भाषा

ENहिગુ
ग्रंथ पाठ

सुमागधावदान · श्लोक 41-60

41

ततो भगवन्तं नमस्कृत्य यस्यां दिशि प्रतिवसति ताम् दिशं प्रेक्षितुम् आरब्धा.

42

अत्रान्तरेणायुष्मान् आज्ञातकौण्डिन्य उरगरथम् अभिनिर्माय शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मेघध्वनिनिर्नादेन तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

43

तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता, यो ऽयम् उरगरथोपविष्टः शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युदुद्द्योतं दर्शयमानो मेघध्वनिनिर्नादेन ऋद्ध्याकाशेनागच्छति.

44

सा प्रोवाच: नायम् आर्यो ऽज्ञातकौण्डिन्यः संघस्थविरः, अनेन भगवता बाराणस्यां धर्मे देश्यमाने तत्प्रथमतो वैराग्यम् अधिगतम् अयं भगवता निर्वाणाधिगमप्राप्तानाम् अग्रो निर्दिष्टह्, स एषागच्छति. (1)

45

अत्रान्तरेणायुष्माञ् छारिपुत्रः सिंहरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा र्द्ध्याकाशेनागच्छति.

46

तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं सिंहरथेनागच्छति.

47

सा कथयति: नायम् आर्यः शारिपुत्रो, यो ऽयं भगवता प्रज्ञावताम् अग्रो निर्दिष्टः.

48

अस्य च गर्भस्थस्य मात्रा जम्बूद्वीपे सर्ववादिनो निर्गृहीताः.

49

जनन्याश् चानेन दौहदम् उत्पादितम्: अप्य् एवाहं सुमेरुमूर्धारुह्य चतुर्णाम् अपि रत्नाकराणां पयः पिबेयम् इति.

50

अथ तिष्येन द्विजप्रवरेणेन्द्रजालपारमिप्राप्तं हरिम् इन्द्रजालाचार्यम् आहूय नरसुरासुरगरुडकिन्नरमहोरगगन्धर्वयक्षसमवाये देव्या दौहदं विनीतम्.

51

अस्य च मातुः कुक्षिनिष्क्रान्तस्य पित्रा सर्वनैमित्तिकाः समाहूयोक्ताः: पश्यन्तु भवन्तः, कुमारस्य किं प्रभावो भविष्यतीति.

52

ते चावलोकयितुम् आरब्धाः. कुमारस्य लक्षणोदारतां रूपोदारतां च दृष्ट्वा परं विस्मयम् आपन्ना, न शक्नुवन्ति व्याकर्तुं कुमारस्येदं प्रभावम् इति.

53

अथाम्बरगतेन महाब्राह्मणा तेषाम् संशयम् अपनयनार्थं ब्राह्मणस्वरेणावघोषितम्.

54

एष कुमारः शाक्यमुनेः सम्यक्संबुद्धस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् करिष्यति, सर्वश्रावकानां चाग्रो भविष्यति, धर्मचक्रानुवर्तयिता.

55

इदानीं वादिनश् चास्य मुखं निरीक्ष्य चिरकालाभिलषितां वाचम् अपि न निश्चारयन्ति, कः पुनर् वादो. वादकरणे अयं भगवता एवम् उक्तः.

56

महासमुद्रप्रमाणं पूर्णमसिभाजनस्य, सुमेरुप्रमाणम् भूर्जपत्रभारस्य, चतुर्द्वीपेषु सर्वसत्त्वधातुप्रमाणं लेखकानाम्, अस्याः पृथिव्यास् तृणकास्ठशाखापर्णसदप्रमाणं कलमानां परिक्षयं पर्यायेन गच्छेत्, न त्व् एवास्य शारिपुत्रस्य प्रज्ञायाः क्षयं वदामि. अतो महाप्रज्ञ इत्य् आख्यातः महासार्थवाहवत्.

57

यावत् सर्वसत्त्वेषु प्रज्ञा ऽस्य सर्वोत्कृष्टा यावत् त्रिभुववासिसकलनरामरसुरस्य
सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम् ।
शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशाम् ॥

58

अन्यम् अप्य् उक्तम्: चतुरार्यसत्यसंक्षेपविस्तरविभागविधिकथावसरे नास्त्य् उत्पत्तिष्व् अस्य समो जगति प्रत्येकबुद्धो ऽपि, स एषागच्छति. (2)

59

अत्रान्तरेणायुष्मान् महाकाश्यपः सौवर्णं पर्वतम् अभिनिर्माय नानामृगगणोपेतं नानाप्रस्रवाकुलं नानापक्षिगणाकीर्णं नानावृक्षोपशोभितं तत्रोपविष्टः स उपरि विहायसा ऋद्ध्याकाशेनागच्छति.

60

तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता यो ऽयं सुवर्णम् पर्वतम् अभिरुह्यागच्छति.

मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc