सुमागधावदान · श्लोक 61-80
सा कथयति: नायम् आर्यो महाकाश्यपो, ऽयं भगवता अल्पेच्छानां संतुष्टानां धूतगुणधराणाम् अग्रो निर्दिष्टः.
अनेनैकोनं लाङ्गलसहस्रं लक्षाहतानां, षष्टिहिरण्यकोट्यः सौवर्णानां, यवानाम् अशीतिभिः खार्यं, षोडश दासग्रामम्, अष्टादश महाभाक्तग्रामाः, अनेकशतसहस्राणि वस्तून्य् उपकरणं समुत्सृज्य प्रव्रजितः.
पुनर् अपरं: सर्वश्रावकानां समक्षम् अयं भगवतार्धासनेनोपनिमन्त्रितः.
एकप्रस्थोदनं श्रेयः, एकशय्या सुखावहा ।
एकदूष्ययुगं वार्यं, गेयो मोहपरिग्रहः ॥
इति कृत्वा, प्रतिगृहीताशेषा या अपरिग्रह इति न गृहीतः. यश् च भागिनेयाम् अभिरूपां दर्शनीयां जनपदकल्याणीसदृशीं ताम् अपहाय प्रव्रजितः, स एषागच्छति. (3)
अत्रान्तरेणायुष्मान् महामौद्गल्यायन ऐरावणगजवरविलासगामिनं परमस्वभावलक्षणव्यञ्जनोपेतपुण्यदर्शनं हस्तिनम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं नागेन्द्ररथेनागच्छति.
सा कथयति: नायम् आर्यो महामौद्गल्यायनो, ऽयं भगवता ऋद्धिमताम् अग्रो निर्दिष्टः.
अनेन शक्रस्य देवानाम् इन्द्रस्य वैजयन्तः प्रासादः, योजनसहस्रं समन्तात्, परिक्षेपेण चतुरशीतिभिः स्तम्भसहस्रैः सुप्रतिष्ठितः, अर्धपञ्चेमानि योजनानि देवपुराद् अत्युद्गतः पादाङ्गुष्थेनाभिकम्पितः.
नन्दोपनन्दौ नाम नागराजानौ सुमेरुभृगुणपरिवेष्टितं कृत्वावस्थितौ च विनीतौ.
पुनर् अप्य् अनेन भगवान् एवम् उक्तः: एवं हि भदन्त वैजयन्ते दुर्भिक्षं कृच्छ्रं कान्तारं, दुर्लभः पिण्डको याचनकेन, भिक्षवो ऽपि लूहभोजनेन परिक्लाम्यन्ते.
संमुखं मे भदन्त भगवतो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम्: अस्यां महापृथिव्यां पार्थिवः प्रणीतो रसधातुः: सो ऽधस्ताद् अवस्थित इति.
तद् इच्छाम्य् अस्या महापृथिव्याः पार्थिवः प्रणीतो रसधातुः तम् ऊर्ध्वं कर्तुं, यम् ऊर्ध्वं तम् अधः कर्तुम्.
भगवान् आह: कस्मिन् स्थाने स्थित्वा महापृथिवीं परिवर्तयसीति.
एष एवम् आह: चक्रवाडमहाचक्रवाडाभ्यां स्ताने महापृथिविं परिवर्तयिष्यामि.
भगवान् आह: ये पृथिवीसंनिश्रिताः प्राणिनस् तान् कथं करिष्यसीति. एष एवम् आह: ये पृथिवीसंनिश्रिताः प्राणिनस् तान् वामेन पाणिनोद्धृत्य धारयिष्यामि, दक्षिणेन प्राणिना महापृथिवीं परिवर्तयिष्यामि. भगवान् आह: का तव संज्ना भविष्यति.
तद्यथा, भदन्त, बलवान् पुरुषः कदलीपत्रं परिवर्तयन् परमलघुसंज्ञी भवति, एवम् एवाहं भदन्त, महापृथिवीं परिवर्तयन् परमलघुसंज्ञी भविष्यामीति.
साधु साधु, मौद्गल्यायन, शक्यसि त्वम् अनया ऋद्ध्यानेनोपायेन महापृथिवीं परिवर्तयितुम् इति. स एषागच्छति. (4)
अत्रान्तरेणायुष्मान् महाकात्यायनः स्फटिकमयं कूटागारम् अभिनिर्माय मरकतेनाच्छादितं नानारत्नस्तम्भोपनिबद्धं प्रवालवेदिकोपशोभितं, तत्र पर्यण्कः प्रज्ञप्तः पटिकास्तृतो गोणिकास्तृतश् चित्रिकास्तृतश् तूलिकास्तृतः, यावल् लोहितोपधानस्, तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं स्फटिकमयं कूटागारम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
सा कथयति: नायम् आर्यो महाकात्यायनः, अयं भगवता सूत्रान्तवैभङ्गकानां पुण्यमहेशाख्यानाम् अग्रो निर्दिष्टः, स एषागच्छति. (5)
अत्रान्तरेणायुष्मान् महाकौस्ठिलो व्र्षभरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0