सुमागधावदान · श्लोक 21-40
पुनर् अपरं, भगवान् द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो ऽसीत्यनुव्यञ्जनैर् विराजितगात्रो व्यामप्रभालंकृतः, सूर्यसहस्रातिरेकप्रभः, जङ्गम इव रत्नपर्वतः समन्ततो भद्रको ऽभिरूपको दर्शनीयः प्रासादिकः.
ज्ञात्वा स भगवान् दृष्ट्वा, सनिदानं श्रावकानां धर्मं देशयति नानिदानं, सनिःसरणं नानिःसरणं, सपरिक्रमं नापरिक्रमं, सप्रतिसरणं नाप्रतिसरणं, सपराक्रमं नापराक्रमं, सप्रातिहार्यं नाप्रातिहार्यम्.
प्रज्ञावन् स भगवान् महाप्राज्ञः, अलम् उत्पन्नानां परवादिनां सह धर्मेण निर्गृहीता, अलं स्वकस्य वादस्य प्रतिष्ठापयिता, कर्मवादी स भगवान् क्रियावादी.
पूर्वाभिलापी स भगवान् प्रियभाषी, उत्तानमुखवर्णो विगतभृकुटिः स्मितपूर्वंगमः. एहीति स्वागतवादी, कल्याणवाक्यः स भगवान् बाह्यकरणोपेतश्, चित्रकथः स भगवान् मधुरकथः, कल्याणप्रणिधानो बहुहितानुकम्पी बह्वनेकजनताविनीत.
आर्यधर्मतया न्यायधर्मतया विरजधर्मतया अतुलधर्मतया लब्धसहायः स भगवान्, बहवो ऽस्य सहायकाः शीलसंपन्नाः समाधिसंपन्नाः प्रज्ञासंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्नाः.
पुनर् अपरं; स भगवान् यं ग्रामक्षेत्रम् उपनिश्रित्य विहरति, न तत्र मनुष्या अमनुष्या वा विहेठयन्ति, कालेन कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश् चावभासाः प्रज्ञायन्ते, देवः कालेन कालं सम्यग् वारिधाराम् अनुप्रयच्छतीति.
तस्याः सहश्रवणाद् एव भगवतो ऽन्तिके चित्तम् अभिप्रसन्नं, सा प्रसन्नचित्ता कथयति: दारिके, शक्यसि त्वं तं भगवन्तम् अस्माकम् उपदर्शयितुम्.
सा कथयति: आर्ये, तेन हि त्वं भक्तं सज्जीकुरु, श्वो ऽहं भगवन्तम् आनयिस्यामीति. मूषिलपत्नी कथयति: साधु, सर्वं सज्जितम् इति.
ततः सुमागधा भवनपृष्ठम् अभिरुह्य मण्डलकम् उपलिप्य पुष्पाण्य् अवकीर्य भगवन्तम् अभिनमस्य यस्यां दिशि प्रतिवसति तस्यां दिशि पुष्पाणि क्षिपति, धूपं च ददाति, भृङ्गारोदकं च भगवतो निमन्त्रणकं प्रेषयति. एवम् आह:
सर्वज्ञ कारुणिक भो खलु सांप्रतं मे संदर्शनं स्वयम् इहागमनं कुरुस्व ।
संघेन सागरसमेन समं जितारे आगामिनीं प्रतिवसस्व निशाम् अतुल्यम् ॥
अनुग्रहार्थं भगवन् ममाद्य कर्तुं नराणां मनसः प्रसादं ।
रूपस्य ते दर्शनमात्रकेन लोकैकनाथ क्रियतां प्रसादः ॥
ततस् तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन हंसपङ्क्तिर् इवाकाशे जेतवनाभिमुखानि संप्रस्थितानि, धूपो ऽभ्रकूटवद् वैडूर्यशलाकोवेदकं भगवतो ऽग्रतः स्थितम्.
तं दृष्ट्वायुष्मान् आनन्दो भगवन्तं पप्रछ: कुतो भगवन्न् इदं निमन्त्रणकम् आयातम्.
पुण्ड्रवर्धनाद्, आनन्द, षष्ट्युत्तराद् योजनशतात्. गच्छानन्द, भिक्षूणाम् आरोचय: श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तिर्थ्यावष्टब्धं तं नगरम् ऋद्धिविकुर्वणं कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारायेति.
एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य गण्डीम् आकोट्य भिक्षुसंघं संनिपात्य वृद्धान्ते स्थित्वा शलाकां चारयन्न् एवम् आह: शृण्वन्तु भदन्ताह्, संघं भगवान् आज्ञापयति.
श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तीर्थ्यावष्टब्धं तं नगरम्, ऋद्धिविकुर्वणम् कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारयेति.
ततः स्थविरस्थविराः शलाकां ग्रहीतुम् आरब्धाः. तत्र पूर्णो नाम सुकुण्डोपधानीयः स्थविरः, सो ऽपि शलाकां ग्रहीतुम् आरब्धः. आयुष्मतानन्देनोच्यते: स्थविर, नेदम् अनाथपिण्डदस्य गृहं गन्तव्यम्, अपि तु पुण्ड्रवर्धनं नगरं गन्तव्यं षष्ट्युत्तरयोजनशतं यावद् ऋद्धिविकुर्वणं कर्तव्यम्.
ततः ससंभ्रमं स्थविरः शलाकां छोरयित्वा, यावद् द्वितीयस्य भिक्षोः शलाका न दीयते, तावत् षडभिज्ञाम् उत्पाद्य गजभुजसदृशं दक्षिणं बाहुम् अभिप्रसार्य शलाकां गृहीत्वा कथयति:
न हि रूपगुणैर् न हि सौष्ठवैर् न बलात्कारगुणैर् न गौरवात् ।
जरया हि निपीडितयौवनाः षडभिज्ञास् तु भवन्ति मद्विधाः ॥
ततः प्रभतायाम् रजन्यां स्थविरस्थविराः स्वकस्वकेन ऋद्ध्यनुभावेन संप्रस्थिताः.
अथ मूषिलपत्नी भगवतो ऽर्थे शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीयासनकानि प्रज्ञप्य, उदकमणिं प्रतिष्ठाप्य, भवनपृष्ठम् अभिरुह्य, सुमागधापि स्वामिना सार्धं श्वशुरेण बहिः स्थिता चिन्तयति.
किं भगवान् आगमिष्यति. अथ नागमिस्यतीति. अथवान्यत्रोपनिमन्त्रितो भविष्यति.
मूल पाठ: Sumāgadhāvadāna · Edition: Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0