सुमागधावदान · श्लोक 101-120
सा कथयति: नायम् आर्यो ऽनिरुद्धो, ऽयं भगवता दिव्यचक्षुषाम् अग्रो निर्दिष्टः.
अनेन बाराणस्याम् उपविष्टस्य प्रत्येकबुद्धस्यैकपिण्डप्रतिपादनेन सप्तकृत्वश् चक्रवर्तिराज्यानि कारितानि, सप्तकृत्वो देवेषु त्रयस्त्रिंशेषु देवानां राज्यं कारितम्.
तेनैव कर्मावशेषेणाढ्ये शाक्यकुले जातः, अनेकानि च शतसहस्रानि लक्षाहतस्य हिरण्यसुवर्णस्य रूप्यस्य चापहाय प्रव्रजितः, प्रव्रजितो ऽपि चायं लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्.
पुनर् अस्य माहात्म्यं शृणु: माहानाम मात्राभिहितः. पुत्र, राज्ञा घण्टावघोषनं कारितं, शाक्यैः कुलैकया प्रव्रजितव्यम् इति, स त्वं प्रव्रज.
स कथयति: नाहं प्रव्रजामि. यस् ते प्रियः पुत्रः सुखासने उपरि प्रासादतले तिष्ठति, तं प्रव्राजयस्वेति.
माता प्राह: पुत्र, पुण्यमहेशाख्यो ऽसौ, मा तेन सह स्पर्धां कुरु.
अम्बे, त्वं तस्याभिप्रसन्ना येनासौ पुण्यमहेशाख्यः. अद्य तस्य मा किंचित् प्रेषयाज्ञास्यामि पुण्यमहेशाख्यो न वेति.
पुत्र, एवं प्रत्यक्षीकुरु.
तया रिक्तपिठरिकाभिः पिटकं पूरयित्वा शुक्लेन वस्त्रेणाच्छाद्य मुद्राभिलक्षितं कृत्वा प्रेष्यदारिकाहस्ते प्रेषितम्, संदिष्टं च: दारिके, यदि त्वां पृच्छेत् किम् अत्रेति, वक्तव्य्ं न किंचिद् इति. सा तम् आदाय संप्रस्थिता.
शक्रस्य च देवानाम् इन्द्रस्याधस्तात् ज्ञानदर्शनं प्रवर्तते. स संलक्षयति: येन नाम उपरि प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः, तस्याद्य कथं भोजनेन विघातो भविष्यति. भोजनोपसंहारो ऽस्य कर्तव्य इति. तेनासौ पिटको नानासूपिकरभोजनोपेतस्याहारस्य पूरितः.
यावद् असौ दारिका तम् आदायानिरुद्धसकाशं गता, तेनोक्ता: दारिके, किम् अत्रेति. सा कथयति: कुमार, न किंचिद् इति. अनिरुद्धः संलक्षयति: प्रियो ऽहं मातुः, किम् असौ
रिक्तं प्रेषयिष्यति. नूनम् अत्र किं नाम भोज्यभोजनं प्रक्षिप्तम् पश्यामस् तावद् इति.
यावद् उद्घाटितं सर्वं तद् उद्यानम् अनेकोपकरणसुरभिगन्धसंपूर्णं व्यवस्थितम्. यं घ्रात्वानिरुद्धः परं विस्मयम् उपगतः: मातृभक्तो ऽयम्, अनेन मातुर् अग्रपिण्डः प्रेषितः. संदिष्टं चाम्ब, प्रतिदिनम् ईदृशं भोजनं प्रेषितुम् अर्हसीति.
सा दृष्ट्वा परमविस्मयम् उपगता. तया महानामोपदर्शितः: पुत्र, दृष्टं ते. अम्ब, दृष्टम्. ननु त्वं मया पूर्वम् एवोक्तः: पुन्यमहेशाख्यः सत्त्वो मनुष्य सुभगो, मा तेन सह स्पर्धां कुर्ष्वेति. स एषागच्छति.
आह च:
सौवर्णे सुविमानमालरचिते रत्नप्रभालंकृते
ध्यायी ध्यानरतो निषद्य विरजोभद्रासने संयतः ।
आयात्य् एष चलध्वजोपरचितो आर्यानिरुद्धो मुनिः
मुक्तो मोचयिता निमग्नम् अवशं लोकं भवाम्भो निधौ ॥ (11)
अत्रान्तरेणायुष्मान् श्रोणः कोटीकर्णः पुष्पमण्डपम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं पुष्पमण्डपम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्यः श्रोणः कोटीकर्णो, ऽयं भगवता अल्परजस्कजातीयानाम् अग्रो निर्दिष्टः.
अयं रत्नप्रयुक्तिकया कर्णिकया कर्णे आमुक्तिकया जातः. मातापितरौ परं विस्मयम् आपन्नौ.
अस्य पित्रा बलसेनेन सर्वरत्नपरिक्षकान् आहूयोक्तः: रत्नानां मूल्यम् कुरुत इति. ते रत्नानां मूल्यं कर्तुम् आरब्धा, न शक्नुवन्ति रत्नानां मूल्यं कर्तुम्.
धर्मता खलु यस्य रत्नस्य न शक्यते मूल्यं कर्तुं, तस्य कोटिमूल्यं क्रियते. ते कथयति: गृहपते, एकैकस्य रत्नस्य कोटिमूल्यम् इति.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0