्येन्दोह् क्रान्तिर् विक्षेपसंस्कृता।
यदि स्याद् अधिका भानोह् क्रान्तेह् पातो गतस् तदा॥
ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च।
पदान्यत्वं विधोह् क्रान्तिविक्षेपाच् चेद् विशुध्यति॥
क्रान्त्योर् ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते।
तच्चापान्तरम् अर्धं वा योज्यं भाविनि शीतगौ॥
शोध्यं चन्द्राद् गते पाते तत्सूर्यगतिताडितम्।
चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत् फलम्॥
तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात्।
कर्मैतद् असकृत् तावद् यावद् क्रान्ती समे तयोह्॥
क्रान्त्योह् समत्वे पातो +अथ प्रक्षिप्तांशोनिते विधौ।
हीने +अर्धरात्रिकाद् यातो भावी तात्कालिके +अधिके॥
स्थिरीकृतार्धरात्रेन्द्वोर् द्वयोर् विवरलिप्तिकाह्।
षष्टिघ्न्यश् चन्द्रभुक्त्याप्ताह् पातकालस्य नाडिकाह्॥
रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत्।
तयोर् भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत्॥
पातकालह् स्फुटो मध्यह् सो +अपि स्थित्यर्धवर्जितह्।
तस्य सम्भवकालह् स्यात् तत् संयुक्तो +अन्त्यसांज्ञितह्॥
आद्यन्तकालयोर् मध्यह् कालो ज्ञेयो +अतिदारुणह्।
प्रज्वलज् ज्वलनाकारह् सर्वकर्मसु गर्हितह्॥
एकायनगतं यावद् अर्केन्द्वोर् मण्डलान्तरम्।
सम्भवस् तावद् एवास्य सर्वकर्मविनाशकृत्॥
स्नानदानजपश्राद्धव्रतहोमादिकर्मभिह्।
प्राप्यत सुमहच्छ्रेयस् तत्कालज्ञानतस् तथा॥
रवीन्द्वोस् तुल्यता क्रान्त्योर् विषुवत्सन्निधौ यदा।
द्विर् भवेद् धि तदा पातह् स्याद् अभावो विपर्ययात्॥
शसाङ्कार्कयुतेर् लिप्ता भभोगेन विभाजिताह्।
लब्धं सप्तदशान्तो +अन्यो व्यतीपातस् तृतीयकह्॥
सार्पेन्द्रपौष्ण्यधिष्ण्यानाम् अन्त्याह् पादा भसन्धयह्।
तदग्रभेष्व् आद्यपादो गण्डान्तं नाम कीर्त्यते॥
व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा।
एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत्॥
इत्य् एतत् परमं पुण्यं ज्योतिषां चरितं हितम्।
र्हस्यं महद् आख्यातं किम् अन्यच्छ्रोतुम् इच्छसि॥
[भूगोल]
मूल पाठ: Sūryasiddhānta · Edition: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand S · Data entry Michio Yano · GRETIL (Göttingen) · CC BY-NC-SA 4.0