सुमागधावदान · श्लोक 81-100
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं वृसभरथेनागच्छति.
सा कथयति: नायम् आर्यो महाकौष्ठिलो, ऽयं भगवताल्पेच्छानाम् अग्रो निर्दिष्टः.
अयं भिक्षून् एवम् आह: सातिरेकाणि मे, आयुष्मन्तो, ऽशीतिवर्षानि प्रव्रजितस्य, नाभिजानामि सब्रह्मचारिणाम् अन्तिकात् परिकर्म स्वीकर्तुम् अन्तशः पृष्ठोद्घर्षणमात्रम् अपि, स एषागच्छति. (6)
अत्रान्तरेणायुष्मान् उपाली हैमं तालवनम् अभिनिर्माय सुवर्णपुष्पफलोपेतं विविधमनोज्ञस्वरसंयुक्तं, तत्रासज्जमानशरीर ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयम् ते स शास्ता यो ऽयं हैमं तालवनम् आश्रित्य ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्य उपाली, अयं भगवता विनयधराणाम् अग्रो निर्दिष्टः.
अस्य च पञ्चमात्रात्रैः शाक्यकुमारशतैर् नानालंकारविभूषितैः प्रव्रज्यमानैः पुरस्ताद् वस्त्राणाम् आभरणानां च महान् राशिः कृतः.
अयम् आर्यः संलक्षयति: इमे तावत् कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि स्फीताणि च कोशकोष्ठागाराण्य् अपास्य प्रव्रजितुम् आरब्धाः, अहम् अस्मिम् अलंकारमात्रेण सक्तो.
ऽनेन व्यसनम् आपत्स्यते इति तां विभूतिं खेटपिण्डम् इवापहाय प्रव्रज्य तत्प्रथमतरम् अर्हत्त्वम् अधिगतं, स एषागच्छति. (7)
अत्रान्तरेणायुष्मान् अश्वजिच् छान्तेनेर्यापथेन मत्तहस्तिनं दमयति, पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं शान्तेनेर्यापथेन पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा प्राह: नायम् आर्यो ऽश्वजिच्, छान्तेनेर्यापथेन मत्तहस्तिनं दमयति. अस्य सकाशाद् अनया गाथया:
कर्मक्लेशहेतुकारणवती लोकस्य निवृत्तिर् यथा
कर्मक्लेशनिवृत्तिकारणम् अपि प्रोवाच तन् नायकः ।
यस्मिन् जन्मजराविपत्तिनियतं दुःखं न संतिष्ठते
तत् मोक्षप्रवरं स चादिवृषभो ज्ञात्वा स्वयं भाषते ॥
श्रुत्वा पूर्वं तीर्थिकस्यार्येण शारिपुत्रेण श्रोतआपत्तिफलम् अधिगतम् अयं भगवता स्मृतिमताम् अग्रो निर्दिष्टः, स एसागच्छति. (8)
अत्रान्तरेणायुष्मान् पूर्णो मैत्रायणीपुत्रः सौवर्णं पद्मम् अभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता यो ऽयं सौवर्नं पद्मम् अभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नयाम् आर्यो पूर्णो मैत्रायणीपुत्रः, अयं भगवता मैत्राणिकानाम् अग्रो निर्दिष्टः, स एषागच्छति. (9)
अत्रान्तरेणायुष्मान् द्रव्यो मल्लपुत्रश् चतूरत्नमयम् पर्वतशिखरम् अभिनिर्माय नानाघण्टारवाकीर्णं नानाध्वजपताकोपशोहितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां: पप्रच्छ सुमागधे, ऽयं ते स शास्ता यो ऽयं चतूरत्नमयं पर्वतशिखरम् अभिनिर्माय नानाघण्टारावकीर्णं नानाध्वजपताकोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्यो द्रव्यो मल्लपुत्रो, ऽयं भगवता प्रतिलयकानाम् अग्रो निर्दिष्टः, यो ऽयं संलयान् भिक्षून् तथा प्रतिसंलयनेषु नियोजयति, स एषागच्छति. (10)
अत्रान्तरेणायुष्मान् अनिरुद्धः सर्वसौवर्णं प्रासादम् अभिनिर्माय वैडूर्यप्रवालस्तम्भोपशोभितं नानारत्नविचित्रं वितानमालाविरचितं शतपताकोपशोभितं तन्मध्ये, तत्र चाभ्यन्तरे निषण्ण, उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं सौवर्णं प्रासादम् अभिनिर्माय, तत्र चाभ्यन्तरे सिंहासने निषण्ण उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0